Verses

अनन्तपुरमाहात्म्यम् Ananta Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

श्रीवत्सो नाम योगीन्द्रो मुनिरासीत्तपोनिधिः ।

पूर्वं सरस्वतीतीरे तपश्चक्रे दृढव्रतः ॥

2

साक्षात्कर्तुं जगन्नाथं देवदेवं जनार्दनम् ।

स चकार महाघोरं तपो भक्तिमतां वरः ॥

3

क्वचित्पर्णाशनश्चैव नीरमात्राशनः क्वचित् ।

क्वचिद्वाताशनश्चैव क्वचिच्छुद्धोपवासतः ॥

4

पञ्चाग्निमध्यगो ग्रीष्मे हेमन्ते जलमध्यगः ।

श्रावणे वर्षसुस्निग्धस्तपश्चक्रे महामुनिः ॥

5

द्वादशाक्षरविद्यां तु जपन् कोटिसहस्रशः ।

पुरश्चर्यां चकारायं भगवद्दर्शनेच्छया ॥

6

एकदा प्रातरुत्थाय सरस्वतिजले शुभे ।

स्नात्वा चकार वै सन्ध्यां ध्यायन्नारायणं प्रभुम् ॥

7

धृतोर्ध्वपुण्ड्रो योगीन्द्रस्तुलसीमणिमालिकः ।

पवित्रपद्ममाली च हरिनामानि कीर्तयन् ॥

8

पुष्पचन्दननैवेद्यधूपदीपादिकं मुनिः ।

संपाद्य स्वयमेवैष पूजां चक्रे यथाविधि ॥

9

शालग्रामं भद्रपीठे निधाय श्रद्धया मुनिः ।

चक्रे पञ्चामृतेनैवमभिषेकं दृढव्रतः ॥

10

चन्दनं धारयित्वाऽथ पवित्रतुलसीदलैः ।

अभ्यर्च्य भक्त्या गोविन्दं नैवेद्यं च न्यवेदयत् ॥

11

आरार्तिकं ततः कृत्वा बाष्पपूरितलोचनः ।

प्रदक्षिणं प्रणामं च चकार मुनिपुङ्गवः ॥

12

शालग्रामस्य पुरतो निमीलितविलोचनः ।

निषसादासने ध्यायन् शङ्खचक्रधरं हरिम् ॥

13

तदा कश्चिद्बालकस्तु रिङ्गन् रिङ्गन् रुदन् मुहुः ।

पुरस्तादागतः प्रेम्णा चारुरोहाङ्कमादरात् ॥

14

ध्यानस्य विघ्नं मन्वानो न्यषेधत् पाणिना शिशुम् ।

अन्तर्दधे शिशुः सद्यः क्वणत्कनकनूपुरः ॥

15

उन्मील्य लोचनं सद्यो ददर्श मुनिपुङ्गवः ।

वञ्चितो बालरूपेण कृष्णेन बहुदुःखितः ॥

16

प्रललाप महायोगी बाष्पपूरितलोचनः ।

उत्सारितकराम्भोजो नितरां करुणस्वरः ॥

17

श्रीवत्स उवाच

अहो दुर्भाग्यवानस्मि वञ्चितोऽस्मि च विष्णुना ।

योऽहमङ्कगतं कृष्णं नैव जानामि मोहितः ॥

18

महाघोरं तपः कुर्वन् बहुकालप्रतीक्षया ।

आगतं कृपया कृष्णं विमूढोऽहं न वेद्मि च ॥

19

अमूल्यं दर्शनं विष्णोर्मम तुच्छं तपोबलम् ।

न चेत्कथं वञ्चितोऽस्मि केशवेन कृपालुना ॥

20

प्रार्थये करुणामेव तस्मादहमकिञ्चनः ।

कामं पूरयतु क्षिप्रं शरणागतवत्सलः ॥

21

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर ।

दामोदरारविन्दाक्ष गोविन्द मधुसूदन ॥

22

न मे योगबलं देव तथा न हि तपोबलम् ।

केवलं कृपया कृष्ण दर्शनं देहि केशव ॥

23

त्वामेव द्रष्टुमिच्छामि दर्शनानन्दविग्रहम् ।

इतः परं प्रार्थनीयं किमस्ति मम माधव ॥

24

तवैव विरहेणाहं शोचामि पुरुषोत्तम ।

परीक्षां मा कुरु स्वामिन् कृपणोऽहं सुदुर्बलः ॥

25

तादृशी न हि मे भक्तिः श्रद्धा च करुणानिधे ।

यादृशी तव सेवा स्याद्देवानामपि दुर्लभा ॥

26

आगतं स्वयमङ्के त्वां निराहृत्य विमोहितः ।

पुनः सीदामि गोविन्द मम दुर्भाग्यमीदृशम् ॥

27

अपराधं क्षमस्वेममच्युतानन्त माधव ।

प्रपन्नं कृपया देव पाहि मां पुरुषोत्तम ॥

28

श्रीसद्गुरुरुवाच

एवं स्तुतो महाविष्णुः श्रीवत्सेन कृपानिधिः ।

