Verses

यादवाचलमाहात्म्यम् Yādavācala Māhātmyam

1

श्रीसद्गुरुरुवाच

पुण्ये कर्णाटके देशे यादवाद्रिरिति श्रुतः ।

कल्याणभूधरसमो वर्तते पुण्यभूधरः ॥

2

रत्नधातुविचित्रासु गुहासु विहरन्ति च ।

सन्ततं सुरसुन्दर्यः सिद्धविद्याधरस्त्रियः ॥

3

तत्र ध्यायन्ति गोविन्दं मुनयश्च जितेन्द्रियाः ।

अष्टाक्षरीं जपन्तश्च सततं तपसि स्थिताः ॥

4

सिंहादयो वनमृगाः सुशान्ता विहरन्ति च ।

सन्निधाने महर्षीणां तस्मिन् यादवभूधरे ॥

5

नानावृक्षसमाकीर्णो नानापक्षिभिराश्रितः ।

नानामृगगणैर्युक्तो यादवाद्रिर्विराजते ॥

6

नानाविधफलाकीर्णो नानापुष्पसुगन्धितः ।

शाद्वलश्यामलो रम्यो यादवाद्रिर्विराजते ॥

7

तस्य सानौ पुण्यतीर्थं महापातकनाशनम् ।

कल्याणं नाम विख्यातमस्ति कल्याणदायकम् ॥

8

शुद्धस्फटिकसङ्काशं पवित्रममृतोपमम् ।

मधुरं सलिलं तस्मिन् कल्याणसरसि प्रियम् ॥

9

हंससारससंसेव्यं भाति पद्मवनान्तरम् ।

सुन्दरं मणिसोपानैः सरः कल्याणनामकम् ॥

10

स्नातुमिच्छन्ति देवाश्च कल्याणसरसि ध्रुवम् ।

किं पुनर्मानुषा लोके नित्यकल्याणदायके ॥

11

कीर्तनाद्दर्शनाच्चापि प्रोक्षणादपि मज्जनात् ।

कल्याणतीर्थमेतद्धि नृणां कल्याणदायकम् ॥

12

कल्याणतीर्थतीरे तु कलिकल्मषवर्जिते ।

कृष्णालयो महानस्ति दर्शनानन्ददायकः ॥

13

देवदेवो वासुदेवः शङ्खचक्रगदाधरः ।

सान्निध्यं कुरुते तत्र भक्ताभीष्टफलप्रदः ॥

14

मोदन्ते वैष्णवास्तत्र हरिदास्यपरायणाः ।

ज्ञानवैराग्यसंपन्नाः प्रेमपूर्वं परस्परम् ॥

15

भागवता ऊचुः

वासुदेवो यदुगिरौ कदा केन प्रतिष्ठितः ।

अस्माकं श्रोतुकामानां वद त्वं गुरुपुङ्गव ॥

16

श्रीसद्गुरुरुवाच

कदाचिद्बलदेवोऽपि यदुश्रेष्ठो महाबलः ।

तीर्थयात्रां प्रकुर्वाणो नैमिशारण्यमाययौ ॥

17

रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ।

व्यासपीठे तदग्रे च ब्रह्मर्षीन् भुवि संस्थितान् ॥

18

विलोमजोऽप्ययं हन्त विनयेन विवर्जितः ।

ब्रह्मर्षीणामिहाग्रेऽपि किमर्थमतिवर्तते ॥

19

एतादृशानां लोकेऽस्मिन्मर्यादाभङ्गमिच्छताम् ।

वधायैवावतीर्णोऽस्मि मूढानां प्राज्ञमानिनाम् ॥

20

विद्या ददाति विनयं नेदृशानां दुरात्मनाम् ।

विनीतत्वं सदा लोके ननु वैष्णवलक्षणम् ॥

21

श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते ।

आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥

22

