Verses

श्रीवैकुण्ठक्षेत्रमाहात्म्यम् Śrī Vaikuṇṭha Kṣetra Māhātmyam

1

श्रीसद्गुरुरुवाच

मलयाचलसंभूता ताम्रपर्णी महानदी ।

यद्वारिकणिकां पीत्वा हरिभक्तिः प्रजायते ॥

2

नानावृक्षसमाकीर्णा तटद्वयसमन्विता ।

शिवविष्णुगुहादीनामालयैः समलङ्कृता ॥

3

कुल्याभिर्निजतुल्याभिः शालिवाटीविवर्धिनी ।

विप्राणां वेदविदुषामग्रहारैर्विराजिता ॥

4

स्नानमण्टपसंयुक्ता मणिसोपानसंवृता ।

वैष्णवाङ्घ्रिसरोजातराजत्पुलिनसंयुता ॥

5

नानानियमसंयुक्तमुनिमण्डलसेविता ।

महाप्रवाहसंयुक्ततरङ्गमधुरस्वना ॥

6

स्वच्छस्फटिकपानीया मत्स्यकेलिविवर्धिनी ।

तस्यास्तीरे महाविष्णोर्देवदेवस्य चक्रिणः ॥

7

नव क्षेत्राणि वर्तन्ते पावनानि महान्ति च ।

तेषां माहात्म्यमाख्यास्ये सर्वपापविनाशनम् ।

यस्य श्रवणमात्रेण सर्वमङ्गलमाप्नुयात् ॥

8

आसीत् कश्चिच्चोरराजः कालदूषकनामकः ।

महाबलो महाधीरो महात्मा दीनरक्षकः ॥

9

नाथश्चोरसहस्राणां गिरिकाननगोचरः ।

रात्रौ नगरमागत्य चौर्यं नित्यं चकार सः ॥

10

मध्येमार्गं ताम्रपर्णीतटे वैकुण्ठमच्युतम् ।

विलोक्य प्रार्थयन् नित्यं चक्रे चौर्यं स तस्करः ॥

11

संपादितस्य वित्तस्य भागं कृत्वा चतुर्विधम् ।

एकेन विष्णुमाराध्य द्वितीयेन च वैष्णवान् ॥

12

तृतीयेन चरन् धर्मं चतुर्थञ्चात्मनेऽग्रहीत् ।

लोभिनां धनिकानां तु गृहे चौर्यं करोति सः ।

न कदापि दरिद्राणां गृहे धर्मात्मनामपि ॥

13

अनुकूलोऽभवद्विष्णुश्चोरराजस्य तस्य च ।

भावज्ञो धर्मसारज्ञो भक्तोद्धारणतत्परः ॥

14

स कदाचिच्चोरराजो गत्वा राजगृहं महत् ।

सुवर्णभूषणं सर्वं जहार निजपार्षदैः ॥

15

राज्ञा प्रचोदिताः सर्वे राजभृत्यास्ततस्ततः ।

विचिन्वन्तश्चोरराजं जगृहुर्निर्भयं स्थितम् ॥

16

पप्रच्छ राजा तं चोरं कुपितारुणलोचनः ।

निश्चित्य तं शिक्षयितुं धर्मराज इव स्वयम् ॥

17

राजोवाच

कस्त्वं मूर्ख क्व वासस्ते तव के पार्षदास्तथा ।

किं त्वया रचितं चौर्यं दण्ड्योऽसि त्वं मया खलु ॥

18

चोर उवाच

तस्कराणामधिपतिर्नाम्नाऽहं कालदूषकः ।

वसामि बन्धुभिः साकं ताम्रपर्णीतटे वने ॥

19

चौर्यं हि मम वृत्तिस्तु तस्मादेवं कृतं नृप ।

त्वया दत्तं दण्डमहं कामये न हि मे भयम् ॥

20

न केवलं तस्करोऽहं मम देवोऽपि तस्करः ।

समोऽयमावयोर्भागो चौर्यवित्तस्य भूपते ॥

21

तस्माद्वैकुण्ठनाथाय देहि दण्डमपि प्रभो ।

आनुकूल्येन तस्यैव हृतं सर्वं न संशयः ॥

22

श्रीसद्गुरुरुवाच

एवं वदति चोरेशे विस्मितोऽभून्महीपतिः ।

तस्य दृष्ट्वा दृढं धैर्यं विष्णुभक्तिं च निर्मलाम् ॥

23

तदाऽऽगमत् सभामध्यं कश्चिद् ज्ञानवयोऽधिकः ।

ब्राह्मणो वेदविद्वाग्मी प्रांशुस्तेजस्विनां वरः ॥

24

पूजयामास तं राजा पप्रच्छ कुशलं तथा ।

अवोचद्ब्राह्मणस्तत्र निजागमनकारणम् ॥

25

ब्राह्मण उवाच

अहं वेद्मि महात्मानं चोरेशं कालदूषकम् ।

धर्मात्मा सत्यसन्धोऽयं दीनरक्षणतत्परः ॥

26

विष्णुवैष्णवसेवायै दीनानां रक्षणाय च ।

लोभिनां धनिनां वित्तं नित्यं हरति भूपते ॥

27

राजोवाच

यथा तथा वा भवतु चौर्यं पापं महत् खलु ।

तस्मादयं दण्ड्य एव दयनीयो न हि क्वचित् ॥

28

ब्राह्मण उवाच

चोराः सर्वे नैव चोराश्चोरा लोभिन एव हि ।

धर्मयोग्यं धनं ये ये संगृह्णन्ति वृथैव हि ॥

29

दीनान् सुदुःखितान् दृष्ट्वा करुणालेशवर्जितः ।

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

30

लोकक्षेमाय कुर्वन्ति कर्माणि बहवो जनाः ।

यो भुङ्क्ते नित्यमलसः स एवाघवतां वरः ॥

31

धर्मसूक्ष्ममिमं ज्ञात्वा यत्कर्तव्यं कुरु प्रभो ।

अहं तु चोरराजस्य ब्राह्मणोऽपि सहायकः ॥

32

श्रीसद्गुरुरुवाच

इत्युक्त्वा ब्राह्मणः सद्यो राजानं निजमायया ।

अन्तर्दधे मोहयित्वा चोरराजसहायकः ॥

33

मायाविनं ब्राह्मणं तं ज्ञात्वा वैकुण्ठनायकम् ।

तद्भक्तं चोरराजं च विमुमोच महीपतिः ॥

34

तदाप्रभृति राजाऽपि लोभिनो धनिकान्मुहुः ।

कारयामास धर्मांश्च चोरराजसखोऽभवत् ॥

35

वैकुण्ठनाथो भगवान् चोरनाथोऽभवत्तथा ।

चोरोऽपि चौर्यं सन्त्यज्य बभौ भागवतोत्तमः ॥

36

श्रीवैकुण्ठमुपागत्य चोरनाथं भजन्ति ये ।

तेषां राजभयं नास्ति नास्ति चोरभयं तथा ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीवैकुण्ठक्षेत्रमाहात्म्यम् नाम एकादशोऽध्यायः ॥
Ch.10 Pañcama Bhāge Ch.12