Verses

श्रीभृङ्गपुरमाहात्म्यम् Śrī Bhṛṅga Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

अस्ति भृङ्गपुरं नाम क्षेत्रं परमपावनम् ।

पम्पानदीतटे रम्ये सर्वपापविनाशनम् ॥

2

तत्र नारायणः श्रीमान्नारदेन समर्चितः ।

विराजते विश्वरूपो भक्ताभीष्टफलप्रदः ॥

3

कदाचिन्नारदस्यापि गर्वोऽभवदहो मुनेः ।

जितवानहमित्येवं विष्णोर्मायां दुरत्ययाम् ॥

4

लीलां चक्रे स्वयं विष्णुस्तद्गर्वं शमयन् प्रभुः ।

नारदो नारदीभूतः सञ्चचार वने गतः ॥

5

भगवान् विष्णुरप्येवं नारदो वैष्णवस्तथा ।

उभौ सञ्चेरतू रम्ये वने पम्पातटस्थिते ॥

6

भगवान् मधुरं प्राह नारदं वैष्णवोत्तमम् ।

करे स्पृशन् प्रेमपूर्वं कल्याणगुणसागरः ॥

7

श्रीभगवानुवाच

कस्तरेत् त्रिषु लोकेषु मम मायां दुरत्ययाम् ।

यया ब्रह्मा च रुद्रश्च सर्वे देवाश्च मोहिताः ॥

8

नारद उवाच

किं करिष्यति मां विष्णो तव माया दुरत्यया ।

जितेन्द्रियं विरक्तञ्च नित्यानित्यविवेकिनम् ॥

9

श्रीसद्गुरुरुवाच

इत्युक्तो भगवान् विष्णुर्मोहयन्नेव मायया ।

मन्दं जहास मधुरं प्राह तं नारदं मुनिम् ॥

10

श्रीभगवानुवाच

सत्यं वदसि देवर्षे मम मायां दुरत्ययाम् ।

तरन्ति मम भक्तास्तु मामेव शरणं गताः ॥

11

इदं तीर्थतमं पुण्यं रम्यं पापविनाशनम् ।

अत्र स्नानं कुरु त्वं च लोकानां पावनाय हि ॥

12

न ह्यम्मयानि तीर्थाणि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥

13

साधूनां सङ्गमं नित्यं त्वादृशानां जितात्मनाम् ।

काङ्क्षन्ते सर्वतीर्थाणि स्वपापविनिवृत्तये ॥

14

श्रीसद्गुरुरुवाच

इत्युक्तो नारदः सद्यो विष्णुना प्रभविष्णुना ।

विवेश पुण्यं सलिलमात्मानं बहुमानयन् ॥

15

जलप्रवेशमात्रेण मायया जगतीपतेः ।

कन्याऽभवन्नारदस्तु कमलायतलोचना ॥

16

स्नानं कृत्वा लीलयाऽथ वस्त्राभरणभूषिता ।

चचार नारदी तत्र सुन्दरी सुस्मितेक्षणा ॥

17

अजानन्ती ह्यात्मबन्धुं जन्म वा कर्म वा तथा ।

तत्रैवमबला बाला चचार ह भयाकुला ॥

18

तदा तत्रागतो राजा कश्चित्केरलपालकः ।

ददर्श कन्यकां साध्वीं जहर्ष मदनाकुलः ॥

19

गान्धर्वेण विधानेन तामुदूह्य नराधिपः ।

जगाम भवनं हृष्टस्तया रेमे दिने दिने ॥

20

पुत्रं च जनयामास कन्यकामपि सुन्दरीम् ।

तस्यां केरलराजस्तु गार्हस्थ्यं धर्ममाचरन् ॥

21

कन्यां च पाण्ड्यराजस्य तनयाय ददौ तथा ।

विवाहं कारयामास पुत्रस्य च महामतिः ॥

22

एवं भूतौ दम्पती तौ कुटुम्बासक्तमानसौ ।

ऊषतुः स्वगृहे हृष्टौ विस्मृत्येवात्मनो गतिम् ॥

23

कर्णाटकनराधीशो युद्धाय समुपस्थितः ।

रणे जघान पुत्रं च केरलाधिपतिं तथा ॥

