Verses

गुरुवायुपुरवैभवम् Guruvāyu Pura Vaibhavam

1

श्रीसद्गुरुरुवाच

मधुरायाः समं क्षेत्रं तीर्थञ्च यमुनासमम् ।

श्रीकेशवसमा मूर्तिर्ब्रह्माण्डे नास्ति किञ्चन ॥

2

मधुरायां केशवं तं वसुदेवो महामनाः ।

आराधयामास कृष्णं देवक्या सह भक्तिमान् ॥

3

शङ्खचक्रगदापद्मसंशोभितचतुर्भुजम् ।

श्रीनिवासं घनश्यामं श्रीवत्साङ्कितवक्षसम् ॥

4

प्रसन्नवदनं देवं पीताम्बरधरं प्रभुम् ।

पुण्डरीकविशालाक्षं भक्ताभीष्टफलप्रदम् ॥

5

स एव भगवान् भक्त्या प्रार्थितः शौरसेनिना ।

आविरासीत्कृष्णरूपो भूभारहरणेच्छया ॥

6

श्रीगोकुलं प्राप्य ततो मुकुन्दो

विधाय लीलां विविधां सुहृद्भिः ।

अवाप्य भूयो मधुराञ्च कंसं

निहत्य पित्रोरभयं ददौ च ॥

7

ततो जरासन्धनिपीडितां स्वां

प्रजां विलोक्यैव बलानुजोऽयम् ।

पुरीं च निर्माय समुद्रमध्ये

श्रीद्वारकां तां प्रविवेश कृष्णः ॥

8

श्रीकेशवं तत्र निनाय शौरि-

राराधनं कर्तुमना नितान्तम् ।

तथा हि तद्भक्तिवशङ्गतोऽसौ

श्रीद्वारकामेव जगाम देवः ॥

9

समाप्य सर्वामवतारलीला-

मन्तर्हितेऽस्मिन् वसुदेवसूनौ ।

दिवङ्गतेऽस्मिन् मधुपानमत्ते

जनेऽखिले हन्त युगान्तकाले ॥

10

जग्राह सर्वां नगरीं समुद्रः

प्रवातकल्लोलविदारितास्यः ।

ततस्तु तां केशवमूर्तिमाद्यां

निनाय तीरं गुरुणा च वायुः ॥

11

समुद्रतीरे तु सदाशिवोऽपि

स्थलं प्रदर्श्यावृतवृक्षगुल्मम् ।

तत्र प्रतिष्ठापयितुं मुकुन्दं

वायुं गुरुं सादरमादिदेश ॥

12

तत्र प्रतिष्ठाप्य मुकुन्दमूर्ति-

माराध्य वायुश्च गुरुर्महेशः ।

तुष्टाव भक्त्या गलदश्रुनेत्रः

सर्वैश्च देवैः सह साञ्जलिश्च ॥

13

गुरुरुवाच

ऊर्ध्वे बाहुयुगे दधानममलं शङ्खं च चक्रं तथा- ।

ऽधस्ताद्बाहुयुगेन सुन्दरतरं पद्मं गदां बिभ्रतम् ।

मेघश्यामलविग्रहं कटिलसत्पीताम्बरं सुन्दरं ।

श्रीवत्साङ्कितवक्षसं स्मितमुखं वातालयेशं भजे ॥

वायुरुवाच ।

त्यक्त्वा तत्परमं पदं श्रुतिवचोवेद्यं च मुक्ताश्रयं

पूर्वं श्रीमधुराङ्गतो बहुविधां लीलाञ्च कृत्वा ततः ।

गत्वा द्वारवतीं कृपाजलनिधे हित्वा च तां मायया

स्वच्छन्दं त्वमिहागतः श्रितजनानन्दप्रदो वर्तसे ।

महेश उवाच

सर्वेश्वरं त्वामभिपूजयामि ।

महेश्वरोऽहं च महाविभूते

कृपारसाब्धे किमुतान्यदेवास्तं ।

त्वामनाश्रित्य कथं सुखं स्यात् ॥

14

देवा ऊचुः

स्वे स्वेऽधिकारे भवता नियुक्ताः ।

कार्यञ्च कुर्मः किल देवदेव ।

कैङ्कर्यबुद्ध्या कमलापते ते ।

त्यक्त्वा वयं तत्फलकामनाञ्च ॥

15

भागवता ऊचुः

यावच्चन्द्रदिवाकरौ जगदिदं कारुण्यसिन्धो हरे ।

क्षेत्रेऽस्मिन् निजभक्तपूजितपदाम्भोजः प्रसन्नो भव ।

त्वामाश्रित्य सतां गतिं श्रितजनाभीष्टप्रदं केशवं ।

नानादुःखसमाकुलाः कलियुगे मुक्ता भवन्तु स्वयम् ॥

एवं स्तुतो जगन्नाथो गुरुवायुपुरे वसन् ।

अद्याप्याश्रितभक्तानां दुःखं हरति केशवः ॥

16

तदिदं हि महाक्षेत्रं गुरुवायुपुरं शुभम् ।

यत्र प्रसन्नो भगवान् सेव्यतेऽस्मिन् कलावपि ॥

17

ये पश्यन्ति कलौ कृष्णं गुरुवायुपुरं गताः ।

तेषां जन्मैव सफलं ते कृतार्था न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे गुरुवायुपुरवैभवम् नाम पञ्चत्रिंशोऽध्यायः ॥
Ch.34 Pañcama Bhāge Ch.36