Verses

वारवेलापुरमाहात्म्यम् Vāravelā Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

वारवेलाख्यनगरे व्यासतीर्थस्य वै तटे ।

शेषासनं श्रीनिवासमाश्रयेच्छ्रेयसे नरः ॥

2

व्यासावतारचरितं शृणुध्वं वैष्णवोत्तमाः ।

अज्ञाननाशनं नृणां विष्णुभक्तिविधायकम् ॥

3

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वासव्यां कलया हरेः ॥

4

सरस्वतीनदीतीरे शम्याप्रासे वसन्मुनिः ।

कृत्वा वेदविभागं च स्वशिष्येभ्य उपादिशत् ॥

5

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।

इति भारतमाख्यानं कृतवान् कृपया मुनिः ॥

6

वेदान्तनिर्णयायैवं चक्रे सूत्राणि च स्फुटम् ।

तथाऽपि तस्य मनसि क्लेशोऽभूत्स्वयमेव हि ॥

7

न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ।

इत्येव चिन्तयन् योगी निषसाद निजाश्रमे ॥

8

तदा तत्रागतो व्यासं नारदो भगवानृषिः ।

सान्त्वयामास विविधैः कीर्तितैर्भगवद्गुणैः ॥

9

तेन नारदेन व्यासः चक्रे भागवतं परम् ।

पुराणानामुत्तमं तद्भगवद्गुणपूरितम् ॥

10

एतस्मिन्नन्तरे साक्षाद्रुद्रोऽपि जगतां गुरुः ।

अग्निकुण्डादाविरासीच्छुकरूपेण वै मुनेः ॥

11

अयोनिजं पुत्रमेनं व्यासो विष्णुः स्वयं मुनिः ।

पोषयामास सानन्दं स्वशिष्यैश्च निजाश्रमे ॥

12

व्यासेनैवोपनीतश्च मौञ्जीकौपीनभूषितः ।

शुशुभे शुकदेवोऽथ शिखावानूर्ध्वपुण्ड्रधृक् ॥

13

शुकदेवस्तु सततं कृष्णध्यानपरायणः ।

विमुखो लोकविषये निवृत्तिनिरतोऽभवत् ॥

14

प्रवृत्तिधर्मविमुखं निवृत्तिनिरतं सुतम् ।

प्रेषयामास जनकं धर्मजिज्ञासया च तम् ॥

15

मानापमानविमुखं स्त्रीपुंभेदवर्जितम् ।

वैयासकिं परीक्ष्याथ जनकोऽपूजयच्च तम् ॥

16

चचार व्यासपुत्रस्तु जडोन्मत्तपिशाचवत् ।

ब्रह्मध्यानपरो लोके भेदभावविवर्जितः ॥

17

पुत्रवात्सल्यसंयुक्तो व्यासो धावन्तमात्मजम् ।

अनुधावन्नाजुहाव पुत्र पुत्रेति सादरम् ॥

18

शुकः पाशविनिर्मुक्तो योगेनैव विहायसा ।

छायां प्रदर्श्य लोकेऽस्मिन् ययौ विष्णोः परं पदम् ॥

19

पुत्रशोकेन संयुक्तो व्यासो विष्णुरपि स्वयम् ।

वारवेलाख्यनगरं प्राप भूमौ चरन् मुनिः ॥

20

अत्र नारायणं देवं विष्णुं शेषासनस्थितम् ।

प्रतिष्ठाप्य यथाशास्त्रं पूजयामास सादरम् ॥

21

सर्वं त्यक्त्वा शिष्यवर्गं पूर्वं चापि निजाश्रमम् ।

विरक्तोऽत्र तपश्चक्रे कृष्णद्वैपायनो मुनिः ॥

22

शङ्खचक्रधरः श्रीमान् भगवान् दर्शनं ददौ ।

व्यासोऽपि प्रार्थयामास केशवं भक्तवत्सलम् ॥

23

व्यास उवाच

निवारय त्वं मम मोहपाशं ।

चित्तस्य शान्तिं मम देहि नाथ ।

दुःखप्रदो दारतनूजकामो ।

धन्या रमन्ते हि निजस्वरूपे ॥

24

भवन्ति धान्यानि च सस्यजालात्

फलानि जातानि तरोस्तथैवम् ।

एवं हि मर्त्याः खलु मर्त्ययोने-

र्भवन्ति मायारचनैव सैषा ॥

25

जानामि सर्वं जगदेकनाथ

तथाऽपि दूनोऽस्मि च पुत्रशोकात् ।

निवारय त्वं मम शोकमेनं

ध्यानं च मे देहि तवैव विष्णो ॥

26

तवैव कल्याणगुणानुभावं

कृतं मया भागवतं पुराणम् ।

तदेकमध्यापयितुं स्वपुत्रमकामयं कामितदायकस्त्वम् ॥

27

यथातथा त्वं कुरु शेषशायिन्

त्वदीयपादाम्बुजमन्तरेण ।

समाश्रयस्थानमनन्त नान्यत्

जानामि तस्माच्छरणं त्वमेव ॥

28

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथो वारवेलापुरालयः ।

शेषासनो व्यासदेवं सान्त्वयामास सादरम् ॥

29

श्रीभगवानुवाच

वेदव्यास स्वागतं ते लोकपूज्योऽसि वै मुने ।

त्वमेवाहमहं त्वं च भेदलेशोऽपि नौ न हि ॥

30

एवंभूतस्य ते व्यास पुत्रशोकः कथं भवेत् ।

दर्शितं लोकशिक्षार्थं कृष्णद्वैपायन त्वया ॥

31

अस्मिन् क्षेत्रे महापुण्ये ये सेवन्ते नरा हि माम् ।

तेषामपि महाभाग पुत्रशोको विनश्यति ॥

32

आगमिष्यति ते पुत्रः शुकः शीघ्रं महामुने ।

गच्छ त्वं पुनरेवाद्य शम्याप्रासं तवाश्रमम् ॥

33

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना व्यासः शम्याप्रासमुपागतः ।

पुत्रं प्रतीक्षमाणश्च सानन्दं समुपाविशत् ॥

34

ऊर्ध्वरेता महाज्ञानी योगमार्गेण वै शुकः ।

ददर्श वासुदेवं च तद्विष्णोः परमं पदम् ॥

35

किन्तु वैकुण्ठनाथस्तु शुकदेवं महामुनिम् ।

पुनश्च प्रेषयामास जगदुद्धारणाय हि ॥

36

श्रीमद्भागवतं वक्तुं जातोऽसि भुवि बालक ।

तस्मात् त्वं पितरं गच्छ नित्यं कीर्तय मद्गुणान् ॥

37

इति संप्रेषितो योगी विष्णुना प्रभविष्णुना ।

अवाप्य पितरं भूयो ननाम विहिताञ्जलिः ॥

38

निवृत्तिनिरतं पुत्रं प्रेम्णैव पुनरागतम् ।

विलोक्य भगवान् व्यासः सादरं परिषस्वजे ॥

39

श्रीमद्भागवतं शास्त्रं समग्रं भगवान्मुनिः ।

शुकमध्यापयामास निवृत्तिनिरतं सुतम् ॥

40

पुत्रशोकाद्विनिर्मुक्तो व्यासोऽभूत् कृपया हरेः ।

एतदेव परं क्षेत्रं व्यासेनैवाभिपूजितम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे वारवेलापुरमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥
Ch.32 Pañcama Bhāge Ch.34