24

स्वकुटुम्बे विनष्टे च स्वराज्येऽपि हृते परैः ।

दुद्राव भीता राज्ञी च वनं पम्पातटस्थितम् ॥

25

इतस्ततः सञ्चरन्ती प्रललाप पुनः पुनः ।

वृक्षे वृक्षे स्ववृत्तान्तं नितरां दुःखिता सती ॥

26

तदा कश्चिद्वयोवृद्धस्तत्रागत्य तपोधनः ।

सान्त्वयामास तां राज्ञीं कृपया ज्ञानिनां वरः ॥

27

मुनिरुवाच

किं शोचसि वृथा बाले पश्य दुःखाकुलं जगत् ।

विद्यते सर्वतो दुःखमेतत्संसारलक्षणम् ॥

28

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।

दृश्यते सर्वजीवानां संसारेऽस्मिन् पुनः पुनः ॥

29

सुखं प्राप्यापि को हृष्येद्दुःखं पश्चात् स्थितं स्मरन् ।

अल्पं सुखमतः पश्येद्विवेकी कर्मजं नृणाम् ॥

30

संसारकारणं नूनं विष्णोर्माया न संशयः ।

यस्मिन्नानाविधं दुःखं भूयो भूयोऽनुभूयते ॥

31

तमेव शरणं गच्छेद्विष्णुं मायाविनां वरम् ।

यत्कृपालेशमात्रेण मायां तरति दुस्तराम् ॥

32

दुःखानि संभवन्त्येव नराणां पूर्वकर्मणा ।

सर्वपापविनाशार्थं कर्तव्यं सुकृतं ततः ॥

33

इदं हि पावनं तीर्थं सर्वपापविनाशनम् ।

अस्मिन् स्नानं कुरु स्मृत्वा हरिं दुःखं विनश्यतु ॥

34

श्रीसद्गुरुरुवाच

एवं हि सान्त्विता राज्ञी विवेश सलिलं शुभम् ।

स्नानमात्रेण तस्मिन् सा नारदोऽभूत् पुनस्तथा ॥

35

तिष्ठन्तं वीणया तीरे महत्यैव स्वदत्तया ।

विष्णुं विलोक्य देवर्षिर्नितरां लज्जितोऽभवत् ॥

36

श्रीभगवानुवाच

आगच्छ शीघ्रं देवर्षे तिष्ठाम्यत्र प्रतीक्षया ।

वीणां गृहाण त्वद्दत्तां साधु सङ्कीर्तनं कुरु ॥

37

त्वयैव निर्जिता लोके मम माया दुरत्यया ।

त्वद्दर्शनादेव नूनं कृतार्थोऽहं न संशयः ॥

38

नारद उवाच

भगवन् लीलयाऽलं ते कृपापात्रमहं किल ।

त्वन्मायया विमुग्धोऽहं कुटुम्बं कृतवानहम् ॥

39

संप्राप्य परमं दुःखं संसारे चरतो मम ।

सर्वञ्च स्वप्नवन्नष्टं कृपया तव केशव ॥

40

एवं मा कुरु गोविन्द मायालीलामितः परम् ।

तवैव कीर्तनं कुर्वन् सञ्चरामि जगत्त्रये ॥

41

श्रीभगवानुवाच

यत्प्रविष्टं त्वया तीर्थं पुण्यं भागवतोत्तम ।

तदेव पापनाशं स्यान्मायामोहनिवारकम् ॥

42

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुर्नारदेन महात्मना ।

गीयमानो हसन् मन्दं जगाम स्वनिकेतनम् ॥

43

इदं भृङ्गपुरं क्षेत्रं तीर्थं पापविनाशनम् ।

एष नारायणः श्रीमान्नारदेनैव पूजितः ॥

44

तस्य दर्शनमात्रेण सर्वं दुःखं विनश्यति ।

तीर्त्वाथ विष्णुमायां च याति विष्णोः परं पदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीभृङ्गपुरमाहात्म्यम् नाम त्रिंशोऽध्यायः ॥
Ch.29 Pañcama Bhāge Ch.31