अशरीरमुवाचेदं मेघगम्भीरया गिरा ॥

29

श्रीभगवानुवाच

अनन्तवनमागत्य तत्र मे दर्शनं कुरु ।

अनन्तशायिनं विष्णुं मा विषीद महामुने ॥

30

श्रीसद्गुरुरुवाच

अशरीरवचः श्रुत्वा सद्य एव महामुनिः ।

प्रतस्थे वनमार्गेण विष्णुदर्शनकौतुकात् ॥

31

क्व वर्ततेऽनन्तवनमिति पृच्छन् पुनः पुनः ।

चचार विपिने योगी भगवद्विरहाकुलः ॥

32

एवं चरन् स कान्तारे सादरं च ससंभ्रमम् ।

आययौ चानन्तवनं तीरे पश्चिमवारिधेः ॥

33

तत्रैव विष्णुमुरगेन्द्रफणासहस्र-

रत्नप्रदीप्तवदनं कमलायताक्षम् ।

श्रीमत्किरीटमणिकुण्डलकौस्तुभादि-

नानाविभूषणविभूषितमादिदेवम् ॥

34

शान्तं च शेषशयनोपरि योगनिद्रां

कुर्वन्तमच्युतमजं सुरसार्वभौमम् ।

अम्लानदिव्यतुलसीदलमाल्यशोभ-

श्रीवत्सलाञ्छितविशङ्कटवक्षसं च ॥

35

आवापकाञ्चितसुदीर्घभुजप्रसार-

संशोभितोरुपरिराजितपीतवस्त्रम् ।

कोट्यण्डगोलसदनायितपद्मपत्र-

चारूदरत्रिवलिवल्गितमेखलं च ॥

36

नानाचराचरविधायक वेदगर्भ-

जन्मैककारणसरोरुहनाभिदेशम् ।

पद्माधरामृदुलहस्तलतागृहीत-

श्रीमत्पदाम्बुजयुगं जगतां शरण्यम् ॥

37

पार्श्वेऽपि रुद्रविधिशक्रशशाङ्कसूर्य-

व्यासात्रिनारदशुकप्रमुखैश्च सेव्यम् ।

आयामतो विस्तरतः स्वमानदेहेन

कॢप्तभुवनत्रयमादिमूलम् ॥

38

दृष्ट्वा शिरोविनिहिताञ्जलिसंपुटोऽश्रु-

सुस्निग्धनेत्रयुगलः पुलकीकृताङ्गः ।

प्रेमप्रवाहजनितोन्मदसंभ्रमेण

तुष्टाव गद्गदगिरा पुरुषं महान्तम् ॥

39

श्रीवत्स उवाच

नमोऽस्त्वनन्ताय सहस्रमूर्तये ।

सहस्रपादाक्षिशिरोरुबाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते ।

सहस्रकोटीयुगधारिणे नमः ॥

40

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

41

मेघश्यामं पीतकौशेयवासं

श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।

पुण्योपेतं पुण्डरीकायताक्षं

विष्णुं वन्दे सर्वलोकैकनाथम् ॥

42

सशङ्खचक्रं सकिरीटकुण्डलं

सपीतवस्त्रं सरसीरुहेक्षणम् ।

सहारवक्षःस्थलशोभिकौस्तुभं

नमामि विष्णुं शिरसा चतुर्भुजम् ॥

43

अविकाराय शुद्धाय नित्याय परमात्मने ।

सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥

44

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥

45

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥

46

प्रसीद पद्मनाभ त्वं प्रसीद पुरुषोत्तम ।

प्रसीद पुण्डरीकाक्ष प्रसीद मधुसूदन ॥

47

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः श्रीवत्सं मुनिपुङ्गवम् ।

उवाच मधुरं वाक्यं वरस्ते व्रियतामिति ॥

48

तदैव मुनिवर्योऽपि लोकानुग्रहकाङ्क्षया ।

अत्रैव भगवन् विष्णो यावच्चन्द्रदिवाकरम् ।

दर्शनं देहि लोकानामनन्तशयने प्रभो ॥

49

इति संप्रार्थयामास देवोऽप्यङ्गीचकार सः ।

अद्यापि दृश्यते क्षेत्रमनन्तपुरमद्भुतम् ॥

50

अनन्तपुरमाहात्म्यं ये शृण्वन्ति नराः शुभम् ।

नश्यन्ति सर्वपापानि तेषामेव न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे अनन्तपुरमाहात्म्यम् नाम त्रयोविंशोऽध्यायः ॥
Ch.22 Pañcama Bhāge Ch.24