Verses

केदारक्षेत्रमाहात्म्यम् Kedāra Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

अश्विनौ भिषजौ मत्वा मुनयो यज्ञकर्मणि ।

सोमं ताभ्यां नैव ददुस्तस्मात्तौ दुःखितौ पुरा ॥

2

तौ प्राप्य सत्यलोकस्थं ब्रह्माणं लोकनायकम् ।

विज्ञापनं चक्रतुश्च प्रणम्य विधिपूर्वकम् ॥

3

अश्विनावूचतुः

नमस्तेऽस्तु महादेव भगवन् कमलासन ।

आवयोः प्रार्थनां श्रुत्वा कृपां कुरु चतुर्मुख ॥

4

अष्टौ च वसवो ब्रह्मन् रुद्राश्चैकादश स्मृताः ।

तथैव द्वादशादित्याश्चावामप्यश्विनावुभौ ॥

5

एवं वेदे त्रयस्त्रिंशद्देवा निर्धारिताः प्रभो ।

वयं सर्वे समा नूनं भवामो यज्ञभागिनः ॥

6

तथापि मुनयः किन्तु नौ मत्वा भिषजौ मखे ।

न प्रयच्छन्ति सोमं हि भवावो दुःखितौ ततः ॥

7

आवाभ्यां च त्वया सोमः कृपयैव विधीयताम् ।

देवेषु भेददृष्टिस्तु पापमेव न संशयः ॥

8

ब्रह्मोवाच

देवानामपि सर्वेषां मध्ये देवौ युवां खलु ।

तथापि भिषजौ नीचौ युवामेव न संशयः ॥

9

विधातुं युवयोः सोमं नाधिकारो ममापि हि ।

वेदानां वैदिकानां च यज्ञानामेक ईश्वरः ॥

10

वेदवेद्यो महाविष्णुर्लोकनाथः श्रियः पतिः ।

तमेव शरणं गत्वा सोमभागमवाप्नुतम् ॥

11

ताम्रपर्णी नदीतीरे रमया रमते हरिः ।

केदारक्षेत्रमध्ये तु सस्यमण्डलशाद्वले ॥

12

तत्र गत्वा युवां भक्त्या लक्ष्मीनायकमर्चतम् ।

यज्ञेश्वरो यज्ञपूज्यः करिष्यति मनोरथम् ॥

13

श्रीसद्गुरुरुवाच

इत्युक्तावश्विनौ देवौ प्रहृष्टौ भुवमागतौ ।

पूजयामासतुर्देवं ताम्रपर्णीतटे पृथक् ॥

14

निर्माय चाश्विनीतीर्थं तत्तीरे भक्तिपूर्वकम् ।

मूर्तिद्वयं प्रतिष्ठाप्य विष्णोर्यज्ञेश्वरस्य तौ ।

पूजयामासतुर्भक्त्या देवदेवं जनार्दनम् ॥

15

भगवान् देवनाथोऽयमरविन्दविलोचनः ।

कृपया मधुरं प्राह सान्त्वयन्नश्विनावुभौ ॥

16

श्रीभगवानुवाच

युवयोः श्रद्धया भक्त्या प्रसन्नोऽस्मि सुरोत्तमौ ।

सोमपानं विधास्यामि यज्ञे वां न हि संशयः ॥

17

शर्यातिर्नाम राजाऽस्ति सुकन्या तस्य वै सुता ।

सखीभिः सहिता रेमे च्यवनाश्रममण्डले ॥

18

अजानन्ती कण्टकेन वल्मीकान्तः स्थितस्य तु ।

नेत्रज्योतिर्मुनेस्तस्य दृष्ट्वा किमिति विस्मिता ॥

19

विव्याध मुग्धा बाला सा सहसा कुपितो मुनिः ।

आजगाम बहिस्तूर्णं भीतभीता ननाम तम् ॥

20

तामेव कन्यां राजानं ययाचे मुनिपुङ्गवः ।

ददौ शापभयाद्राजा तस्मै कन्यां च सुन्दरीम् ॥

21

सेवते श्रद्धया नित्यं कोपिष्ठं जरठं पतिम् ।

पातिव्रत्येन तस्यास्तु प्रसन्नोऽस्मि युवामिह ॥

22

तस्मै दत्वा यौवनं च सौन्दर्यं नित्यनूतनम् ।

सुकन्यापतये नूनं सोमपानमवाप्स्यथः ॥

23

नूनं मदाज्ञया धीरश्च्यवनो मुनिपुङ्गवः ।

दत्तयौवनसन्तुष्टः सोमपानं विधास्यति ॥

24

श्रीसद्गुरुरुवाच

नासत्यौ तौ भगवता प्रेषितौ च्यवनं मुनिम् ।

गत्वा भगवतो विष्णोरूचतुः शासनं तथा ॥

25

च्यवनोऽपि निजे यज्ञे ददौ सोमाहुतिं तयोः ।

रुरोध वज्रबाहुस्तं देवराजः शचीपतिः ॥

26

अवष्टभ्य भुजं तस्य स्वप्रभावेण तापसः ।

अश्विभ्यां प्रददौ सोमं च्यवनो विष्णुशासनात् ॥

27

तस्मिन् यज्ञे समाप्ते तु सारूप्यं ददतुर्निजम् ।

अश्विनौ मुनये तस्मै प्रार्थितौ च सुकन्यया ॥

28

पतिभक्त्या सुकन्यायाः प्रहृष्टावश्विनावुभौ ।

संप्राप्तसोमपानौ च स्वर्गमेव गतौ पुनः ॥

29

शर्यातिर्मानवो राजा जामातुर्यौवनं पुनः ।

विलोक्य विस्मयं प्राप कथं कथमिति ब्रुवन् ॥

30

सुकन्या वर्णयामास माहात्म्यं च्यवनस्य तु ।

राजापि प्राप सन्तोषं धर्मरक्षणकारणात् ॥

31

तत्रैव दृश्यते नित्यमश्विभ्यां पूजितो हरिः ।

मूर्तिद्वयेन भगवान् ताम्रपर्णीतटे शुभे ॥

32

यः पश्येद्देवनाथं तमरविन्दविलोचनम् ।

मुच्यते सर्वरोगेभ्यो युवा स्यात् च्यवनो यथा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे केदारक्षेत्रमाहात्म्यम् नाम चतुर्दशोऽध्यायः ॥
Ch.13 Pañcama Bhāge Ch.15