Verses

श्रीसूक्तिस्थलमाहात्म्यम् Śrī Sūkti Sthala Māhātmyam

1

श्रीसद्गुरुरुवाच

श्रीसूक्तिस्थलमित्येतत्प्रसिद्धं भुवनत्रये ।

बृहत्तटाकतीरेऽत्र दृश्यते भगवान् हरिः ॥

2

असुरैः पीडिता देवा मुनयश्च महाबलैः ।

उपासाञ्चक्रिरे विष्णुमत्रैव रहसि स्थिताः ॥

3

तेषां तु तपसा प्रीतो विष्णुर्गरुडवाहनः ।

शङ्खचक्रगदापाणिराविर्भूतश्चतुर्भुजः ॥

4

देवा ऊचुः

जितं जितं ते जगदेकबन्धो ।

तवैव हि स्याद्विजयेन भद्रम्।

त्वदङ्गभूता निखिलाः सुराश्च ।

जयन्ति सर्वत्र जयात्तवैव ॥

5

विजित्य देवान् असुराः जगत्याम्

अधर्ममेवाद्य हि वर्धयन्ति ।

चक्रायुधेनैव विजित्य दैत्यान्

धर्मं पुनर्वर्धय लोकनाथ ॥

6

यदा यदा पापमतिर्जगत्यां

प्रदृश्यते सर्वजनेषु वृद्धा ।

तदा तदैवासुरसंपदं च

विद्यात् स्वयं ह्यत्र भुवि प्रवृद्धाम् ॥

7

दैवासुरं युद्धमिदं पुनः पुनः

प्रदृश्यते लोकजनैकमोहनम् ।

धर्मेऽप्यधर्मे च रुचिर्हि दृश्यते

यथा तथा कालगुणानुसारतः ॥

8

तथापि सर्वत्र बलं प्रवर्धतां

विष्णोस्तवैवाच्युत चक्रधारिणः ।

ज्वालां सुनाभस्य सहेत को भुवि

तमो विनष्टं सहसा भवेन्ननु ॥

9

तवैव सेना किल याति विष्वङ्निर्विघ्नमन्यैरजिता मुरारे।

करं च तुभ्यं हि समर्पयन्ति ।

लोकेश्वरा ब्रह्मशिवादयश्च ॥

10

तवैव भृत्या विजयध्वजं ते

संगृह्य नृत्यन्ति यशः पवित्रम् ।

सर्वत्र गायन्ति च वीतरागाः

प्रमोदमत्ता भयशोकमुक्ताः ॥

11

सङ्कल्पमात्रेण तवैव लोके

परस्परं घ्नन्ति तथा म्रियन्ते ।

संहारलीलां कलयन् किलैवं

कालस्वरूपोऽसि च सर्वसाक्षी ॥

12

अनन्तमेवं जननं जनानां

मृतिं च सर्वत्र क्षणे क्षणे च ।

आकाशवत्तानि च पश्यतस्ते

क्लैब्यं कथं स्यादिह विश्वरूप ॥

13

प्रच्छन्नरूपान् भुवि दैत्यवीरान्

प्रच्छन्नरूपो जहि चक्रपाणे ।

यथा तथा नित्यलये मुकुन्द

केनापि कस्यापि वधं करोषि ॥

14

श्रीसद्गुरुरुवाच

उवाच मधुरं वाक्यं सान्त्वयन्नमरान्मुनीन् ।

कराब्जेनाभयं दत्वा करुणापूर्णवीक्षणः ॥

15

श्रीभगवानुवाच

तपसा सुप्रसन्नोऽस्मि सर्वेषां भद्रमस्तु वः ।

उपायमिह वक्ष्यामि दैत्यानां नाशनाय च ॥

16

पुरञ्जयो नाम राजा सूर्यवंशसमुद्भवः ।

वर्तते वीर्यवान् धीरः सत्यधर्मपरायणः ॥

17

तमाविश्याखिलान् दैत्यान्नाशयिष्याम्यहं रणे ।

देवानामथ सर्वेषां भद्रमेव भविष्यति ॥

18

किन्तु मे वाहनं भूयाद्वृत्रहा वृषरूपधृक् ।

तिष्ठन् तस्यैव ककुदि कुर्यां युद्धं सुदुष्करम् ॥

19

यूयं गत्वा महाराजं प्रच्छन्ना ब्रह्मवेषतः ।

याचध्वं दैत्यनाशाय मत्स्वरूपं पुरञ्जयम् ॥

20

श्रीसद्गुरुरुवाच

इत्युक्ता निर्जराः सर्वे ब्रह्मवेषधरास्तदा ।

ययाचिरे महाराजमसुराणां वधाय हि ॥

21

राजा विष्णुमयो भूत्वा वृषस्य ककुदि स्थितः ।

सत्वरं नाशयामास दनुजानखिलान् रणे ॥

22

पुनर्ददौ महेन्द्राय पुरं जित्वा पुरञ्जयः ।

सर्वे प्रमुदिता देवाः सद्यो जग्मुः सुरालयम् ॥

23

ककुत्स्थ इति विख्यातो बभूव स पुरञ्जयः ।

धर्मात्मा सत्यसन्धश्च विष्णुभक्तिमतां वरः ॥

24

श्रीसूक्तिस्थलमित्येतन्नगरं निर्ममे नृपः ।

अत्रैव निवसन् राजा पूजयामास केशवम् ॥

25

ब्राह्मणानां सहस्राणि वैष्णवानां महात्मनाम् ।

स्थापयामास नगरे नित्यमध्ययनाय हि ॥

26

यज्ञानां जपयज्ञस्य ज्ञात्वा प्राधान्यमेव सः ।

सन्ततं कारयामास जपयज्ञं महीपतिः ॥

27

वेदान् सब्राह्मणान् तत्र वेदान्तांश्च स्मृतीस्तथा ।

इतिहासपुराणानि पाठयामास च द्विजान् ॥

28

केशवस्य कथामेवं वाचयामास वैष्णवान् ।

तेषां श्रीसूक्तिनादेन सर्वं मुखरितं पुरम् ॥

29

यत्र स्वाध्याययज्ञस्तु वर्तते ब्राह्मणैः कृतः ।

तत्रैव विष्णुसान्निध्यं भवेल्लोकसुमङ्गलम् ॥

30

श्रीसूक्तिस्थलमागत्य ये पश्यन्ति जनार्दनम् ।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीसूक्तिस्थलमाहात्म्यम् नाम पञ्चविंशोऽध्यायः ॥
Ch.24 Pañcama Bhāge Ch.26