Verses

तोताद्रिमाहात्म्यम् Totādri Māhātmyam

1

श्रीसद्गुरुरुवाच

कुशासनो नाम मुनिर्गालवस्य कुमारकः ।

तपश्चक्रे महाघोरं विष्णुध्यानपरायणः ॥

2

स नित्यं सिन्धुसलिले स्नात्वा प्रातर्यथाविधि ।

शालग्रामशिलायां तु विष्णोः पूजां चकार ह ॥

3

एकदा तापसश्रेष्ठो पक्त्वा नैवेद्यमोदनम् ।

निधाय पात्रे माध्याह्नकर्म कर्तुं ययौ क्वचित् ॥

4

तदा तत्रागमच्छ्रीमान् सिन्धुराजो महामनाः ।

एकाकी च धनुष्पाणिर्वनेषु मृगयामटन् ॥

5

क्षुत्पिपासाकुलो राजा क्लान्तः श्रान्तश्च दुःखितः ।

आश्रमं निर्जनं तत्र ददर्श वरमोदनम् ॥

6

शाल्यन्नं कांस्यपात्रेऽत्र केनेदं निहितं शुचि ।

आज्यप्लुतं देवतार्हं सुपक्वममृतोपमम् ॥

7

यदृच्छयाऽत्र निहितं केनचिद्ब्राह्मणेन वा ।

देवेन वाऽथ सिद्धेन रक्षसा वञ्चकेन वा ॥

8

परमं कौतुकं जातं क्षुत्क्लान्तजठरस्य मे ।

अन्नं विलोक्य सहसा निर्जनेऽस्मिन्महावने ॥

9

यथातथा वा भवतु क्षुत्क्लान्तजठरोऽस्म्यहम् ।

अन्नमश्नामि सानन्दं करिष्ये जीवधारणम् ॥

10

इति स्मरन् सिन्धुराजो बुभुजे परमं हविः ।

तावत्कुशासनो विप्रः स्वमाश्रममुपाययौ ॥

11

विलोक्य विष्णुनैवेद्यं भुक्तं भूपतिना तदा ।

कुपितो नितरां सद्यः शशाप मुनिपुङ्गवः ॥

12

कुशासन उवाच

श्ववत् प्रविश्य विजनं स्वच्छन्दं वैष्णवं हविः ।

यस्माद्भुक्तं त्वया तस्मात् श्वा भव त्वं महीपते ॥

13

अनिवेद्य स्वयं विष्णोर्यो भुङ्क्ते वरमोदनम् ।

श्वा भूत्वा सञ्चरेल्लोके भोजनाय गृहे गृहे ॥

14

सिन्धुराज उवाच

ममापराधं योगीन्द्र क्षमस्वाजानता कृतम् ।

क्षुत्पीडया विमुग्धेन प्रविष्टेन तवाश्रमम् ॥

15

परिहारं वद स्वामिन् पापस्यास्य महामुने ।

दौर्भाग्येनाश्रमं गत्वा विष्णुद्रोहो मया कृतः ॥

16

कुशासन उवाच

ताम्रपर्णीनदीतीरे सुतीर्थं पङ्कजोद्भवम् ।

वर्तते मुनिभिः सेव्यं सर्वपापविनाशनम् ॥

17

तस्मिन् स्नात्वा महाराज सद्यः पूतो भविष्यसि ।

शापाद्विमुक्तः स्वं राज्यमवाप्स्यसि न संशयः ॥

18

श्रीसद्गुरुरुवाच

इत्युक्तः सिन्धुराजोऽपि श्वा बभूव वनान्तरे ।

ततस्ततः सञ्चचार ग्रामे ग्रामे वने वने ॥

19

तं गृहीत्वा नटः कश्चित्पोषयन् प्रेमपूर्वकम् ।

चचार भुवने क्रीडां दर्शयन्निजमायया ॥

20

ताम्रपर्णीतटं गत्वा ददर्श वनमद्भुतम् ।

तत्र पङ्कजसङ्कीर्णं तटाकं च नटो नरः ॥

21

तस्मिंश्चक्रे दाहशान्तिं परिवारसमन्वितः ।

