Verses

विद्वद्गोष्ठीपुरमाहात्म्यम् Vidvadgoṣṭhī Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

अम्बरीषो महाराजो महाभागवतोत्तमः ।

नित्यं सत्सङ्गमाकाङ्क्षी कथाश्रवणतत्परः ॥

2

अयोध्याधिपतिः श्रीमान्नाभागतनयो महान् ।

सत्यसन्धो महावीरः स्वधर्मपरिपालकः ॥

3

तीर्थयात्रां प्रकुर्वाणः केरलं देशमागतः ।

विद्वद्गोष्ठीं ददर्शात्र शास्त्रवादपरायणाम् ॥

4

तान् प्रणम्य महाराजः शास्त्रज्ञान् ब्राह्मणोत्तमान् ।

उवाच मधुरं वाक्यं विनीतो विहिताञ्जलिः ॥

5

अम्बरीष उवाच

कथमाराधितो विष्णुः प्रीणाति भगवान् हरिः ।

कथं तद्दर्शनं प्राप्यं वदत ब्राह्मणोत्तमाः ॥

6

विद्वांस ऊचुः

वरं वैष्णवधर्मेषु द्वादशीव्रतमुत्तमम् ।

एकादश्यामुपोष्य त्वं द्वादश्यां पारणं कुरु ॥

7

द्वादश्यां विष्णुमाराध्य पायसेन द्विजानथ ।

भोजयित्वा यथाशास्त्रं ततः कुर्याच्च पारणम् ॥

8

एवं संवत्सरे कृत्वा पक्षे पक्षे महीपते ।

विष्णोः कारुण्यपात्रं स्याः सत्यमेव न संशयः ॥

9

श्रीसद्गुरुरुवाच

अम्बरीषो महाभागस्तीर्थयात्रां समाप्य च ।

अयोध्यां पुनरागत्य चकार द्वादशीव्रतम् ॥

10

व्रतान्ते कार्तिके मासि विप्रैर्भागवतैः सह ।

पुण्यं मधुवनं प्राप यत्र सन्निहितो हरिः ॥

11

स्नात्वाऽथ यमुनायां च शालग्रामं समर्च्य च ।

उपवासपरो भक्तो निशि जागरणव्रतः ॥

12

सत्कथाश्रवणेनापि नामसङ्कीर्तनेन च ।

नीत्वा निशामथ प्रातः स्नात्वापि यमुनाजले ॥

13

विष्णुमभ्यर्च्य विधिवद् ब्राह्मणानभिपूज्य च ।

ततस्तैरभ्यनुज्ञातः पारणार्थमुपाविशत् ॥

14

तदा तत्रागतः साक्षाद्दुर्वासा भगवान्मुनिः ।

तं दृष्ट्वा संभ्रमाद्राजा दत्वाऽर्घ्यं पाद्यमेव च ॥

15

साञ्जलिः स्वागतं चोक्त्वा प्रार्थयामास पारणाम् ।

अङ्गीकृत्य महाराजप्रार्थनां च महामुनिः ।

कर्तुं स्वनियमं योगी यमुनासलिलं गतः ॥

16

पारणातिक्रमे दोषं ब्राह्मणातिक्रमे तथा ।

विचार्य राजा धर्मज्ञश्चकार जलपारणम् ॥

17

तावदुत्थाय दुर्वासाः वृथा क्रोधसमन्वितः ।

अम्बरीषमुपागत्य तस्मै कृत्यां ससर्ज ह ॥

18

प्रणम्य चरणौ राजा स्वापराधं क्षमापयन् ।

ययाचे पारणं कर्तुं क्रोधपर्याकुलेक्षणम् ॥

19

आविर्भूतं तदा तत्र विष्णुचक्रं सुदर्शनम् ।

ददाह कृत्यां सहसा सृष्टां दुर्वाससा नृपे ॥

20

जाज्वल्यमानं तच्चक्रं विलोक्य भगवान् ऋषिः ।

दुद्राव प्राणभीत्यैव तत्र तत्र ससंभ्रमः ॥

21

पातालं जलधिं मेरुं स्वर्गमाकाशमेव च ।

सत्यलोकं च कैलासमतिक्रम्य महामुनिः ॥

22

तत्र तत्र सुरैः सर्वैः सद्य एव निराकृतः ।

शरण्यं शरणं लेभे क्षीराब्धौ हरिमीश्वरम् ॥

23

तदा भक्तपराधीनो भगवान् मृदुभाषणः ।

सान्त्वयामास भीतं तं प्रपन्नं कृपया मुनिम् ॥

24

श्रीभगवानुवाच

अहं भक्तपराधीनः स्वातन्त्र्यं न हि मे द्विज ।

स्वामिनो मम भक्ता हि तेषां दासोऽस्मि सन्ततम् ॥

25

भक्तापराधं सोढुं मे शक्तिर्न हि मुनीश्वर ।

न स्मराम्यपकाराणां शतं मयि समर्पितम् ॥

26

तस्मात्त्वमम्बरीषं तं शरणं याहि वैष्णवम् ।

शमयिष्यति ते दुःखं प्रशान्तहृदयो हि सः ॥

27

श्रीसद्गुरुरुवाच

एवं त्यक्तो भगवता दुर्वासा दुःखपीडितः ।

अम्बरीषस्य चरणौ जग्राह भुवमागतः ॥

28

अम्बरीषो महाराजः पादस्पर्शविलज्जितः ।

दुर्वाससो हितायैव तुष्टाव च सुदर्शनम् ॥

29

अन्तर्हितं विष्णुचक्रं सद्य एव सभान्तरे ।

तद् दृष्ट्वा भक्तमाहात्म्यं श्लाघते स्म महामुनिः ॥

30

दुर्वाससमथाभ्यर्च्य विनीतो विहिताञ्जलिः ।

अपराधं क्षमस्वेति ययाचे च पुनः पुनः ॥

31

ततो दुर्वाससि गते महाभागवतोत्तमः ।

चकार राज्यं धर्मात्मा विष्णुध्यानपरायणः ॥

32

अथाम्बरीषस्तनये स्वराज्यं

निधाय पत्न्या सह भक्तिनिष्ठः ।

पुनश्च विद्वन्नगरीमवाप्य

चकार तीव्रं तप एव नित्यम् ॥

33

तस्य प्रसन्नो भगवान्मुरारि-

र्ददौ कृपालुर्निजदर्शनं च ।

तत्रैव वैकुण्ठमवाप राजा

पत्न्या च विष्णुव्रतनिष्ठया सः ॥

34

विद्वद्गोष्ठीपुरे विष्णुमम्बरीषप्रतिष्ठितम् ।

आराध्य प्राप्नुयान्नूनं तद्विष्णोः परमं पदम् ॥

35

कृत्याभिचारयोगाच्च मुच्यते धर्मसङ्कटात् ।

श्रुत्वाम्बरीषचरितं विद्वद्गोष्ठीपुरे नरः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे विद्वद्गोष्ठीपुरमाहात्म्यम् नाम एकत्रिंशोऽध्यायः ॥
Ch.30 Pañcama Bhāge Ch.32