Verses

श्रीपरिचारक्षेत्रमाहात्म्यम् Śrī Paricāra Kṣetra Māhātmyam

1

भागवता ऊचुः

पुण्ये केरलदेशेऽपि स्थितानां गुरुपुङ्गव ।

माहात्म्यं दिव्यदेशानां वद त्वं परमं शुभम् ॥

2

श्रीसद्गुरुरुवाच

केरले बहवः सन्ति क्षेत्राणि जगतीपतेः ।

वक्ष्यामि सङ्ग्रहेणैव माहात्म्यं परमाद्भुतम् ॥

3

उवास केरले पूर्वं भूपालः कुलशेखरः ।

शिक्षको दुर्जनानां च सज्जनानां च रक्षकः ॥

4

गोब्राह्मणपरित्राता सत्यधर्मपरायणः ।

महावीरो महाधीरो महाशूरो महामनाः ॥

5

स्थानकोपः क्षमावांश्च दाता कल्पकवृक्षवत् ।

विष्णुभक्तो महात्माऽयं वैष्णवाराधनप्रियः ॥

6

स राजा सेनया सार्धं सामात्यः सायुधस्तथा ।

लोके दिग्विजयं कर्तुं प्रतस्थे परमोत्सुकः ॥

7

कर्णाटकान् महाराष्ट्रान्

कलिङ्गान् घूर्जरांस्तथा ।

अङ्गवङ्गोत्कलानान्ध्रान्

चोलान् पाण्ड्यांश्च सादरम् ॥

8

विजित्य सत्वरं भूयः केरलानाययौ नृपः ।

मध्येमार्गं क्वचिद्भ्रष्टो भूपालस्य हयोत्तमः ॥

9

तं हयं मृगयन् राजा चचार च वनान्तरे ।

बहुवृक्षलताकीर्णे नानातीर्थसमन्विते ॥

10

सोमतीर्थं ददर्शाथ मुनिमण्डलसेवितम् ।

तत्तीरे कल्पकं वृक्षं तस्मिन् बद्धं हयं च तम् ॥

11

तत्र मन्दिरम् एकं च विलोक्य कुलशेखरः ।

विवेश विष्णुसेवार्थं विष्णुभक्तो महीपतिः ॥

12

तत्र शेषासने विष्णुं दिव्यश्यामलविग्रहम् ।

शङ्खचक्रगदापाणिं श्रीवत्साङ्कितवक्षसम् ॥

13

कौस्तुभामुक्तकण्ठं च वैजयन्तीविभूषितम् ।

दिव्यपीताम्बरधरं मन्दस्मितमुखाम्बुजम् ॥

14

विलोक्य देवदेवं तं सानन्दं पुलकाङ्कितः ।

दुद्राव सन्निधिं तूर्णं कृष्णदर्शनकौतुकात् ॥

15

तदा तत्र महासाध्वी तन्वी विद्युल्लतोपमा ।

सौन्दर्यपूर्णसर्वाङ्गी नीलोत्पलनिभेक्षणा ॥

16

नानारत्नविभूषाढ्या नवीनक्षौमधारिणी ।

मञ्जीरभूषितपदा हंसवन्मन्दगामिनी ॥

17

मन्दस्मितमुखाम्भोजा मधुरस्वरभाषिणी ।

मधुसूदनकैङ्कर्यतत्परा मदिरेक्षणा ।

ददृशे कापि वनिता समक्षं कमलोपमा ॥

18

साऽपि लज्जारुणमुखी दृष्ट्वा तं कुलशेखरम् ।

अन्तर्दधे सद्य एव विष्णोर्वक्षःस्थले तदा ॥

19

एवं विलोक्य भूपालो विस्मितः कुलशेखरः ।

बद्धाञ्जलिपुटस्तस्थौ पुलकाञ्चितविग्रहः ॥

20

तत्रागतं मुनिवरं मौद्गल्यं भक्तिपूर्वकम् ।

प्रणम्य राजा पप्रच्छ दृष्टं तत्परमाद्भुतम् ॥

21

मौद्गल्यः परमप्रीतो राजानं कुलशेखरम् ।

उवाच मधुरं वाक्यं सान्त्वयन् स तपोनिधिः ॥

22

मौद्गल्य उवाच

राजन्निदं सोमतीर्थं सर्वपापविनाशनम् ।

हंसकारण्डवाकीर्णं सरोजवनसुन्दरम् ॥

23

तपः कुर्वन्ति तत्तीरे मुनयश्च तपोधनाः ।

साक्षात्कर्तुं विष्णुमेव सर्वलोकमहेश्वरम् ॥

24

देवानां च मुनीनां च नराणां भगवान् हरिः ।

कृपया दर्शनं दातुमत्रैव वसति प्रभुः ॥

25

श्रीरेव रूपिणी विष्णोः परिचर्यां करोति हि ।

ततो हि श्रीपरिचारक्षेत्रमेतन्महीपते ॥

26

त्वया दृष्टा तु या नारी दिव्यसौन्दर्यसंयुता ।

नूनं सा जगतां माता श्रीरेव हि न संशयः ॥

27

