Verses

धन्विपुरमाहात्म्यम् Dhanvi Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

कालनेमिरिति ख्यातः पूर्वमासीन्महासुरः ।

स चकार ब्रह्महिंसां परिवारसमन्वितः ॥

2

तपः कृत्वा महाघोरं वशीकृत्य चतुर्मुखम् ।

वरान् प्राप्य सुदुर्मेधा बभूव वरगर्वितः ॥

3

अमरैः समरं कृत्वा प्रविश्यैवामरावतीम् ।

स्वराज्यं स्थापयामास दिवि दानवपुङ्गवः ॥

4

तेन भीताः सुराः सर्वे रहो धन्विपुरं गताः ।

निलिल्युः सकुटुम्बाश्च दयनीयदशां गताः ॥

5

तेषां दशां विलोक्याथ स्वयमेव चतुर्मुखः ।

सान्त्वयामास तान् गत्वा कथयन् विष्णुवैभवम् ॥

6

ब्रह्मणो वचनं श्रुत्वा ते गत्वा क्षीरसागरम् ।

शरण्यं शरणं प्रापुर्भीतानामभयप्रदम् ॥

7

तदा सर्वेश्वरो विष्णुः प्रेषयामास केशवः ।

असुरैः समरं कर्तुं प्रदायैव निजं बलम् ॥

8

आश्रितानां विष्णुमेवं बलाधिक्यं महासुरः ।

आकर्ण्य नारदमुखादाजगाम सुगर्वितः ॥

9

महत्या सेनया सार्धं युद्धं कर्तुमुपागतम् ।

कालनेमिं विलोक्यापि प्रापुः कौतूहलं सुराः ॥

10

आश्रित्य केशवबलं युद्धं चक्रुः सुरास्तदा ।

तथापि दानवो जघ्ने सङ्गरे सकलान् सुरान् ॥

11

गदया पट्टिशेनापि शतघ्न्या चासिना शरैः ।

शूलेन महता सर्वे निहताः समरे सुराः ॥

12

वरुणः पाशमुत्सृज्य यमो दण्डं निजायुधम् ।

इन्द्रोऽपि वज्रमुत्सृज्य सर्वे देवा निजायुधम् ।

दुद्रुवुर्भयभीताश्च केशवं शरणं ययुः ॥

13

तदा सर्वेश्वरो विष्णुरारुह्य विनतासुतम् ।

आदाय चक्रं हस्तेन ह्याजगाम रणाङ्गणम् ॥

14

विष्णोर्दर्शनमात्रेण प्रहृष्टा देवसत्तमाः ।

जितं जितं ते देवेति तुष्टुवुर्जातकौतुकाः ॥

15

चक्रे चक्रप्रयोगं च केशवो लघुलीलया ।

कालनेमिर्हतः सद्यः पपात भुवि वृक्षवत् ॥

16

चक्रेण निहताः सर्वे दानवा भुवि पातिताः ।

मेदिनी रक्तधाराभिः रक्तवर्णाऽभवत्तदा ॥

17

एवं निर्जित्य दैत्यांस्तान् देवान् स्वर्गे निवास्य च ।

अन्तर्दधे वासुदेवः सर्वदेवनियामकः ॥

18

तदिदं परमं क्षेत्रं श्रीपतेः शार्ङ्गधन्विनः ।

नाम्ना धन्विपुरं ख्यातं सर्वपापविनाशकम् ॥

19

अस्मिन् क्षेत्रे महानासीद्वटवृक्षः सुविस्तरः ।

छायायां तस्य निदधे मार्कण्डेयस्तपो महत् ॥

20

बृहद्व्रतधरो योगी चिरञ्जीवी महामुनिः ।

मृत्युं विजित्य तपसा नित्यं षोडशवार्षिकः ॥

21

बहुकल्पनिवासी च विष्णुध्यानपरायणः ।

कल्पे कल्पे हरिं पश्यन् शयानं प्रलयोदके ॥