सोऽपि श्वा सलिलं पीत्वा सद्यो राजाऽभवद्बत ॥

22

आश्चर्यचकिताः सर्वे श्वानं तं नृपरूपिणम् ।

विलोक्य परमप्रीताः पप्रच्छुः परमाद्भुतम् ॥

23

तदा स्वयं स्वचारित्रं सिन्धुराजो निवेद्य च ।

स्नात्वा तस्मिन् तटाके तु स्वं राज्यं पुनराययौ ॥

24

सिन्धुराजमुखेनैव श्रुत्वा तत्तीर्थवैभवम् ।

रोमशोऽपि मुनिश्रेष्ठस्तपः कर्तुमुपागमत् ॥

25

तीरे पङ्कजतीर्थस्य तपश्चक्रे महामुनिः ।

अष्टाक्षरी जपन्नित्यं ब्रह्मविद्यां दृढव्रतः ॥

26

शीर्णपर्णानिलाहारः पञ्चपावकमध्यगः ।

नानाविधं तपश्चक्रे विष्णुदर्शनकातरः ॥

27

तस्यापि तपसो भङ्गं विधातुं कृतनिश्चयः ।

प्रेषयामास देवेन्द्रश्चोर्वशीं च तिलोत्तमाम् ॥

28

नानापुष्पसमाकीर्णं वसन्तमलयानिलम् ।

कोकिलध्वनिसानन्दं शारिकाशुकभाषितम् ॥

29

हरिणीगणसंसेव्यं मयूरनटनोज्ज्वलम् ।

सद्यो दर्शनमात्रेण मुनीनामपि मोहनम् ॥

30

सुन्दरं वनमासाद्य मृगयासक्तमन्मथम् ।

मादनं नरनारीणां मदनाडम्बरोज्ज्वलम् ॥

31

ददर्शतुर्देवदास्यौ आसीनं रोमशं मुनिम् ।

मीलिताक्षं महाशान्तं माधवध्यानतत्परम् ॥

32

मोहयामासतुस्ते तं नानाभावप्रदर्शनैः ।

प्रबोधयन्त्यौ गीतेन वाद्येन नटनेन च ॥

33

विलोक्य देववनिते प्रसन्ननयनो मुनिः ।

उवाच मधुरं वाक्यं जितक्रोधो जितेन्द्रियः ॥

34

रोमश उवाच

तिलोत्तमे स्वागतं ते तव स्वागतम् उर्वशि ।

दृढव्रतस्तापसोऽहं प्रियं किं करवाणि वाम् ॥

35

अजानन्त्यौ मत्प्रभावं महेन्द्रप्रेषिते युवाम् ।

ममैव मोहनार्थं च मत्समीपमुपागते ॥

36

जानामि सर्वं वनिते जनार्दनकृपाबलात् ।

न शपामि युवां तस्माद्गच्छतं पुनरालयम् ॥

37

मम चित्ते स्वयं विष्णुर्वसति व्योमनायकः ।

तद्विष्णोः परमं स्थानमाक्रान्तुं शक्यते कथम् ॥

38

श्रीसद्गुरुरुवाच

जितेन्द्रियत्वं तस्यैवं विलोक्य भगवान् हरिः ।

स्वयं बभूव तस्यैव पुरस्ताद् व्योमनायकः ॥

39

अनन्तासनसंविष्टमम्भोधरसमच्छविम् ।

अम्बुजाक्षं कृपासिन्धुं रमाभूमिसमन्वितम् ॥

40

शङ्खचक्रधरं शान्तं शरण्यमभयप्रदम् ।

अङ्के निधाय पाणिं स्वम् उपविष्टं जनार्दनम् ॥

41

आह्वयन्तं भक्तगणान् आदरेण वरप्रदम् ।

आश्रयं पादपद्मं स्वं प्रदर्श्य स्वकरेण हि ॥

42

श्रीवत्सकौस्तुभधरं स्वयं व्यक्तं चतुर्भुजम् ।

पीताम्बरं प्रसन्नं च पुण्डरीकायतेक्षणम् ॥

43

नारायणं परं ब्रह्म नानाभूषणभूषितम् ।

तिलोत्तमोर्वशीभ्यां च वीजितं श्वेतचामरम् ॥

