Verses

श्रीवल्लभक्षेत्रमाहात्म्यम् Śrī Vallabha Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

श्रीवल्लभपुरं नाम क्षेत्रं परमपावनम् ।

वर्तते केरले देशे दर्शनात्पापनाशनम् ॥

2

घण्टाकर्णो नाम पुरा पिशाचो रुद्रकिङ्करः ।

आसीत् कैलासशिखरे शिवलोके शिवालये ॥

3

विष्णुद्वेषकरः सोऽयं शिवेऽपि दृढभक्तिमान् ।

नारायणेति नामापि श्रोतुमिच्छति न क्वचित् ॥

4

तस्माद्घण्टां कर्णयोः स निबद्ध्य शिवकिङ्करः ।

इतस्ततः सञ्चरति विष्णुद्वेषपरायणः ॥

5

कृष्णार्जुनौ ददर्शायं कदाचित् पथि सङ्गतौ ।

कौ युवामिति पैशाचः पप्रच्छ च भयङ्करः ॥

6

तं दृष्ट्वा पथि पैशाचं शिवभक्तं धनञ्जयः ।

उवाच मधुरं वाक्यं शिवदर्शनकातरः ॥

7

अर्जुन उवाच

अर्जुनो नाम विख्यातः पाण्डवोऽहं धनुर्धरः ।

चक्रपाणिरयं कृष्णो द्वारकेशः सुहृन्मम ॥

8

आवां तु शङ्करं द्रष्टुमागतौ रजताचलम् ।

शिवदूतोऽसि पैशाच मार्गं दर्शय सत्वरम् ॥

9

घण्टाकर्ण उवाच

किं कारणं किं फलं त्वमुद्दिश्य शिवदर्शनम् ।

कर्तुमिच्छसि भूपाल वद क्षिप्रं महाबल ॥

10

अर्जुन उवाच

कृष्णस्य पादपूजां तु कृत्वा पाशुपतं मया ।

अस्त्रं लब्धं पुरा रात्रौ तत्र मे संशयो हृदि ॥

11

देवदेवो महादेवः कृष्णो देवकिनन्दनः ।

अस्यैव पूजया शम्भुः कथं संपूजितोऽभवत् ॥

12

एतं मे संशयं कृष्णमाश्चर्यात्पृष्टवानहम् ।

उवाच कृष्णः पृच्छेति शिवमेव सनातनम् ॥

13

तस्मादहं शिवं द्रष्टुं प्रष्टुं च हरिणा सह ।

कैलासयात्रां सानन्दं करोमि च कुतूहलात् ॥

14

घण्टाकर्ण उवाच

शिव एव परं तत्त्वं नृणां मोक्षप्रदायकः ।

विश्वरूपो जगद्व्यापी चाष्टमूर्तिर्विराजते ॥

15

अङ्गानि सर्वे देवाश्च सिद्धाश्च मुनयस्तथा ।

तेषां संपूजनेनैव शिवपूजा भवेन्ननु ॥

16

अर्जुन उवाच

इमं तु देवकीपुत्रं द्वारकेशं च मत्सखम् ।

वदन्ति मुनयः सर्वे परं तत्त्वं सनातनम् ॥

17

नारदो देवलो व्यासो वसिष्ठश्च पराशरः ।

चत्वारः सनकाद्याश्च मार्कण्डेयो मनुर्भृगुः ॥

18

एते सर्वे महात्मानो नारायणमनामयम् ।

वदन्ति परमं तत्त्वं कृष्णमेव न संशयः ॥

19

अस्यैव विश्वरूपत्वं मया दृष्टं रणाङ्गणे ।

कथं वदसि पैशाच रुद्रमेव सुरोत्तमम् ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तः परमं कोपं लब्ध्वा पैशाचपुङ्गवः ।

घण्टां निनादयन् कर्णे दुद्राव रजताचलम् ॥

21

तत्र देवं महादेवं रुद्रं चन्द्रकलाधरम् ।

व्याघ्रचर्माम्बरधरं नीलकण्ठं वृषध्वजम् ॥

22

जटाधरं शान्तमूर्तिं भस्मोद्धूलितविग्रहम् ।

चिन्मुद्रया बोधयन्तं परतत्त्वं मुनीन् पुरः ॥

23

वटवृक्षस्य मूले तु निषण्णं व्याघ्रचर्मणि ।

वीरासनं विरूपाक्षं घण्टाकर्णो ददर्श तम् ॥

24

शिव उवाच

शृणुध्वं मुनयः सर्वे सावधानं मुमुक्षवः ।

आलोड्य सर्वशास्त्राणि सत्यमेव वदाम्यहम् ॥

25

किमन्यैर्देवतैर्नृणामनित्यफलदायकैः ।

हरिरेकः सदा ध्येयो भवद्भिर्मोक्षकाङ्क्षिभिः ॥

26

श्रीसद्गुरुरुवाच

एवं वदति गौरीशे घण्टाकर्णस्तु विस्मितः ।

महादेवस्य पुरतस्तस्थौ भक्त्या कृताञ्जलिः ॥

27

तदा तत्रागतौ वीरौ नेमतुश्चन्द्रशेखरम् ।

कृष्णार्जुनौ भक्तिपूर्वं मूर्ध्नि कृत्वाऽञ्जलिं ततः ॥

28

कृष्णार्जुनौ तौ पूजयामास शिवो निजगणैः सह ।

ज्ञात्वाऽवतीर्णौ लोकेऽस्मिन्नरनारायणावृषी ॥

29

पप्रच्छ शङ्करं पार्थः प्रणयेन स्वसंशयम् ।

कृष्णस्य पूजयेत्येव शिवप्रीतिः कथं भवेत् ॥

30

तदा प्रोवाच भगवान् शिवो वृषभवाहनः ।

मुनीनामपि सर्वेषां सन्निधौ तं धनञ्जयम् ॥

31

शिव उवाच

विश्वरूपो वासुदेवः कृष्णः सर्वजगत्पतिः ।

अहं ब्रह्मा च शक्रश्च सर्वे देवाः स एव हि ॥

32

तस्मात्तु न परं किञ्चित् दृश्यते परमात्मनः ।

तस्मात्तस्यार्चनेनैव सर्वे देवाः समर्चिताः ॥

33

द्वेषेण ये हरिं त्यक्त्वा मामर्चन्ति नराधमाः ।

आशुतोषोऽप्यहं पार्थ न तुष्यामि कदाचन ॥

34

श्रीसद्गुरुरुवाच

शिवस्य वचनं श्रुत्वा विजयश्छिन्नसंशयः ।

जगाम हरिणा सार्धं हस्तिनाख्यं पुरं पुनः ॥

35

घण्टाकर्णोऽपि गोविन्दे दृढां भक्तिमवाप्य च ।

श्रीवल्लभक्षेत्रमगाच्छिवेनैव प्रचोदितः ॥

36

अत्र विष्णुं प्रतिष्ठाप्य भक्त्या श्रीवल्लभं प्रभुम् ।

आराधयामास भक्त्या मुक्तिं प्राप पिशाचराट् ॥

37

श्रीवल्लभं कृपासिन्धुं पिशाचस्यापि मोक्षदम् ।

को न पश्येन्मुक्तिकामो घोरसंसारसागरात् ॥

38

श्रीवल्लभप्रसादेन भक्तो मोक्षमवाप्नुयात् ।

आयुरारोग्यमैश्वर्यं लब्ध्वा च सुखजीवनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीवल्लभक्षेत्रमाहात्म्यं नाम नवविंशोऽध्यायः ॥
Ch.28 Pañcama Bhāge Ch.30