22

अतृप्तश्च पुनर्विष्णुं द्रष्टुकामः प्रियंवदः ।

धन्विपुरं गत्वा तपश्चक्रे दृढव्रतः ॥

23

कदाचित्प्रलये प्राप्ते सर्वतः संप्लुतोदके ।

विष्णुं ददर्श योगीन्द्रो वटपत्रपुटेशयम् ॥

24

इन्दीवरदलाक्षं तमिन्द्रनीलमणिप्रभम् ।

इन्द्रादिदेवसंसेव्यमिन्दिराप्राणवल्लभम् ॥

25

श्रीवत्सकौस्तुभधरं श्रितरक्षणतत्परम् ।

श्रीधरं जगदाधारं बालकं बहुसुन्दरम् ॥

26

पिबन्तं चरणाङ्गुष्ठं परमानन्दकन्दलम् ।

विलोक्य प्रेमबाष्पेण सुस्निग्धनयनाम्बुजः ॥

27

तुष्टाव देवं योगीन्द्रो मार्कण्डेयो महामुनिः ।

मूर्ध्नि बद्धाञ्जलिपुटो मुकुन्दध्यानतत्परः ॥

28

मार्कण्डेय उवाच

त्वामेव मूलं भुवनत्रयाणां ।

जानामि गोविन्द जगन्निवास

त्वय्येव लीनं प्रलये जगच्च ।

त्वं शिष्यसे केशव शेषसंज्ञः ॥

29

उपेत्य नानाविधनामरूपं

प्रकाशते हेम यथा तथा त्वम् ।

आदौ च मध्ये च तथैवमन्ते

नानाविधोऽप्येकविधो विभासि ॥

30

एवंविधं त्वां परमार्थसत्यम्

आश्रित्य सर्वं भुवनं विभाति ।

त्वया विना नूनमिदं तु मिथ्या

त्वत्तो हि जातं भुवनं च सत्यम् ॥

31

त्वां कारणं कार्यमिदं जगच्च

शून्यं वदन्ति स्वधिया हि तर्किणः ।

शून्यस्य साक्ष्येव विराजसे त्वं

शून्यं च दृष्टं ननु सत्यमेव ॥

32

तव प्रमातुर्निखिलं प्रमेयं

प्रमाणसिद्धिश्च भवेत्त्वयैव ।

त्वमप्रमेयोऽसि परं हि तत्त्वं

प्रज्ञानरूपः स्वयमेव भासि ॥

33

विचार्य शास्त्रेण तथापि धीराः

त्वां नेति नेतीति जगद्विसृज्य ।

प्रत्यक्स्वरूपं परमं विदित्वा

क्षेमं परं शाश्वतमाप्नुवन्ति ॥

34

त्वमेव तेषाममृतं परं हि

त्वामेव पीत्वाऽभिजयन्ति मृत्युम् ।

सर्वत्र संव्याप्तमनन्तमाद्यं

त्वामेकमानन्दसमुद्रमीडे ॥

35

त्वत्पादपद्मभजनोत्सवकौतुकेन

जीवाम्यनन्तशतकल्पमितं किलायुः ।

लब्ध्वाऽप्यनन्त सुखदुःखमयेऽपि लोके

नो चेदनेन मम किं चिरजीवितेन ॥

36

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथो वटपत्रशयो हरिः ।

मार्कण्डेयमुनिं श्रान्तं सान्त्वयामास केशवः ॥

37

तस्मिन् धन्विपुरे क्षेत्रे वटपत्रे मनोहरे ।

स्थितः प्रलयकालेऽपि दृश्यतेऽद्यापि केशवः ॥

38

एवं धन्विपुरक्षेत्रमाहात्म्यं ये पठन्ति ते ।

दीर्घमायुरवाप्यैव भक्तिं कुर्वन्ति केशवे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे धन्विपुरमाहात्म्यम् नाम दशमोऽध्यायः ॥
Ch.09 Pañcama Bhāge Ch.11