Verses

नावपुरमाहात्म्यम् Nāva Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

प्रतीचीतीरमाश्रित्य क्षेत्रे नावपुराभिधे ।

संसारनावभूतोऽयमास्ते नारायणो हरिः ॥

2

दृप्तक्षत्रविनाशाय ब्राह्मणैः प्रार्थितो हरिः ।

जमदग्निसुतो भूत्वा जगतां मङ्गलाय सः ॥

3

त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रां चकार सः ।

महेन्द्राद्रौ तपश्चक्रे महनीयपराक्रमः ॥

4

केरलेषु चचारैष तीर्थयात्रापरायणः ।

महर्षिगणसंसेव्यो रामो राजीवलोचनः ॥

5

मुनयः पूजयामासुः प्रतीचीतीरवासिनः ।

अत्रैव न्यवसद्रामो ब्रह्मचारी दृढव्रतः ॥

6

तं तु कमला साक्षात्कमनीयमुखाम्बुजम् ।

करे गृहीत्वा कमलमागता कमलालयात् ॥

7

श्रीदेव्युवाच

नमस्ते सर्वलोकेश प्रसीद कमलेक्षण ।

भारो विनष्टो हि तवैव कृपया भुवि ॥

8

घोरं तं परशुं त्यक्त्वा प्रशान्तहृदयो भव ।

गृणीष्व मां स्वयं प्राप्तां कमलामनपायिनीम् ॥

9

श्रीभगवानुवाच

कमले त्वमिहायाहि जानामि त्वां मम प्रियाम् ।

मम वक्षःस्थले नित्यमनपेता विराजसे ॥

10

तथापि भार्गवी त्वं तु तथाहं भार्गवः किल ।

सगोत्रत्वात्त्यजामि त्वामस्मिन् जन्मनि केवलम् ॥

11

श्रीदेव्युवाच

अहं नित्यस्वरूपास्मि वैकुण्ठे गृहिणी तव ।

कस्मिंश्चिदवतारेऽहं भृगुपुत्र्यभवं पुरा ॥

12

तदेतत्कारणं चोक्त्वा त्यक्तास्मि भगवंस्त्वया ।

अत्र त्वामेव संप्राप्तुं करिष्यामि महत्तपः ॥

13

श्रीसद्गुरुरुवाच

इत्युक्त्वा लोकजननी कमला कमलालया ।

हरिमेव पतिं प्राप्तुं चकार सुमहत्तपः ॥

14

सखीरूपेण तस्यास्तु पार्वती च सरस्वती ।

परिचर्यां चक्रतुश्च पवित्रे ह्याश्रमे तदा ॥

15

कदाचिद्ब्राह्मणो वृद्धस्तीर्थयात्रामटन् महान् ।

आययौ चाश्रमं तत्र ददर्श कमलां तथा ॥

16

कमला स्वसखीभ्यां तं पूजयामास सादरम् ।

तस्थौ तत्पुरतो भक्त्या विनीता विहिताञ्जलिः ॥

17

तां कन्यकां विलोक्याथ पप्रच्छ द्विजपुङ्गवः ।

वात्सल्यप्रेमसंयुक्तः पिता दुहितरं यथा ॥

18

ब्राह्मण उवाच

बाले त्वं किं वृथा घोरं करोषि विपिने तपः ।

एतादृशं तपः कर्तुमर्हन्ति मुनयः खलु ॥

19

मालतीमृदुलं चाङ्गं क्लेशयन्ती कृशोदरि ।

कष्टं करोषि मे चित्ते सुखार्हा सुखवर्जिता ॥

20

श्रीसद्गुरुरुवाच

इत्युक्ता कमला तेन लज्जया स्वसखीमुखम् ।

ददर्श स्मितसंपन्ना जगाद वचनं सखी ॥

21

सख्युवाच

इयं मम प्राणसखी कमला कमलेक्षणा ।

अवाप्तुं भार्गवं रामं करोति सुमहत्तपः ॥

22

ब्राह्मण उवाच

हन्त मूढाऽसि कमले या त्वमिच्छसि भार्गवम् ।

घोरं परशुमादाय वृथा भ्रमति भूतले ॥

23

त्रिः सप्तकृत्वः पृथिवीं क्षत्रशोणितकर्दमाम् ।

कृत्वाऽपि तृप्तिर्नास्त्येव हृदये तस्य पद्मिनि ॥

24

महाक्रोधेन संयुक्तं तं त्यक्त्वा भृगुनन्दनम् ।

अन्यं वरं कामय त्वं सुगुणं सुन्दरं नरम् ॥

25

कमलोवाच

भृगुपादप्रहारेण लाञ्छितोऽपि च वक्षसि ।

तस्यैव वंशे सञ्जातः स्वयं लक्ष्मीपतिः खलु ॥

26

क्षमावान् नरो लोके तस्मादप्यधिकोस्ति कः ।

निन्दसि त्वं वृथा विप्र पापमेव भवेत्तव ॥

27

वैष्णवानां च विष्णोश्च यः शृणोति यदृच्छया ।

निन्दां तस्य महत्पापं भवेदेव न संशयः ॥

28

जिह्वां तु सहसा छिन्द्यान्निन्दकस्य दुरात्मनः ।

अथवा पिहितश्रोत्रो दूरं गच्छेद्विहाय तम् ॥

29

श्रीसद्गुरुरुवाच

इत्युक्त्वा कमलादेवी सखीजनसमन्विता ।

बहिर्ययौ समुत्थाय वेपमाना ससंभ्रमा ॥

30

तदा तत्रैव भगवान् रामो राजीवलोचनः ।

वृद्धरूपं परित्यज्य निजरूपधरोऽवदत् ॥

31

श्रीभगवानुवाच

कमले तव भक्त्याहं प्रसन्नोस्मि तवाग्रतः ।

प्राप्तुं भार्गव रूपेण नार्हामि त्वां च भार्गवीम् ॥

32

तस्मादहं पूर्वरूपं मूलनारायणात्मकम् ।

धृत्वैव त्वां प्रगृह्णामि तव शोकनिवृत्तये ॥

33

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् रामो मुनिरूपं विसृज्य च ।

शङ्खचक्रगदापाणिर्बभौ भक्तिवशीकृतः ॥

34

तदा भृगुरुपागत्य पूजयामास केशवम् ।

कमलां च ददौ कन्यां विष्णवे परमात्मने ॥

35

कमला परमप्रीता नारायणसमन्विता ।

अस्मिन् क्षेत्रे स्वभक्तानां ददाति निजदर्शनम् ॥

36

तदिदं परमं क्षेत्रं यः पश्येद्भाग्यवान्नरः ।

स च लक्ष्मीप्रसादेन सर्वं मङ्गलमाप्नुयात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे नावपुरमाहात्म्यम् नाम अष्टाविंशोऽध्यायः ॥
Ch.27 Pañcama Bhāge Ch.29