Verses

बृहत्तटाकमाहात्म्यम् Bṛhattaṭāka Māhātmyam

1

श्रीसद्गुरुरुवाच

बृहत्तटाकतीरे तु ताम्रपर्णीतटे वने ।

उवास ब्राह्मणः कश्चिद्वेदसार इति श्रुतः ॥

2

कुमुद्वती तस्य पत्नी कन्या तु कमलावती ।

स्वधर्मपरमो नित्यमग्निहोत्रपरायणः ॥

3

अग्रहारस्थितैर्विप्रैः श्रद्धया परिपूजितः ।

दयावान् सर्वभूतेषु दान्तः शान्तो जितेन्द्रियः ॥

4

कन्या पितृमुखेनैव श्रुत्वा श्रीकृष्णवैभवम् ।

तमेव चकमे बाला नान्यं कमपि मानवम् ॥

5

सुन्दरी सुकुमारी च सुगुणा सुमुखी शुभा ।

सुती सुस्मिता शुद्धा सुशीला सुखभाषिणी ॥

6

पितृशुश्रूषणरता सततं मातृलालिता ।

बालिका बन्धुभिः प्रेम्णा सरसं बहुमानिता ॥

7

स्नात्वा बृहत्तटाके सा गत्वा गोविन्दमन्दिरम् ।

नित्यं संमार्जनं कृत्वा रङ्गवल्लीं लिलेख च ॥

8

चकार पात्रशुद्धिं च पुष्पाणि विविधानि च ।

पूजार्हाण्येव सङ्गृह्य भक्त्या मालां विधाय च ॥

9

समर्पयति सा नित्यं विष्णवे श्रद्धया युता ।

नित्यं पठन्ती स्तोत्राणि कुर्वन्ती नामकीर्तनम् ॥

10

रहिता ग्राम्यकथा हरिचिन्तनतत्परा ।

शृण्वन्ती केशवकथां कथितां वैष्णवोत्तमैः ।

गायन्ती तद्गुणानेव कालक्षेपं चकार सा ॥

11

गुणानालोक्य कन्याया वव्रिरे बहवो वराः ।

किन्तु सा केशवे बुद्धिं चकार दृढनिश्चया ॥

12

तां दृष्ट्वा तादृशीं कन्यां चिन्तां प्राप्य द्विजोत्तमः ।

उवाच दुहितृस्नेहपरिक्लिन्नविलोचनः ॥

13

वेदसार उवाच

लोकधर्मं न जानासि बालिके पद्मलोचने ।

पतिसंयोगसुलभं वयः प्राप्यापि सुन्दरि ॥

14

वयस्याः कन्यकाः सर्वाः सन्ति पश्य विवाहिताः ।

त्वमेव केशवे भक्तिमीदृशीं कुरुषे सदा ॥

15

कर्तव्या केशवे भक्तिर्लोकवेदानुसारिणी ।

वचनेन मनोरेव न स्त्री स्वातन्त्र्यमर्हति ॥

16

तस्माद्विवाहिता त्वं च भर्त्रा सार्धं दिने दिने ।

कुरु केशवसेवां च धर्म एष सनातनः ॥

17

कमलावत्युवाच

सर्वथा मम पूज्योऽसि पिता त्वं ब्राह्मणोत्तमः ।

धर्म्यं न्याय्यं सत्यमेव वचनं ते न संशयः ॥

18

किन्तु मे हृदये नित्यं कृष्ण एव प्रकाशते ।

स्थानमन्यस्य नास्त्येव सत्यं सत्यं वदाम्यहम् ॥

19

रमते नैव मे चित्तं लौकिकविषये बत ।

मां दत्वा किं फलं कस्मै मया कस्मै सुखं भवेत् ॥

20

येनकेनप्रकारेण भावेन पुरुषोत्तमम् ।

प्राप्स्यामि कृष्णमेवाहं भक्तानां सुलभो हि सः ॥

21

श्रीसद्गुरुरुवाच

इत्युक्तो ब्राह्मणः सोऽपि विस्मितो निजकन्यया ।

कथं भविष्यतीत्येव चिन्ताग्रस्तो बभूव सः ॥

22

कन्या च कृष्णविरहात् क्रन्दन्ती कृशविग्रहा ।

निद्राहारविहारेषु विरक्ता विमुखी बभौ ॥

23

पितरौ दुःखितावास्तां जहसुर्बान्धवा जनाः ।

उल्लङ्घ्य लोकमर्यादां कृष्णे भक्तिं चकार सा ॥

24

कदाचिदागतः कश्चिन्मायावी च नटोत्तमः ।

गायन्नृत्यन् चकारैव लीलां बालकमोहिनीम् ॥

25

बालकैर्बालिकाभिश्च पार्श्वे परिवृतः सदा ।

चकार नाट्यं बहुधा श्यामसुन्दरविग्रहः ॥

26

दिनानि कानिचित्तत्र न्यवसन्नटसुन्दरः ।

सर्वेऽपि प्रणयं चक्रुस्तस्मिन् विश्वासमेव च ॥

27

बृहत्तटाकं गच्छन्तीं कन्यकां कमलावतीम् ।

सलिलानयनायैव सायं सह सखीजनैः ॥

28

विलोक्य सरसं गत्वा प्रेमसल्लापतत्परः ।

जहार सहसा चोरो मायावी नटसुन्दरः ॥

29

ताः कन्याः शीघ्रमागत्य ग्राममूचुः कथां च ताम् ।

अनुजग्मुश्च तं चोरं ते विप्रा दण्डपाणयः ॥

30

प्रविवेश तया सार्धं तत्रत्यं मन्दिरं च सः ।

विविशुर्ब्राह्मणाश्चापि तत्रैवान्तर्दधे तया ॥

31

तं वरं चोरनाट्यं च कन्यां च कमलावतीम् ।

अर्चाविग्रहरूपेण ददृशुर्ब्राह्मणोत्तमाः ॥

32

आश्चर्यं परमं प्राप्ता लीलां विज्ञाय चक्रिणः ।

शशंसुः कमलावत्या भक्तिं भाग्यं द्विजस्य च ॥

33

चोरनाट्यस्य कृष्णस्य क्षेत्रमेतत् सुमङ्गलम् ।

ये पश्यन्ति नरा भक्त्या तेषां भवति मङ्गलम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे बृहत्तटाकमाहात्म्यम् नाम पञ्चदशोऽध्यायः ॥
Ch.14 Pañcama Bhāge Ch.16