Verses

नीरदसेतुमाहात्म्यम् Nīrada Setu Māhātmyam

1

श्रीसद्गुरुरुवाच

कर्दमो ब्रह्मणः पुत्रः सहस्राणि समा दश ।

सरस्वत्यां तपस्तेपे साक्षात्कर्तुं जनार्दनम् ॥

2

भगवान् परमप्रीतः प्रददौ निजदर्शनम् ।

अनुकूलां प्रियां भार्यां ययाचे वरमुत्तमम् ॥

3

स्वायम्भुवो मनुश्चाथ देवहूतिं निजां सुताम् ।

कर्दमाय ददौ राजा केशवेन प्रचोदितः ॥

4

तयोस्तु भगवान् विष्णुर्वासुदेवो जगद्गुरुः ।

पुत्ररूपेणावतीर्णो ददौ ज्ञानञ्च निर्मलम् ॥

5

कपिलाख्यो वासुदेवो सांख्यतत्त्वविदां गुरुः ।

धर्मान् भागवतान्मात्रे प्रोवाच कृपया हरिः ॥

6

पितरि प्रस्थितेऽरण्यमनुज्ञाप्य च मातरम् ।

लोके चचार भगवान् धर्मतत्त्वोपदेशकः ॥

7

इतस्ततः पर्यटंश्च कपिलो भगवान् हरिः ।

केरलं देशमागत्य तपश्चक्रे महामुनिः ॥

8

आसुरिर्नाम योगीन्द्रो योगाभ्यासपरायणः ।

तत्राजगाम कपिलं ददर्श च यदृच्छया ॥

9

प्रणम्य विधिवद्भक्त्या पप्रच्छ च कृताञ्जलिः ।

आसुरिः कपिलं विष्णुं सर्वसंशयनाशनम् ॥

10

आसुरिरुवाच

भगवन् करुणासिन्धो वासुदेव नमोस्तु ते ।

प्राप्तं मे जन्मसाफल्यं दर्शनात्तव सद्गुरो ॥

11

निमग्नं जनमुद्धर्तुं मायामोहमहार्णवे ।

जानामि त्वां जगन्नाथमवतीर्णं जगद्गुरुम् ॥

12

मामुद्धर कृपासिन्धो वासुदेव जगद्गुरो ।

शरण्यं शरणं यामि त्वामेव करुणानिधे ॥

13

संसारपाशबद्धोऽहं कथं मोक्षमवाप्नुयाम् ।

अन्धस्य मम दीनस्य मार्गं दर्शय सद्गुरो ॥

14

कपिल उवाच

आगच्छ त्वं महाभाग सन्ततं भद्रमस्तु ते ।

निषण्णस्त्वं मत्समीपे सावधानतया शृणु ॥

15

स्थूलं जगदिदं सर्वं यत्त्वया दृश्यते पुरः ।

तत्सर्वं जातमव्यक्तात् प्रधानान्मूलकारणात् ॥

16

अव्यक्तं च महत्तत्त्वमहङ्कारो मनस्तथा ।

शब्दस्पर्शरूपरसगन्धाश्च विषयास्तथा ॥

17

खं वायुरग्निरापश्च भूमिर्भूतानि पञ्च च।

श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाणि च ।

एवं हि वाक्पाणिपादपायूपस्थानि पञ्च च ।

चतुर्विंशतितत्त्वानि जानीयात् संख्यया बुधः ॥

18

तेषामन्योन्यसंबन्धं देवताश्च वदाम्यहम् ।

शब्दमाकाशतन्मात्रां गृह्णाति श्रोत्रमेव हि ॥

19

स्पर्शं च वायुतन्मात्रां गृह्णाति त्वक् तथैव हि ।

रूपं तथाग्नितन्मात्रां गृह्णाति नयनेन्द्रियम् ॥

20

रसं च जलतन्मात्रां गृह्णाति रसना तथा ।

गन्धं पृथिवितन्मात्रां गृह्णाति घ्राणमेव हि ॥

21

