Verses

शीतवातपुरमाहात्म्यम् Śītavāta Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

बाणासुरो महावीरः शिवभक्तिमतां वरः ।

मृदङ्गं वादयामास नित्यं यः शिवताण्डवे ॥

2

लब्ध्वा भुजसहस्रं स बभूव वरगर्वितः ।

ततः क्रुद्धस्तु भगवानुवाच वृषभध्वजः ॥

3

त्वद्दर्पघ्नं भवेन्मूढ संयुगं विष्णुनैव हि ।

यस्त्वं भुजसहस्रेण लोकान् हंसि सुगर्वितः ॥

4

उषा तस्य कुमारी तु सुन्दरी सद्गुणान्विता ।

भवानीं पूजयामास वरं प्राप्तुं वराङ्गणा ॥

5

सा कदाचिद्ददर्शापि वरं कमपि सुन्दरम् ।

क्रीडन्तमात्मना तुल्यं रसिकं श्यामलच्छविम् ॥

6

स्वप्ने दृष्टं वरं कान्तं ध्यायन्ती दुःखिता भृशम् ।

पुनः पुनः पृच्छ्यमाना स्वसखीं तं न्यवेदयत् ॥

7

तत्सखी चित्रलेखा तु लिखित्वा नृपनन्दनान् ।

उषायै दर्शयामास प्रेमपूर्वं दिने दिने ॥

8

अन्ते सा दर्शयामास यदुवीरान् सखीं प्रति।

सङ्कर्षणं वासुदेवं प्रद्युम्नं च महाबलम् ।

अनिरुद्धं महावीरमुषायै संन्यवेदयत् ॥

9

अनिरुद्धं विलोक्यैव कामबाणेन पीडिता ।

सोऽसावसाविति प्राह कौतूहलसमन्विता ॥

10

योगिनी चित्रलेखा तु द्वारकां च विहायसा ।

गत्वा सुप्तं च पर्यङ्केऽप्यनिरुद्धमनीनयत् ॥

11

अनिरुद्धेन तेनैव विहरन्ती दिने दिने ।

उषोवास सुखं मुग्धा सखीजनसमन्विता ॥

12

ज्ञात्वा राजभटः कश्चित्कन्यायाः कुलदूषणम् ।

न्यवेदयद्दैत्यराजमुपागत्य रहः क्वचित् ॥

13

बाणासुरस्तदा क्रुद्धः कन्यान्तःपुरमागतः ।

अनिरुद्धं विलोक्यापि जघान गदया च तम् ॥

14

अनिरुद्धोऽपि तं बाणं जघान गदया पुनः ।

महद्युद्धमभूत्तत्र बाणयादवयोस्तदा ॥

15

अनिरुद्धं बबन्धैवं बन्दीकृत्य महासुरः ।

न्यवेदयन्नारदस्तु द्वारकेशाय तत्कथाम् ॥

16

वासुदेवः शार्ङ्गपाणिः सह यादवसेनया ।

अनिरुद्धं मोचयितुमाययौ बाणपट्टणम् ॥

17

निद्रायामेव नीतं तं वीरं निरपराधिनम् ।

विमोचयेति तं बाणमवोचद्यदुपुङ्गवः ॥

18

किन्तु बाणासुरः क्रुद्धो युयुधे कालचोदितः ।

स्वयं भुजसहस्रेण विष्णुना चक्रपाणिना ॥

19

बाणासुरबलं सर्वं जघ्नुस्ते यदुपुङ्गवाः ।

दुद्राव सहसा बाणः शङ्करं शरणं गतः ॥

20

रुद्रोऽपि भक्तवात्सल्यात्सह कृष्णेन लीलया ।

युयुधे शूलमुद्धृत्य वृषमारुह्य चागतः ॥

21

गणेशं कार्तिकेयं च भैरवं चण्डनायकम् ।

नन्दिकेशं च गोविन्दो जघान लघुलीलया ॥

22

ते दुद्रुवुस्तूर्णं विष्णुना प्रभविष्णुना ।

चिच्छेद भुजसाहस्रं बाणस्य भुवनेश्वरः ॥

23

सान्त्वयामास सहसा विष्णुं चन्द्रकलाधरः ।

तत्याज सहसा बाणमवशिष्टचतुर्भुजम् ॥

24

तदैव भगवान् विष्णुः शङ्करं चन्द्रशेखरम् ।

उवाच मधुरं वाक्यं मन्दहासवराननः ॥

25

श्रीभगवानुवाच