यदि तस्य वधो धर्मो यद्येतल्लोकशिक्षणम् ।

दर्भेण तस्य शिरश्छिन्धि दृप्तस्य ब्रह्ममानिनः ॥

23

इत्युक्त्वा लीलया रामो कुशाग्रेणैव तच्छिरः ।

चिच्छेद करुणासिन्धुर्निवृत्तोऽसद्वधादपि ॥

24

चुक्रुशुर्मुनयः सर्वे हा हा हा हेति दुःखिताः ।

ननाम तान्मुनीन् रामोऽप्यपराधं क्षमापयन् ॥

25

राम उवाच

अजानता कृतमिदं पापं ब्रह्मवधोपमम् ।

प्रायश्चित्तमघस्यास्य वदत स्वयमीश्वराः ॥

26

मुनय ऊचुः

सङ्कर्षणोऽसि राम त्वं सर्वसंहारकारकः ।

अवतीर्णस्य लोकेऽस्मिन् कुतः पापं तव प्रभो ॥

27

हरे रामेति कृष्णेति कीर्तयन्ति च ये नराः ।

तेषां नश्यन्ति पापानि सर्वाणि न हि संशयः ॥

28

तथापि लोकशिक्षार्थं प्रायश्चित्तं तवेच्छतः ।

वदामः परिहारं च पापस्य तव यादव ॥

29

पवित्रे भारते देशे तीर्थयात्रां कुरु प्रभो ।

नृणां हरन्ति पापानि तीर्थाणि न हि संशयः ॥

30

श्रीसद्गुरुरुवाच

इत्युक्तो भगवान् रामः परिवारसमन्वितः ।

तीर्थयात्रां चकारैव तीर्थीकुर्वन् जगत्त्रयम् ॥

31

इतस्ततः सञ्चरंश्च तीर्थेषु यदुपुङ्गवः ।

कल्याणतीर्थसंयुक्तं यादवाद्रिमुपाययौ ॥

32

कल्याणतीर्थे स्नात्वाऽथ ब्रह्महत्यानिवारके ।

अवाप परमानन्दं बलदेवो हलायुधः ॥

33

शिखरे यादवाद्रेश्च नरसिंहं ददर्श च ।

मेने कृतार्थमात्मानं महनीयपराक्रमः ॥

34

कल्याणतीर्थतीरे तु कल्याणपुरमुत्तमम् ।

निर्ममे ब्राह्मणांस्तत्र स्थापयामास वैष्णवान् ॥

35

आलयं वासुदेवस्य तन्मध्ये निर्ममे तथा ।

प्रतिष्ठाप्य तथा विष्णुं पूजयामास सादरम् ॥

36

रामो रामप्रियं कृष्णं प्रतिष्ठाप्य यथाविधि ।

नित्योत्सवं तथा चक्रे भक्तैर्भागवतैः सह ॥

37

पुरा क्षीराब्धिसंभूतं किरीटं दिव्यमद्भुतम् ।

रामः समर्पयामास धृतं कृष्णेन विष्णुना ॥

38

एवं पट्टाभिषेकं च विधाय यदुनन्दनः ।

रामप्रियस्य सानन्दं द्वारकां पुनराययौ ॥

39

यदुवंशसमुद्भूतैः क्षत्रियैः परिपालितम् ।

कल्याणनगरं चापि नृणां कल्याणदायकम् ॥

40

पुत्रवात्सल्यसंयुक्तो रामो रामप्रिये सदा ।

मुहुर्मुहुर्दर्शनार्थमाययौ यादवाचलम् ॥

41

यादवाचलमाहात्म्यं कीर्तितं वैष्णवोत्तमाः ।

अनन्तमपि सङ्गृह्य किं भूयः श्रोतुमिच्छथ ॥

42

रामप्रियं यादवाद्रौ ये पश्यन्ति नराः कलौ ।

ते मानवा भाग्यवन्तो धन्या हि भुवनत्रये ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे यादवाचलमाहात्म्यम् नाम अध्यायः ॥
Ch.33 Pañcama Bhāge Ch.35