Verses

उडुपिक्षेत्रमाहात्म्यम् Uḍupi Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कर्णाटके महाक्षेत्रं कृष्णसान्निध्यसंयुतम् ।

आस्ते ह्यभीष्टफलदं नृणामघविनाशनम् ॥

2

द्वारकायां वसन् देवो रुक्मिणीवल्लभः प्रभुः ।

षोडशस्त्रीसहस्रेशश्चक्रे नानाविधां रतिम् ॥

3

गृहे गृहे नारदस्तु तत्तद्देवीसमन्वितम् ।

ददर्श नानारूपं तं सज्जनाराधनप्रियम् ॥

4

गोकुलं चिन्तयामास द्वारकायां वसन्नपि ।

यशोदां चिन्तयामास देवक्या लालितोऽपि च ॥

5

नन्दगोपं हि सस्मार वसुदेवेन पोषितः ।

राधिकां चिन्तयामास रुक्मिण्याऽऽराधितोऽपि च ॥

6

तस्माद्गोकुललीलां स्वामुवाच च पुनः पुनः ।

तच्छ्रुत्वा रुक्मिणीदेवी चकमे गोकुलेश्वरम् ॥

7

गोकुलेश्वररूपेण दर्शनं प्रददौ हरिः ।

करेण दधिमन्थानं धृत्वा रज्जुं च लीलया ॥

8

तामेव मूर्तिं सानन्दं पूजयामास रुक्मिणी ।

सखीभिः सहिता नित्यं द्वारकायां निजालये ॥

9

एतस्मिन्नन्तरे कृष्णः प्रार्थितो नारदेन च ।

षोडशस्त्रीसहस्रेण रासलीलां चकार सः ॥

10

तासां चन्दनपङ्केन मृत्पिण्डमभवत्तदा ।

गोपीचन्दनमित्येव यच्छ्लाघन्ते हि वैष्णवाः ॥

11

शापव्याजेन विप्राणां कुलनाशं विधाय च ।

अन्तर्हिते भगवति द्वारकां सागरोऽग्रसीत् ॥

12

तदा श्रीबालगोपालो मृत्पिण्डेऽन्तर्हितोऽभवत् ।

नाविकास्तु तदारोप्य नावि सिन्धुं च पुप्लुवुः ॥

13

महावातेन नौका सा चकम्पे दुःखिता जनाः ।

तदा तीरस्थितो योगी शमयामास मारुतम् ॥

14

आनिनाय च तां तीरं पालयामास तान्नरान् ।

ते सर्वे मुदिता नेमुर्योगीन्द्रं करुणानिधिम् ॥

15

आनन्दतीर्थयोगीन्द्रो मृत्पिण्डमवलोक्य च ।

तुष्टाव प्रेमभक्त्यैव पुलकाञ्चितविग्रहः ॥

16

योगीन्द्र उवाच

जय विजयी भव केशिनिषूदन ! कुटिलकेशपाश- ।

कुट्मलविन्यस्तकेकिपिञ्छावतंस केशव ! नानाचराचर-

विधायक ! नलिनासनजनकनाभिसंपुट नारायण ! ।

महिलामण्डलमदनजनकमदालसमन्दहासवदन माधव !

गोगोपीजनसंरक्षणत्वरितगोवर्धनोद्धार गोविन्द ! विश्व- ।

जगत्सृष्टिस्थितिसंहारकविश्वेश्वर विष्णो! मधुराजन-

गणमनोमोहनमङ्गलविग्रहविस्मापितत्रिभुवन मधुसूदन ! ।

त्रिलोकीपवित्रभागीरथीजनकपादपद्मप्रथितचरित्र

त्रिविक्रम ! वन्दारुजनमन्दारवृन्दारककुलवन्दितपदारविन्द ।

वामन! श्रीवत्साङ्कितवक्षःस्थलविमलवैजयन्तीमालालङ्कृत

श्रीधर ! हृदयकमलविराजितहरिहयमणिनीलकलेवर ।

हृषीकेश ! पद्मनयन पद्मवदन पद्मचरण पद्मारमण

पद्मनाभ ! देवदेव! दावानलभक्षक दयासागर दामोदर ! ।

संसारसागरपतितसकलजनसन्तारणोडुपभूत श्रीचरणकमल !

उडुपिक्षेत्रनिलयश्रीकृष्ण ! सुप्रसन्नो भव ॥

17

श्रीसद्गुरुरुवाच

एवमानन्दतीर्थेन प्रार्थितो नीलमाधवः ।

गोपीचन्दनमृत्पिण्डादाविरासीत्कृपानिधिः ॥

18

उडुपिक्षेत्रमध्ये तु निर्माय भवनं महत् ।

प्रतिष्ठाप्य जगन्नाथं पूजयामास संयमी ॥

19

तदेदत्पावनं क्षेत्रं भक्तानन्दविवर्धनम् ।

सर्वाभीष्टप्रदं नृणां सर्वारिष्टनिवारकम् ॥

20

उडुपिक्षेत्रमाहात्म्यं ये शृण्वन्ति पठन्ति च ।

परया श्रद्धया भक्त्या तेषां कृष्णः प्रसीदति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे उडुपिक्षेत्रमाहात्म्यम् नाम अध्यायः ॥
Ch.35 Pañcama Bhāge Ch.37