आवयोर्भेदलेशोऽपि नास्ति चन्द्रकलाधर ।

त्वमेवाहमहं त्वं च तवैव हृदयेऽस्म्यहम् ॥

26

सृष्टिं च ब्रह्मरूपेण संहारं तव रूपतः ।

स्थितिं च मम रूपेण करोमि जगदीश्वरः ॥

27

मद्भक्तः शङ्करद्वेषी मद्वेषी शङ्करप्रियः ।

उभौ तौ नरकं यातो यावच्चन्द्रदिवाकरम् ॥

28

त्वद्भक्तो मम भक्तो हि मम भक्तश्च ते तथा ।

पालयामि च ते भक्तान् सादरं कृपया शिव ॥

29

तवैव वचनं सत्यं कर्तुं शङ्कर लीलया ।

छिन्नं हि भुजसाहस्रं बाणस्य न तु कोपतः ॥

30

प्रह्लादाय वरं दत्तं स्मरामि च पुरा शिव ।

त्वद्वंशसंभवान् दैत्यान्न हन्मीति कृपावशात् ॥

31

तस्मात् सुगर्वितस्यास्य दत्तं भुजचतुष्टयम् ।

छित्वा भुजसहस्रं च मयाऽस्मिन् संयुगे शिव ॥

32

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना रुद्रः परमप्रीतमानसः ।

बाणं च सान्त्वयामास विनीतं विहिताञ्जलिम् ॥

33

अथ बाणः प्रहृष्टात्मा ददौ कन्यामुषां तथा ।

अनिरुद्धाय वीराय पूजयामास केशवम् ॥

34

वासुदेवः प्रमुदितो ययौ द्वारवतीं पुनः ।

उषया चानिरुद्धेन सह सैन्येन सत्वरम् ॥

35

अथाह भगवान् रुद्रो बाणं दानवपुङ्गवम् ।

व्यर्थं प्रकटितक्रोधः प्रसन्नहृदयः स्वयम् ॥

36

रुद्र उवाच

विष्णोश्च वैष्णवानां च त्वया पापं कृतं महत् ।

तस्मान्मत्पार्षदत्वं त्वं नार्हसि त्वां त्यजाम्यहम् ॥

37

मद्भक्तो माधवद्वेषी मद्वेषी माधवप्रियः ।

उभौ तौ नरकं यातो यावच्चन्द्रदिवाकरम् ॥

38

बाण उवाच

भगवन्नपराधं मे क्षमस्वाज्ञानतः कृतम् ।

जानामि हरिमाहात्म्यं प्रह्लादबलिकीर्तितम् ॥

39

पापस्यास्य विनाशाय परिहारं वद प्रभो ।

पार्षदत्वं तथा देहि मह्यं मां पाहि शङ्कर ॥

40

रुद्र उवाच

शीतवातपुरं नाम क्षेत्रमस्ति शुभङ्करम् ।

पापनाशनतीर्थं च तत्रास्त्यसुरपुङ्गव ॥

41

तत्र गत्वा जगन्नाथं पूजय श्रद्धयैव हि ।

तदा मत्पार्षदत्वं त्वं पुनः प्राप्स्यसि दानव ॥

42

श्रीसद्गुरुरुवाच

इत्युक्तोऽसुरराजेन्द्रः शीतवातपुरं गतः ।

पितरं जगतां विष्णुं जगतां मातरं श्रियम् ॥

43

पूजयामास विधिवच्छ्रद्धया भक्तिपूर्वकम् ।

सुप्रीतश्चाभवद्विष्णुर्ददौ तस्मै च मङ्गलम् ॥

44

शिवस्य पार्षदत्वं च पुनर्लेभे महासुरः ।

प्रसादेनैव कृष्णस्य सुरासुरसुदुर्लभम् ॥

45

शीतवातपुरे विष्णुं ये सेवन्ते नरा भुवि ।

प्राप्नुवन्ति च ते स्थानं पुनर्नष्टं न संशयः ॥

46

पारिजातलतां लक्ष्मीं जगतः पितरं हरिम् ।

या पूजयति कन्या सा प्राप्नोति वरमुत्तमम् ॥

47

उषापरिणयं चैवं विष्णोश्च विजयं तथा ।

पठन् भवति सर्वत्र विजयी ननु पार्थिवः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे शीतवातपुरमाहात्म्यम् नाम अध्यायः ॥
Ch.08 Pañcama Bhāge Ch.10