Verses

श्रीशोणशैलमाहात्म्यम् Śrī Śoṇa Śaila Māhātmyam

1

श्रीसद्गुरुरुवाच

शङ्खतीर्थस्य तीरेऽस्मिन् शोणशैलपुरे हरिः ।

विराजते कृपासिन्धुः शिवेन परिपूजितः ॥

2

वक्ष्यामि तस्य माहात्म्यं महापातकनाशनम् ।

यस्य श्रवणमात्रेण सर्वत्र विजयी भवेत् ॥

3

अन्धको नाम दैत्येन्द्रः पूर्वमासीन्महाबलः ।

स चक्रे परमं घोरं तपो देवसुदुष्करम् ॥

4

तस्मै वरं ददौ ब्रह्मा तपसैव वशीकृतः ।

अजेयत्वमवध्यत्वं देवानामायुधैर्युधि ॥

5

वज्रेण वा सुरेशस्य दण्डेन च यमस्य वा ।

पाशेन वरुणस्यापि वायोश्च गदया तथा ॥

6

रुद्रस्य परशोर्वापि विष्णोश्चक्रेण वा तथा ।

सेनापतेर्वा शक्त्यापि तथान्येषां वरायुधैः ॥

7

अवध्यत्वमजेयत्वं वव्रे स दनुजाधमः ।

तस्मै तथा वरं ब्रह्मा ददौ दृष्ट्वा तपो महत् ॥

8

महाबलः स्वभावेन वरदानेन गर्वितः ।

चकार सुमहद्युद्धं देवैः सह सुदुर्मतिः ॥

9

तेनैव ताडिताः सर्वे देवाः शक्रपुरोगमाः ।

शरण्यं शरणं प्रापुः शिवं संहारकारकम् ॥

10

रुद्रोऽपि वृषमारुह्य सर्वदेवगणैर्वृतः ।

चकार समरं घोरमन्धकेन त्रिलोचनः ॥

11

घोरं परशुमादाय चिच्छेद च शिरस्तथा ।

अन्धको वञ्चयामास मायारूपेण शङ्करम् ॥

12

भग्नोऽभवत्स परशुर्भग्नवीर्योऽभवच्छिवः ।

देवान् विसृज्य सहसा शङ्करोऽपि तिरोदधे ॥

13

भूमौ केरलमागत्य वनशैलसमावृतम् ।

शङ्खतीर्थसमीपे स चकार सुमहत्तपः ॥

14

तस्य भक्त्या प्रसन्नात्मा भगवान् पद्मलोचनः ।

आविरासीत्कृपासिन्धुः शङ्खचक्रगदाधरः ॥

15

दुर्गया च सरस्वत्या लक्ष्म्या च परिसेवितः ।

दुराराध्यो जगन्नाथः सत्यं वचनमब्रवीत् ॥

16

श्रीभगवानुवाच

प्रसन्नोऽस्मि महादेव कृतेन तपसा त्वया ।

जानामि निखिलान् देवानन्धकेनाभिपीडितान् ॥

17

हयग्रीवो नाम पूर्वमासीत्कल्पान्तरे खलः ।

जहार निखिलान् वेदान् तपसा मोहयन् विधिम् ॥

18

ब्रह्मणा प्रार्थितोऽहं तु हयग्रीवस्वरूपधृक् ।

निहत्य समरे दैत्यमाहरं निखिलाः श्रुतीः ॥

19

तदा नैव शूलेन निहतो दितिजाधमः ।

तदेव शूलं दास्यामि तुभ्यं चन्द्रकलाधर ॥

20

अम्भृणो नाम विख्यातो मुनिरासीन्महातपाः ।

तस्य कन्याऽभवल्लक्ष्मीर्नाम्ना चेयं सरस्वती ॥

21

वव्रे मामेव भर्तारं लोकनाथं जटाधर ।

अभूवमहमस्याश्च वाग्देव्यास्तु पतिः शिव ॥

22

तमोगुणस्वरूपोऽयमन्धको दुर्जयः सुरैः ।

चिन्मयेनैव शूलेन जहि तं युधि लीलया ॥

23

येनैव दुर्गया पूर्वं निहतो महिषासुरः ।

ब्रह्मविद्यास्वरूपिण्या तमोगुणमयः खलः ॥

24

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुरुवाच च सरस्वतीम् ।

दुर्गां च विष्णुमायां तां शूलं देहीति शम्भवे ॥

25

तदा हयग्रीवपत्नी वाग्देवी तु सरस्वती ।

ददौ ज्ञानमयं शूलं तमोगुणविनाशनम् ॥

26

ततस्तेनैव शूलेन युद्धे देवगणान्वितः ।

जघान दनुजाधीशमन्धकं वृषभध्वजः ॥

27

ततो जयजयेत्येवं तुष्टुवुर्मुनयः सुराः ।

देवदेवं महादेवं शङ्करं वृषभध्वजम् ॥

28

हयग्रीवस्य कृष्णस्य वाग्देवीसहितस्य च ।

महादेवस्य दुर्गाया देव्याश्च स्थानमुत्तमम् ॥

29

इदं क्षेत्रं महापुण्यमज्ञानध्वान्तनाशनम् ।

आयुरारोग्यदं नृणां शत्रुसंहारकारणम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीशोणशैलमाहात्म्यम् नाम सप्तविंशोऽध्यायः ॥
Ch.26 Pañcama Bhāge Ch.28