Verses

निम्नगानगरमाहात्म्यम् Nimnagā Nagara Māhātmyam

1

श्रीसद्गुरुरुवाच

वृको नाम महावीरो दैत्यो लोकभयङ्करः ।

आसीत् पुरा कृपालेशवर्जितः सुरवञ्चकः ॥

2

स चकार महाघोरं तपः सर्वसुदुष्करम् ।

साक्षात्कृत्य महेशानं वरं प्राप्तुमियेष सः ॥

3

तपसा तस्य घोरेण प्रसन्नोऽभून्महेश्वरः ।

उवाच कृपया वाक्यं भगवान् वृषभध्वजः ॥

4

श्रीरुद्र उवाच

उत्तिष्ठ तपसो दैत्य वरदोऽहमुपस्थितः ।

वरमिष्टं प्रदास्यामि भक्तोऽसि मम सुस्थिरः ॥

5

वृक उवाच

एवञ्चेद्देवदेवेश देहि मे वरमीदृशम् ।

निधास्यामि करं यस्य शिरसीन्दुकलाधर

मत्करस्पर्शमात्रेण स भस्मीभवतु क्षणात् ॥

6

श्रीसद्गुरुरुवाच

भगवान् बाढमित्याह तपसैव वशीकृतः ।

वृकस्तस्यैव शिरसि निधातुं करमाययौ ॥

7

निहत्य परमेशानं पार्वतीं हर्तुमिच्छया ।

अनालोच्य वरं दत्वा शङ्कटं प्राप शङ्करः ॥

8

दुद्राव सहसा रुद्रश्चानुदुद्राव तं वृकः ।

तौ दुद्रुवतुस्तूर्णं त्रिलोक्यामेवमेव हि ॥

9

निम्नगानगरं गत्वा नीरदश्यामलं हरिम् ।

अवाप शरणं रुद्रो वृकासुरभयात्प्रभुः ॥

10

श्रीरुद्र उवाच

नमस्तेस्तु जगन्नाथ लक्ष्मीनाथ गदाधर ।

आपद्बन्धो कृपासिन्धो केशवाच्युत माधव ॥

11

अनालोच्य वरं दत्वा वृकायाहं दुरात्मने ।

ईदृशं दुःखमापन्नः शरणं यामि माधव ॥

12

अभयं देहि गोविन्द शरणागतरक्षक ।

श्रीनिवास नमस्तेऽस्तु सर्वश्रेयोविधायक ॥

13

श्रीभगवानुवाच

अभयं ते नीलकण्ठ स्वागतं भद्रमस्तु ते ।

वृकोऽयं स्वेन पापेन शीघ्रमेव विनङ्क्ष्यति ॥

14

अत्रैव निवस त्वं तु छायायां मत्पदाब्जयोः ।

वञ्चकं वञ्चनेनैव नाशयिष्यामि तं वृकम् ॥

15

श्रीसद्गुरुरुवाच

इत्युक्त्वा भगवान् विष्णुर्मध्येमार्गमुपागतः ।

ब्रह्मचारिस्वरूपेण दैत्यं वृकमुवाच सः ॥

16

श्रीभगवानुवाच

स्वागतं ते शाकुनेय सात्त्विकोऽसि स्वभावतः ।

त्वादृशं नैव पश्यामि दैत्यं लोकोपकारकम् ॥

17

किं धावसि महाबुद्धे स्वेदस्निग्धकलेबरः ।

एवं त्वां दुःखितं दृष्ट्वा जायते करुणा त्वयि ॥

18

वृक उवाच

धास्यामि यस्य शिरसि करं स म्रियतामिति ।

रुद्रेण मे वरं दत्तं जानीहि त्वं सखाऽसि मे ॥

19

तत्परीक्षार्थमेवाहं तस्यैव शिरसि प्रभो ।

करं निधातुं धावामि तमेवानुगतोऽस्म्यहम् ॥

20

श्रीभगवानुवाच

अहो दानवराजेन्द्र वञ्चितोऽसि पुरारिणा ।

दक्षशापादयं लोके चरत्युन्मादवच्चिरात् ॥

21

अनृतं तस्य वाक्यं हि वृथा तव परिश्रमः ।

त्वां दृष्ट्वा कृपया दैत्य शोचाम्यहमपि प्रभो ॥

22

एवञ्चेत्तर्हि दैत्येन्द्र तव हस्तं निधाय मे ।

शिरसि त्वं च मद्वाक्ये विश्वासं प्राप्स्यसि प्रभो ॥

23

वृक उवाच

वञ्चितोऽहं महाबुद्धे वृथा मम परिश्रमः ।

करोमि त्वयि विश्वासं मम मित्रमसि प्रभो ॥

24

श्रीभगवानुवाच

ईदृशीं दशां दृष्ट्वा शाकुनेय महामते ।

ताडयन्नुदरं दीनं क्रन्दाम्यहमपि प्रिय ॥

25

वृक उवाच

ममेदृशीं दशां दृष्ट्वा तथा शिरसि ताडयन् ।

त्वया साकमहञ्चापि क्रन्दामि शिववञ्चितः ॥

26

श्रीसद्गुरुरुवाच

इत्युक्त्वा दुर्मतिर्दैत्यः सद्यः शिरसि ताडयन् ।

स्वकरस्पर्शमात्रेण भस्मीभूतो ममार ह ॥

27

वञ्चकं वञ्चनेनैव मारयित्वा स्वयं प्रभुः ।

शिवमागत्य सहसा सान्त्वयामास सादरम् ॥

28

तदेतत् क्षेत्रप्रवरं निम्नगानगरं भुवि ।

दर्शनं कुर्वतां शौरेर्महाशङ्कटनाशनम् ॥

29

पुण्ये केरलदेशे तु वर्तते पापनाशनम् ।

यत्र पन्नगपर्यङ्के शेते विष्णुर्जगत्पतिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे निम्नगानगरमाहात्म्यम् नाम द्वाविंशोऽध्यायः ॥
Ch.21 Pañcama Bhāge Ch.23