वाक् करोति प्रवचनं पाणिः कर्म करोति च ।

पादौ सञ्चरतश्चैवमुपस्थं सृष्टिकारणम् ॥

22

विसर्गाय तथा पायुरिन्द्रियाणि दशैव हि ।

तानि सर्वाणीन्द्रियाणि तत्तद्विषयकर्मसु ।

प्रवर्तयन्ति देवास्तु पुरुषेच्छानुसारतः ॥

23

दिशो हि कर्णयोर्देवास्त्वचो वायुर्दृशो रविः ।

जिह्वाया वरुणो देवो घ्राणयोरश्विनौ तथा ॥

24

वाचोऽग्निः पादयोर्विष्णुः पाण्योरिन्द्रः सुरेश्वरः ।

प्रजापतिरुपस्थस्य पायोर्मृत्युश्च देवताः ॥

25

सङ्कल्पा मनसो जाता मनश्चैकादशेन्द्रियम् ।

सर्वेषां व्यवहारं तमहङ्कारोऽनुवर्तते ॥

26

दशानामिन्द्रियाणां च मनसोऽहङ्कृतेस्तथा ।

शक्तिदाता महानेष मुख्यः प्राण इतीरितः ॥

27

चन्द्रो हि मनसो देवो रुद्रोऽहङ्कारदेवता ।

हिरण्यगर्भो लोकेश मुख्यप्राणस्य देवता ॥

28

अव्यक्तादेव जातानि व्यक्तानि क्रमशो द्विज ।

पुनरव्यक्तभूतानि जायन्ते च पुनः पुनः ॥

29

अव्यक्तं प्रकृतिं विद्यात् साक्षिणः परमात्मनः ।

जडत्वादेतदखिलं न स्वयं हि प्रकाशते ॥

30

अव्यक्तसाक्षी पुरुषश्चिन्मयश्च निरामयः ।

शुद्धोऽपि मायासंबन्धात्कर्ता भोक्तेव दृश्यते ॥

31

व्यक्ताव्यक्तमिदं सर्वं त्यक्त्वा बन्धनकारणम् ।

प्रत्यक्तत्त्वं चित्स्वरूपमात्मानमनुचिन्तयेत् ॥

32

आत्मानमात्मना ज्ञात्वा भवबन्धाद्विमुच्यते ।

नान्यः पन्था विद्यते हि मोक्षाय मुनिपुङ्गव ॥

33

प्रकृतेर्देवता लक्ष्मीः पुरुषस्य हरिः परः ।

तमेव शरणं गच्छ भवबन्धविमोचकम् ॥

34

सांख्यतत्त्वमिदं गुह्यं विचार्य च पुनः पुनः ।

अनित्यमखिलं त्यक्त्वा नित्ये लयमवाप्नुहि ॥

35

श्रीसद्गुरुरुवाच

कपिलेनोपदिष्टोऽयमासुरिर्मुनिपुङ्गवः ।

तपश्चकार तत्रैव विष्णुध्यानपरायणः ॥

36

तीरे कपिलतीर्थस्य प्रतिष्ठाप्य हरिं तथा ।

पूजयामास भक्त्यैव तत्त्वचिन्तनतत्परः ॥

37

कपिलो भगवान् विष्णुः शङ्खचक्रगदाधरः ।

दर्शनं प्रददौ तस्मै कृपया लोकनायकः ॥

38

कपिलस्य प्रसादेन जीवन्मुक्तो बभूव सः ।

तदेतत्परमं क्षेत्रं सर्वपापविनाशनम् ॥

39

यस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्नुयात् ।

नाम्ना नीरदसेतुं तं नगरं प्राप्नुयान्नरः ॥

40

कपिलं वासुदेवं च तच्छिष्यं च तथासुरिम् ।

ताभ्यां प्रतिष्ठितं विष्णुं पश्येत्संसारमुक्तये ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे नीरदसेतुमाहात्म्यम् नाम चतुर्विंशोऽध्यायः ॥
Ch.23 Pañcama Bhāge Ch.25