नित्यं वसति सा लक्ष्मीः श्रीवत्से त्वनपायिनी ।

श्रीधरः श्रीनिवासोऽयं श्रीवत्साङ्कः श्रियः पतिः ॥

28

अहो भाग्यं महाराज सम्प्राप्तं तव दर्शनम् ।

श्रियश्च श्रीनिवासस्य सर्वश्रेयोविधायकम् ॥

29

अद्यप्रभृति ते नूनं मङ्गलं चोत्तरोत्तरम् ।

भविष्यति महाराज श्रीवत्साङ्कस्य दर्शनात् ॥

30

दर्शनं दातुकामेन विष्णुना प्रभविष्णुना ।

आनीतोऽयं हयो राजन् लीलया गृह्यतां पुनः ॥

31

श्रीसद्गुरुरुवाच

इत्युक्तः केरलेन्द्रश्च प्रसन्नहृदयः पुनः ।

अर्चावतारं गोविन्दं तुष्टाव प्रेमपूर्वकम् ॥

32

कुलशेखर उवाच

नमो नारायणायास्तु श्रीवत्साङ्कितवक्षसे ।

श्रीशाय श्रीनिवासाय श्रीधराय नमो नमः ॥

33

शाश्वताय प्रशान्ताय सर्वाभीष्टप्रदायिने ।

शरण्याय वरेण्याय सर्वेशाय नमो नमः ॥

34

सौम्याय सुरवन्द्याय सर्वलोकविहारिणे ।

सुखासनोपविष्टाय सुन्दराय नमो नमः ॥

35

विदुषे विधिरूपाय विश्ववन्द्याय वेधसे ।

स्तुत्याय स्तोत्ररूपाय वामनाय नमो नमः ॥

36

अशेषजनवन्द्याय विशेषफलदायिने ।

वशीकृतजनेशाय केशवाय नमो नमः ॥

37

पीताम्बरविभूषाय तुलसीदामधारिणे ।

भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः ॥

38

त्रिविक्रमाय धीराय विष्णवे परमात्मने ।

वेदवेद्यस्वरूपाय माधवाय नमो नमः ॥

39

सनातनाय पुण्याय पुण्यलभ्याय शौरये ।

लक्ष्मीविश्वम्भराभर्त्रे पद्मनाभाय ते नमः ॥

40

धनुर्धराय दण्डाय सुशीलाय सुवर्चसे ।

स्पष्टाक्षराय मन्त्राय गोविन्दाय नमो नमः ॥

41

अचलाय चलायापि निर्गुणाय सुमेधसे ।

अनेककर्मकर्त्रे च विष्णवे ते नमो नमः ॥

42

प्रलयाब्धिविहाराय मधुकैटभमृत्यवे ।

प्रद्युम्नायानिरुद्धाय सात्त्विकाय नमो नमः ॥

43

रसाय सर्वसाराय सर्वसौख्यप्रदायिने ।

गरुडध्वजाय हरये श्यामाङ्गाय नमो नमः ॥

44

सुखदाय सुघोषाय शुभाङ्गाय सुभानवे ।

शुभेक्षणाय देवाय शोभनाय नमो नमः ॥

45

सम्पत्कराय धन्याय सत्यानन्दस्वरूपिणे ।

धराधराय सिद्धाय श्रीधराय नमो नमः ॥

46

ते बृहते धाम्ने जगदानन्दहेतवे ।

वासुदेवाय शान्ताय श्रीकराय नमो नमः ॥

47

विष्वक्सेनाय शुद्धाय सृष्टिस्थित्यन्तकारिणे ।

ब्रह्मगर्भाय रुद्राय नृसिंहाय नमो नमः ॥

48

तेजोवृषाय जीवाय ज्ञानगम्याय वेधसे ।

प्रणवाय प्रमाणाय प्राणदाय नमो नमः ॥

49

वरप्रदाय वीराय शङ्खहस्ताय चक्रिणे ।

निर्लेपाय विविक्ताय पुरुषाय नमो नमः ॥

50

सोमलक्ष्मीसरस्तीरविहाराय च विष्णवे ।

श्रिया परिचारक्षेत्रसंस्थिताय नमो नमः ॥

51

श्रीसद्गुरुरुवाच

एवं स्तुतो महाविष्णुः श्रीवत्साङ्कः श्रियः पतिः ।

वराय चोदयामास राजानं कुलशेखरम् ॥

52

राजा तु वव्रे सानन्दं भक्तिमव्यभिचारिणीम् ।

हयं विमुच्य सुप्रीतो नगरं प्राप सेनया ॥

53

तदिदं श्रीपरिचारक्षेत्रं परमपावनम् ।

यस्मिन् प्रवेशमात्रेण लभ्यते विष्णुदर्शनम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीपरिचारक्षेत्रमाहात्म्यम् नाम एकविंशोऽध्यायः ॥
Ch.20 Pañcama Bhāge Ch.22