Verses

पुलिनालयक्षेत्रमाहात्म्यम् Pulinālaya Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिद्भगवान् विष्णुः कमलायतलोचनः ।

श्रीदेव्या सह भूदेव्या चरन् गरुडवाहनः ॥

2

पीताम्बरधरः श्रीमान् शङ्खचक्रगदाधरः ।

श्रीवत्सकौस्तुभधरः कस्तूरीतिलकाञ्चितः ॥

3

कर्पूरचन्दनालिप्तो मालतीमल्लिकाधरः ।

ददर्श ताम्रपर्ण्यास्तु पुलिनं सुमनोहरम् ॥

4

विहर्तुकामस्तत्रैव त्वरयाऽवततार च ।

सार्धं कमलया देव्या गरुडान्निजवाहनात् ॥

5

विजहार श्रिया सार्धं पुलिनेऽस्मिन्मनोरमे ।

तस्मादभूत् सुविख्यातं क्षेत्रं तत्पुलिनालयम् ॥

6

अत्रापि दृश्यते विष्णुर्देवराजादिपूजितः ।

अर्चावताररूपेण भक्ताभीष्टफलप्रदः ॥

7

कदाचिद्देवराजस्तु मृगयां कर्तुमिच्छया ।

चचार हयमारूढस्ताम्रपर्णीवनान्तरे ॥

8

ताम्रपर्णीतीरमेतद्देवानामपि रञ्जकम् ।

देवोद्यानादपि श्रेष्ठं मनुष्याणां तु किं पुनः ॥

9

मत्तभ्रमरझङ्कारे मत्तकोकिलसुस्वरे ।

मयूरनृत्यमधुरे मन्दारतरुमण्डिते ॥

10

कान्तारे सञ्चरन् शक्रो ददर्श हरिणं पथि ।

विव्याध लीलया देवो मृगयाजातकौतुकः ॥

11

मायावी ब्राह्मणः कश्चित्तपोबलसमन्वितः ।

मृगाकृतिधरो रेमे हरिणीसङ्गमेच्छया ॥

12

विष्णोर्माया भगवती योगिनामपि मोहिनी ।

इयेष हरिणी रन्तुं हरिरूपधरो द्विजः ॥

13

तपोबलव्ययं कर्तुं मोहयामास मन्मथः ।

च्युतवीर्यं मृगाकारं तं विव्याध पुरन्दरः ॥

14

मृगरूपं समुत्सृज्य द्विजरूपेण तं मृतम् ।

ब्रह्महत्यापापभयं दृष्ट्वा प्राप पुरन्दरः ॥

15

ब्रह्महत्याविनाशाय तीर्थं कृत्वा स्वनामतः ।

पूजयामास गोविन्दं पुलिनालयवासिनम् ॥

16

तदा प्रसन्नो भगवान् प्रददौ निजदर्शनम् ।

मूर्ध्निबद्धाञ्जलिपुटस्तुष्टाव च शचीपतिः ॥

17

इन्द्र उवाच

नमो नमस्तेऽखिललोकनाथ ।

नारायणानन्त मुकुन्द विष्णो ।

ब्रह्मा च रुद्रश्च सुरेश्वरोऽह- ।

माज्ञां त्वदीयां सततं वहामः ॥

18

त्वद्धाम दिव्यं न तु कर्मसाध्यमप्राकृतं

नित्यमनन्तमाद्यम् ।

भजन्ति जीवा भवबन्धमुक्ता

भक्त्यैव संप्राप्य तव प्रसादम् ॥

19

कर्माणि कृत्वा विविधानि लोके

तत्तत्फलानामशनेच्छयैव ।

भ्रमन्ति लोकेषु तपस्विनोऽपि

पुनः पुनर्मृत्युवशं प्रयान्ति ॥

20

व्यर्थं प्रयासं च विलोक्य तेषां

स्थानान्मदीयाच्च विमोक्तुकामः ।

करोमि विघ्नं तपसस्तथापि

तेनैव जानन्ति मदीयभावम् ॥

21

ममापि शापं कुपिताः प्रदाय

पुनश्च कुर्वन्ति तपः सुघोरम् ।

करोमि विघ्नं तपसः पुनश्च

पुनः पुनर्नष्टधना भवन्ति ॥

22

व्ययो हि नूनं भुवने धनानां

संपादितानां निजकर्मभिर्हि ।

हृदि स्थितं ये धनमव्ययं त्वां

जानन्ति ते साधव एव धन्याः ॥

23

न सार्वभौमं न च नाकपृष्ठं

न पारमेष्ठ्यं न च योगसिद्धीः ।

न चापवर्गं हृदि कामयन्ते

त्वयैव सन्तः सततं रमन्ते ॥

24

तपोधनानां तु तपोहरोऽहं

तमेव जानाम्यपराधमीश ।

क्षमस्व मे पापमपि प्रभो मां

प्रसह्य त्वद्दासपदे नियुङ्क्ष्व ॥

25

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः श्रीनाथो भक्तवत्सलः ।

सान्त्वयामास देवेशं वज्रपाणि शचीपतिम् ॥

26

प्रणम्य विष्णुं शक्रोऽपि दिवं प्राप गतामयः ।

ब्रह्महत्यादिकं पापं जहार भगवान् हरिः ॥

27

भक्तानामागतानां च कृपया पुलिनालये ।

निवसन् रमया नित्यं ताम्रपर्णीतटे प्रभुः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे पुलिनालयक्षेत्रमाहात्म्यम् नाम अध्यायः ॥
Ch.12 Pañcama Bhāge Ch.14