Verses

कटिस्थानमाहात्म्यम् Kaṭisthāna Māhātmyam

1

श्रीसद्गुरुरुवाच

कटिस्थानमिति ख्यातं क्षेत्रं केरलमण्डले ।

अस्त्याश्रितजनानां तु कल्पवृक्षसमं भुवि ॥

2

तत्र नारायणः श्रीमान् मर्त्यानाममृतप्रदः ।

आस्ते हरिरचिन्त्यात्मा भवतापापहारकः ॥

3

को न सेवेत गोविन्दं कटिस्थानपुरस्थितम् ।

यस्य दर्शनमात्रेण सर्वं दुःखं विनश्यति ॥

4

रुक्माङ्गदो महाराजः पूर्वमासीन्महाबलः ।

सत्यधर्मरतो नित्यं प्रजापालनतत्परः ॥

5

सन्ध्यावली तस्य पत्नी पुत्रो धर्माङ्गदः स्मृतः ।

ताभ्यां समन्वितो राजा चकारैकादशीव्रतम् ॥

6

धर्माङ्गदो विष्णुभक्तः पितृभक्तो दृढव्रतः ।

शिरश्छेदेऽपि संप्राप्ते न तत्याज निजं व्रतम् ॥

7

भागवता ऊचुः

शिरश्छेदः कथं प्राप्तः कथमासीद् दृढव्रतः ।

दुःखं तु विष्णुभक्तानां न जायेत कदाचन ॥

8

श्रीसद्गुरुरुवाच

रुक्माङ्गदस्य राज्ञस्तु परीक्षार्थं हि वेधसा ।

विसृष्टा मोहिनी नाम कन्यका मनसा कृता ॥

9

वसन्तकाले संप्राप्ते राजा रुक्माङ्गदः प्रभुः ।

चक्रे वनविहारं स ददर्श खलु मोहिनीम् ॥

10

तस्यामासक्तहृदयस्तां वव्रे पृथिवीपतिः ।

स्वस्येप्सितं तथा कुर्यादिति सा पणपूर्वकम् ।

अङ्गीचकार राजानं मोहयित्वा तु मोहिनी ॥

11

तामानीय निजं वेश्म तया मोहितमानसः ।

चिक्रीड च तया साकं सततं कामलालसः ॥

12

एकादशीव्रते प्राप्ते तां विसृज्य महीपतिः ।

दृढचित्तो निर्जगाम गन्तुं केशवमन्दिरम् ॥

13

जग्राह वस्त्रं सा नारी निर्लज्जा काममोहिता ।

रन्तुमेव हठं चक्रे त्यक्तुमेकादशीव्रतम् ॥

14

तदा राजाऽपि तां प्राह न त्यजेयं व्रतं शुभम् ।

विष्णुप्रीतिकरं पुण्यं वैकुण्ठफलदायकम् ॥

15

मोहिन्युवाच

मम प्रीतिं करिष्यामीत्युक्त्वा मां परिणीय च ।

मां त्यक्त्वा सुखदां राजन् विष्णुभक्तिं करिष्यसि ॥

16

मा सत्योल्लङ्घनं कुर्याः सत्यं हि परमं व्रतम् ।

न हि सत्यात्परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ॥

17

श्रीसद्गुरुरुवाच

एवं हि सत्यपाशेन बद्धो राजा विमोहितः ।

विललाप भृशं दीनो निपत्य चरणेऽपि च ॥

18

एकादशीं न त्यजामि सत्यनिष्ठां तथा सति ।

एवं त्वमाग्रहं त्यक्त्वा वरमन्यं वृणीष्व च ।

तत्करिष्याम्यहं नूनं कथं प्रीतिर्भवेत्तव ॥

19

एवमुक्ता मोहिनी सा निर्लज्जा निर्भया नृपम् ।

धर्माङ्गदस्यैव शिरो ययाचे पुत्रवत्सलम् ॥

20

धर्माङ्गदस्तदा हृष्टः पितृभक्तो दृढव्रतः ।

स्वयमेवागतस्तत्र पित्रे खड्गं प्रदाय च ॥

21

सत्यार्थं च व्रतार्थं च शिरो दातुं सुनिश्चयः ।

निषसादासने वीरो विष्णुध्यानपरायणः ॥

22

पुत्रस्य दृढविश्वासं दृष्ट्वा हृष्टो महीपतिः ।

चिच्छेद वरखड्गेन पुत्रस्यापि शिरो बत ॥

23

किन्तु खड्गस्तस्य कण्ठे पुष्पमालाऽभवत् क्षणात् ।

आविर्बभूव भगवान् शङ्खचक्रगदाधरः ॥

24

अन्तर्दधे मोहिनी सा परीक्षार्थमुपागता ।

ब्रह्ममाया विष्णुभक्तं विलोक्यैवावमानिता ॥

25

कालान्तरे महाराजः पुत्रं धर्माङ्गदं भुवः ।

रक्षणार्थं चाभिषिच्य प्रविवेश तपोवनम् ॥

26

सन्ध्यावल्या स्वपत्न्या च सञ्चरंस्तत्र तत्र हि ।

कटिस्थानपुरं गत्वा न्यवसद्विष्णुमाश्रयन् ॥

27

अन्तकाले विष्णुलोकमवाप स महीपतिः ।

सन्ध्यावली तेन साकं चितारूढा परं गता ॥

28

तदिदं परमं स्थानं कटिस्थानमघापहम् ।

यत्रामृतप्रदो विष्णुरद्यापि खलु दृश्यते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे कटिस्थानमाहात्म्यम् नाम द्वात्रिंशोऽध्यायः ॥
Ch.31 Pañcama Bhāge Ch.33