Verses

शार्दूलपुरमाहात्म्यम् Śārdūla Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

शार्दूलपुरमित्येतत्प्रसिद्धं क्षेत्रमुत्तमम् ।

सप्तर्षयो मखं चक्रुरत्र पूर्वं दृढव्रताः ॥

2

अत्रिर्भृगुर्वसिष्ठश्च कुत्सो गौतम एव च ।

आङ्गीरसः काश्यपश्च सप्तैते मुनयः स्मृताः ॥

3

सप्तानां व्याहृतीनां च स्रष्टारो दिव्यचक्षुषः ।

लोकक्षेमस्य कर्तारो हर्तारो जनताशुचः ॥

4

अत्र प्रज्ञासरो नाम तीर्थं परमपावनम् ।

तत्तीरे ते मखं चक्रुर्ब्रह्मप्रज्ञाभिवृद्धये ॥

5

गावस्तृणं चरन्ति स्म तेषामेवाश्रमान्तिके ।

मुनयः पूजयामासुस्ता गाश्च श्रद्धयान्वहम् ॥

6

स्नानं कर्तुमुषः काले कदाचिन्मुनिपुङ्गवाः ।

उत्तस्थुः शयनाद्विष्णुं कीर्तयन्तः सनातनम् ॥

7

आश्रमात्ते बहिर्जग्मुर्हरिस्मरणपूर्वकम् ।

तत्र ते ददृशुर्व्याघ्रं पीडयन्तं च गा वने ॥

8

गवां संरक्षणायैव चक्रुशुर्मुनयस्तदा ।

दण्डोद्यतकरा व्याघ्रं प्रहर्तुं दुद्रुवुश्च ते ॥

9

स्तम्भयामास तद्बाहून्मायाव्याघ्रो भयङ्करः ।

परमं विस्मयं प्रापुः सद्यः सप्तर्षयस्तदा ॥

10

कस्त्वं शार्दूलरूपेण चरस्यत्र वदेति ते ।

पप्रच्छुर्मुनयो व्याघ्रं करस्तम्भैककारणम् ॥

11

तदा व्याघ्रो मुनीन् दृष्ट्वा बभाषे नरभाषया ।

आलोलानलजिह्वास्यस्तिग्मचक्षुर्भयङ्करः ॥

12

शार्दूल उवाच

वयं क्रूरमृगा नित्यं सञ्चरामो वनान्तरे ।

गवां भक्षणमस्माकं कुलधर्मः सनातनः ॥

13

अहिंसा परमो धर्मो मुनीनाममलात्मनाम् ।

क्रियते पशुयज्ञो हि युष्माभिर्निर्घृणैरिह ॥

14

धर्मसूक्ष्मं न जानन्ति भवन्तो व्यर्थमेव हि ।

आत्मनः स्वर्गलाभाय पशूनां क्रियते वधः ॥

15

ऋषय ऊचुः

अध्वरोऽयं महाव्याघ्र वेदेन विहितः खलु ।

धर्मे दोषं पश्यसि त्वं प्राज्ञवद्भाषसेऽपि च ॥

16

वैद्या व्रणचिकित्सायां हिंसां कुर्वन्ति वै नृणाम् ।

क्षेमाय वै सा भवति न तत्पापं तथा मखः ॥

17

शार्दूल उवाच

विनैव हिंसयाऽऽरोग्यं प्राप्यते यदि तादृशम् ।

औषधं दीयते वैद्येन हिंसायां न तु चोदना ॥

18

प्रीणाति भगवान्विष्णुः पुरोडाशेन केवलम् ।

किं वृथा क्रियते हिंसा विना पिष्टं हविः शुचि ॥

19

ऋषय ऊचुः

को भवानिह संप्राप्तो व्याघ्ररूपधरो वने ।

यक्षो वा राक्षसो वा त्वं देवो वा वद सांप्रतम् ॥

20

श्रीसद्गुरुरुवाच

एवं पृष्टो महाव्याघ्रो गर्जन्नन्तर्दधे तदा ।

तत्रैव ददृशे विष्णुः शङ्खचक्रगदाधरः ॥

21

श्रीनिवासं जगन्नाथं श्रीवत्साङ्कितवक्षसम् ।

पीताम्बरधरं देवं प्रसन्नाम्बुजलोचनम् ॥

22

विलोक्य मुनयः सर्वे तुष्टुवुर्भक्तिपूर्वकम् ।

मूर्ध्निबद्धाञ्जलिपुटा मुदाश्रुभरितेक्षणाः ॥

23

तमेव स्थापयामासुर्विष्णुं मायाविनं प्रभुम् ।

निर्माय मन्दिरं चैकं पूजयामासुरादरात् ॥

24

पुनश्च ते यथास्थानं जग्मुर्भगवदादृताः ।

पाकयज्ञेन विधिवदाराध्य पुरुषोत्तमम् ॥

25

पशुयज्ञात्तु निखिलात्पाकयज्ञो विशिष्यते ।

प्रीणाति भगवान् विष्णुः सर्वयज्ञफलप्रदः ॥

26

वैखानसेन विधिना वानप्रस्था मुनीश्वराः ।

पाकयज्ञं प्रकुर्वन्ति विष्णोः प्रीत्यर्थमेव हि ॥

27

अस्मिन् क्षेत्रे महाविष्णुं यज्ञं यज्ञेश्वरं हरिम् ।

दृष्ट्वा संप्राप्नुयान्नूनं सर्वयज्ञफलं नरः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे शार्दूलपुरमाहात्म्यम् नाम अध्यायः ॥
Ch.25 Pañcama Bhāge Ch.27