44

विलोक्य रोमशो विष्णुं देवदेवं जगत्पतिम् ।

तुष्टाव बाष्पपूर्णाक्षः पुलकाञ्चितविग्रहः ॥

45

रोमश उवाच

जितं जितं ते जितसर्वलोक ।

जितोऽसि भक्तैर्विजितेन्द्रियैस्त्वम् ।

कथं जयेत् काममसह्यशत्रुं ।

कृपानिधे त्वत्स्मरणं विनैव ॥

46

सत्त्वं विशुद्धं परमं पवित्रम् ।

आनन्दमात्रं ह्यतिसुन्दरं ते ।

श्रीविग्रहं चित्तगृहान्तराले ।

दृष्ट्वापि चान्यत्र कथं रतिः स्यात् ॥

47

विजित्य कामं विजितेन्द्रियाश्च ।

पतन्ति कोपे पुनरन्धकूपे ।

शपन्ति तस्मान्मुनयोऽपि मुग्धा ।

दुरत्यया ते त्रिगुणा तु माया ॥

48

कामं च कोपं च विजित्य केचित् ।

मदेन मुग्धाश्च भवन्ति मर्त्याः ।

पश्यामि सर्वत्र तवैव लीलाम् ।

विनीतभावं मम देहि विष्णो ॥

49

तपः करिष्यामि फलं च तस्य ।

प्राप्स्यामि नूनं मम यत्नतो हि ।

एवं मुनीनां स्मरतां मुकुन्द ।

परीक्षसे त्वं बलमादिदेव ॥

50

अकिञ्चनोऽहं न तपोबलं मे ।

त्वमेव मां पाहि कृपार्णव इति ।

एवं श्रितानां कृपया नराणां

रक्षाभरं त्वं वहसि स्वमूर्ध्ना ॥

51

एतादृशं बन्धुमुपागतं त्वाम् ।

विसृज्य कारुण्यमहासमुद्रम् ।

अन्याश्रया दुःखमवाप्नुवन्ति ।

पुनः पुनस्ते जननं मृतिं च ॥

52

अर्चावतारं स्वयमेव कृत्वा ।

स्वयं प्रभो राजसि दिव्यदेशे ।

तथापि मूढा भुवि भाग्यहीनाः

त्यक्त्वा भवन्तं परमाश्रयन्ति ॥

53

ये तु त्वदीयं चरणाब्जमेतत् ।

आलम्ब्य मुक्ता भवकूपपङ्कात् ।

भवन्ति ते वै भुवि भाग्यवन्तः ।

तेषां नराणां न पुनश्च दुःखम् ॥

54

अत्रैव विष्णो निवसन् कृपाब्धे ।

विस्मृत्य पापानि कृतानि नृणाम् ।

प्रसीद नित्यं कलिदूषितानाम्

अपि स्वयं कामितदानदक्षः ॥

55

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथो रोमशेन तपस्विना ।

तत्रैवोवास भगवान् शालग्राममयो हरिः ॥

56

स्वयं व्यक्तेषु मुख्यं तत्क्षेत्रं परमपावनम् ।

महर्षिगणसंसेव्यं ताम्रपर्णीतटस्थितम् ॥

57

चकार दिव्यं नगरं नाम्ना श्रीवरमङ्गलम् ।

विष्णोर्नियमनेनैव विश्वकर्मा सुरोत्तमः ॥

58

देवाश्च विप्ररूपेण वसन्ति वरमङ्गले ।

विष्णोराराधनार्थं हि त्यक्त्वा चैवामरावतीम् ॥

59

ये पश्यन्ति नरा भक्ताः तोताद्रौ व्योमनायकम् ।

न तेषां कर्मबन्धश्च न दुःखं न भयं तथा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे तोताद्रिमाहात्म्यम् नाम एकोनविंशोऽध्यायः ॥
Ch.18 Pañcama Bhāge Ch.20