Verses

पण्डरीपुरमाहात्म्यम् Paṇḍarī Pura Māhātmyam

1

भागवता ऊचुः

पण्डरीक्षेत्रमाहात्म्यं वद सद्गुरुपुङ्गव ।

यत्रास्ते भगवान् कृष्णः कटिन्यस्तकराम्बुजः ॥

2

भक्तानां मण्डले नित्यं नामकीर्तनतत्परे ।

कुर्वन्नानाविधां क्रीडामस्मिन् कलियुगेऽपि च ॥

3

श्रीसद्गुरुरुवाच

पण्डरीसदृशं क्षेत्रं न भूतं न भविष्यति ।

पाण्डुरङ्गसमो देवो न भूतो न भविष्यति ॥

4

चन्द्रभागासमं तीर्थं न भूतं न भविष्यति ।

पुण्डरीकसमो भक्तो न भूतो न भविष्यति ॥

5

पुण्डरीको नाम कश्चिद्ब्राह्मणो वैष्णवोत्तमः ।

तीर्थयात्रां चकारैव पितृभ्यां भार्यया सह ॥

6

वृद्धौ तौ पितरौ क्लान्तौ भार्या च बहुदुःखिता ।

यात्रां कर्तुं च तैः साकं न शशाक द्विजोत्तमः ॥

7

चन्द्रभागातटं गत्वा मुनीन्द्रं कुक्कुटाभिधम् ।

यदृच्छया ददर्शाथ प्रणनाम च सादरम् ॥

8

अत्रैव निवसन् विप्र पितृभक्तिं कुरु स्वयम् ।

पितुः श्रीपादतीर्थं स्यात् सर्वतीर्थफलाधिकम् ॥

9

इत्युवाच मुनीन्द्रोऽपि शिरसा जगृहे द्विजः ।

चकार पितृसेवां हि सन्ततं सह भार्यया ॥

10

पितृभक्तिप्रधानं तं द्रष्टुकामो जगत्पतिः ।

आजगाम द्वारकाया रुक्मिण्या सह माधवः ॥

11

इष्टकामासनं दत्वा पितृसेवां समाप्य च ।

पूजयामास विधिवद्भगवन्तमुपागतम् ॥

12

को भवानिति पप्रच्छ विप्रोऽपि विहिताञ्जलिः ।

द्वारकापुरनाथोऽहमित्यूचे पुरुषोत्तमः ॥

13

विज्ञाय भगवन्तं तं बाष्पपूरितलोचनः ।

तुष्टाव पुण्डरीकोऽपि प्रेमगद्गदया गिरा ॥

14

पुण्डरीक उवाच

नवाम्भोधराङ्गश्रियाऽऽनन्दयन्तं ।

सतां नेत्रयुग्मं शरण्यं सुराणाम्।

कटिन्यस्तहस्तं कृपासागरं त्वां ।

नमामीष्टकायां च तिष्ठन्तमीशम् ॥

15

ललाटोर्ध्वपुण्ड्रं लसत्कौस्तुभाढ्यं

चलत्कुण्डलं श्रीधरं मन्दहासम् ।

गलत्पीतवस्त्रं कृपापूर्णनेत्रं

भजे पाण्डुरङ्गं प्रपन्नान्तरङ्गम् ॥

16

सदा भक्तवृन्दे सहर्षं नटन्तं

मुदा वेणुवीणामृदङ्गैश्च गीतम् ।

मुकुन्दं मुनीनां मनो मोहयन्तं

मुरारिं भजे मुक्तिदातारमीशम् ॥

17

सदा रुक्मिणीसत्यभामासमेतं

निजे पार्श्वयुग्मे निधानं निधीनाम् ।

पुरो वैनतेयेन संपूज्यमानं

भजे वायुपुत्रेण संसेव्यमानम् ॥

18

गणेशोऽपि दुर्गा महेशोऽपि चात्र

भजन्ते यमेकं सुराश्चापि सर्वे ।

सदानन्दमूर्तिं शरण्यं जनानां

परब्रह्मरूपं भजे पाण्डुरङ्गम् ॥

19

श्रीसद्गुरुरुवाच

पुण्डरीककृतं स्तोत्रं निशम्य पुरुषोत्तमः ।

पुण्डरीकविशालाक्षो बभाषे भक्तवत्सलः ॥

20

वरं वृणीष्व भद्रं ते प्रसन्नोऽस्मि द्विजोत्तम ।

प्रीतोऽस्मि तव धर्मेण धर्मो हि सुखसाधनम् ॥

21

पुण्डरीक उवाच

यदि प्रीतोऽसि धर्मेण धर्मात्मन् धर्मरक्षक ।

आचन्द्रार्कमिहैव त्वं तिष्ठन् देहि स्वदर्शनम् ॥

22

आगत्यागत्य भक्तास्त्वामानन्दरसविग्रहम् ।

त्वां विलोक्य परं सौख्यं प्राप्नुवन्तु श्रियः पते ॥

23

श्रीसद्गुरुरुवाच

इति संप्रार्थितो विष्णुर्वैकुण्ठपतिरीश्वरः ।

तथा तत्रैव सान्निध्यं कुरुते भक्तवत्सलः ॥

24

देवं पण्डरिनाथं तं ये पश्यन्ति नराः कलौ ।

यदृच्छया वा भक्त्या वा ते धन्या न हि संशयः ॥

25

आयुरारोग्यमैश्वर्यं सन्तानं कुलवर्धनम् ।

पाण्डुरङ्गप्रसादेन लभन्ते मानवा ध्रुवम् ॥

26

योगक्षेमं वहन् कृष्णो भक्तानां परमा गतिः ।

इष्टकायां तिष्ठतीह विट्ठलो रमया सह ॥

27

को नाश्रयेत्पाण्डुरङ्गं प्रपन्नजनकल्पकम् ।

नानादुःखाकुले लोके भाग्यवान् भक्तवत्सलम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे पण्डरीपुरमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥
Ch.36 Pañcama Bhāge Ch.38