Verses

महेन्द्रगिरिमाहात्म्यम् Mahendra Giri Māhātmyam

1

श्रीसद्गुरुरुवाच

वराह भगवान् विष्णुर्धरण्या प्रियया सह ।

विहर्तुकामो माहेन्द्रमारुरोह महागिरिम् ॥

2

नानावृक्षसमाकीर्णं नानापुष्पसुगन्धितम् ।

शाद्वलश्यामलं रम्यं पक्षिजालकुतूहलम् ॥

3

शीतप्रस्रवसुस्निग्धं हरिणीगणसेवितम् ।

किन्नरीगणसङ्गीतं देवनारीनिषेवितम् ॥

4

माहेन्द्रं गिरिमालोक्य सञ्चरंश्च ततस्ततः ।

निर्ममे मनसा पुण्यमुटजं कुटजावृतम् ॥

5

तत्र पद्मपलाशाक्षः क्षमया प्रियया सह ।

न्यषीदत् प्रेमसल्लापं कर्तुं सुन्दरविग्रहः ॥

6

अङ्के निधाय भूमिं तामवलम्ब्य करेण च ।

मूर्ध्न्युपाघ्राय सानन्दं चुचुम्ब श्यामसुन्दरः ॥

7

प्रलयार्णवमग्ना सा वराहेण समुद्धृता ।

संसारार्णवमग्नानां कर्तुमुद्धारणं नृणाम् ॥

8

हृदये निश्चयं कृत्वा कृपयैव वसुन्धरा ।

पप्रच्छ स्वपतिं विष्णुं शरणागतवत्सलम् ॥

9

भूमिरुवाच

संसारार्णवमग्नानां जीवानां भक्तवत्सल ।

कथं भवेदुद्धरणं कृपया वद केशव ॥

10

त्वां विना भवमग्नानां नास्त्येव गतिरन्यथा ।

दुःखितानां च बहुधा मोहितानामविद्यया ॥

11

श्रीभगवानुवाच

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।

जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥

12

संसारकूपमग्नानां विना मन्नामकीर्तनम् ।

नान्या गतिर्विद्यते हि बहिर्गन्तुं नृणामिह ॥

13

न देशकालनियमो न जातिनियमस्तथा ।

मन्नामकीर्तनं नृणां विहितं पापनाशनम् ॥

14

चण्डालोऽपि किरातोऽपि कृत्वा मन्नामकीर्तनम् ।

पूजितो मुनिभिर्नूनं पुनाति भुवनत्रयम् ॥

15

स्खलन्ति यज्ञशीलाश्च स्खलन्ति च तपस्विनः ।

नामकीर्तनमात्रेण न स्खलन्ति कदाचन ॥

16

मातङ्गो नाम चण्डालः पूर्वमासीन्महामनाः ।

सत्यसन्धो दृढप्रज्ञो नित्यं मत्कीर्तनप्रियः ॥

17

प्रातः स्नात्वा श्रद्धयैव मम नामानि कीर्तयन् ।

ऊर्ध्वपुण्ड्रधरो भक्त्या तुलसीमणिमालिकः ॥

18

वीणामादाय हस्तेन बाष्पस्निग्धविलोचनः ।

वादयन् कैशिकं रागं गायति स्म दिने दिने ॥

19

तस्य गानेन सन्तुष्टो विकचय्य विलोचनम् ।

अनुग्रहमहं कुर्यां श्रिया सार्धं त्वया सह ॥

20

कदाचित् कार्तिके मासे शुक्लपक्षे शुभङ्करे ।

एकादश्यां वैष्णवोऽयमुपवासपरायणः ॥

21

कृत्वा जागरणं रात्रौ मम कीर्तनमाचरन् ।

प्रातः प्रबोधनं कर्तुं प्रतस्थे मम मन्दिरम् ॥

22

मार्गमध्ये तु मातङ्गमग्रहीद्ब्रह्मराक्षसः ।

मोचयन्नात्मनात्मानं कृत्वैव शपथं बहु ॥

23

मया रुद्धोऽपि मातङ्गः प्रेमभाषणपूर्वकम् ।

मन्मन्दिरमुपागत्य कृत्वा मत्कीर्तनं तथा ।

सत्यसन्धः पुनः प्राप तं घोरं ब्रह्मराक्षसम् ॥

24

सत्यसन्धं वैष्णवं तं विलोक्य ब्रह्मराक्षसः ।

स्वयमुक्त्वा स्वचारित्रं मातङ्गं शरणं ययौ ॥

25

ब्रह्मराक्षस उवाच

सोमशर्मेति विख्यातो ब्राह्मणोऽहं महामते ।

यज्ञस्खलनदोषेण भूतोऽहं ब्रह्मराक्षसः ॥

26

एकादश्यां हरेर्नाम कीर्तितं यत्त्वया निशि ।

मह्यं दत्वा तत्फलं त्वं मामुद्धर कृपानिधे ॥

27

शरण्यं शरणं यामि वैष्णवं दीनवत्सलम् ।

पुनीहि पुण्यदानेन भुवनत्रयपावन ॥

28

श्रीभगवानुवाच

मम भक्तस्तु मातङ्गः प्रपन्नं ब्रह्मराक्षसम् ।

विलोक्य कृपया सद्यो किञ्चिद्गानफलं ददौ ॥

29

मत्कीर्तनप्रभावेण तथा मद्भक्तदर्शनात् ।

यज्ञस्खलनपापेन मुक्तोऽभूद्ब्रह्मराक्षसः ॥

30

मम कीर्तनमात्रेण मद्भक्तो मत्परायणः ।

धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥

31

तस्मान्मद्गानमाहात्म्यं ननु वाचामगोचरम् ।

चण्डालोऽपि च मातङ्गो येन चक्रे वशं हि माम् ॥

32

अत्र सौन्दर्यपूर्णोऽहं विहरामि त्वया सह ।

मातङ्गवीणागानेन विमोहितमनाः क्षमे ॥

33

स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः ।

धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ॥

34

ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।

अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥

35

नान्यः पन्था विद्यते हि तर्तुं संसारसागरम् ।

कलावस्मिन् युगे घोरे विना मन्नामकीर्तनम् ॥

36

सर्वंसहे त्वया सार्धमस्मिन् क्षेत्रे वसन् सदा ।

सर्वं सहे कलौ नृणामपराधं सुदुःसहम् ॥

37

श्रीसद्गुरुरुवाच

इत्याह भगवान् विष्णुः पूर्णसौन्दर्यविग्रहः ।

रत्नगर्भां कृपासिन्धुर्भक्तरक्षणतत्परः ॥

38

कदाचिदाययौ तत्र कैलासशिखराच्छिवः ।

विलोक्य सुन्दरं विष्णुं तुष्टाव विहिताञ्जलिः ॥

39

शिव उवाच

नमो नमस्ते पुरुषोत्तमाय ।

सौन्दर्यपूर्णाय पुरातनाय

महेन्द्रमुख्यैर्महिताय देवै- ।

र्महेन्द्रशैलेऽत्र महीसुरैश्च ॥

40

त्वत्पादपद्मे मकरन्दभूतां

गङ्गां च नित्यं शिरसा धरामि ।

त्वन्नामगानेन ददामि मोक्षं

काश्यां मृतानां कमलायताक्ष ॥

41

महेन्द्रनीलच्छविसुन्दरं ते

दिव्यं स्वरूपं सततं विचिन्त्य ।

हेतोस्ततोऽहं ननु नीलकान्तिः

वदन्ति मां माधव नीलकण्ठम् ॥

42

तवैव माया त्रिगुणात्मिका या

वेदे प्रसिद्धा खलु वैष्णवीति ।

कुटुम्बिनीभावमुपेत्य मां च

संसेवते नित्यमुमेति नाम्ना ॥

43

ममापि पुत्रस्तु गणेश्वरोऽयं

तवैव नामात्र विलिख्य भूमौ ।

प्रदक्षिणीकृत्य ममाज्ञयैव

पूज्योऽभवत् सर्वजनैश्च नित्यम् ॥

44

प्रोक्तो मया वैष्णवधर्मसारः

पूर्वं कुमाराय कृतादराय ।

त्वयैव साकं स च सङ्गरे तं

जघान शूरं किल तारकाख्यम् ॥

45

त्वयाऽर्चितोऽहं च बहुस्थलेषु

स्वच्छन्दवृत्त्यैव पुनः पुनश्च ।

तथापि नाहं तु लभे च गर्वं

त्वामेव नित्यं हृदये स्मरामि ॥

46

मुमुक्षवो मामुपगत्य पूर्वं

पप्रच्छुरब्जेक्षण मोक्षमार्गम् ।

ध्येयो भवद्भिर्हरिरेक एवे-

त्यहं विनिश्चित्योचिवांस्त्वाम् ॥

47

इच्छामि सोऽहं किल वैष्णवत्व-

मीशस्त्वमेवासि जगन्निवास ।

तथापि मामीशमुपासते च

त्वदाज्ञया मद्व्रतमाचरन्तः ॥

48

तथापि केचिद्विमुखा ममापि

निन्दां प्रकुर्वन्ति विमुग्धचित्ताः ।

वदन्ति मां तामसदेवतेति

किं तत्तवेष्टं वद वामन त्वम् ॥

49

श्रीभगवानुवाच

मा विषीद महादेव जानामि हृदयं तव ।

निन्दन्ति किल दौर्भाग्यान्मानवाः पूर्वदुष्कृतात् ॥

50

तवैव हृदये नित्यं वसामि ननु शङ्कर ।

त्वमेवाहमहञ्च त्वं न भेदश्चावयोस्तथा ॥

51

मद्भक्ता अपि ते मूढा भेदभावेन संयुताः ।

ममैव द्रोहमीहन्ते त्वयि द्वेषेण शङ्कर ॥

52

नित्यं पार्श्वस्थितस्तस्मादस्मिन् क्षेत्रे ममैव हि ।

मदाज्ञया कृतां भक्तैः पूजां प्राप्नुहि मत्समम् ॥

53

श्रीसद्गुरुरुवाच

एवं संसान्त्वितः शम्भुः संवसन् सह विष्णुना ।

पूजितो भवत्यत्र नित्यं पार्श्वस्थितो हरेः ॥

54

तदिदं परमं क्षेत्रं प्रविशन्ति च ये नराः ।

भवन्ति नूनं ते पूज्या वैकुण्ठे विष्णुना समम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे महेन्द्रगिरिमाहात्म्यम् नाम विंशोऽध्यायः ॥
Ch.19 Pañcama Bhāge Ch.21