Verses

सेतुमाहात्म्यम् Setu Māhātmyam

1

श्रीसद्गुरुरुवाच

कोसलाधिपतिः श्रीमान् राजा दशरथो महान् ।

षष्ठिवर्षसहस्राणि पालयामास वै जगत् ॥

2

तस्य बाहुबलेनैव दैत्यान्निर्जित्य देवराट् ।

उवास निखिलैर्देवैर्निर्भयं च सुखं दिवि ॥

3

काले ववर्ष पर्जन्यः पृथिवी सस्यशालिनी ।

नृपे दशरथे भूमिं शासति श्रीमतां वरे ॥

4

क्वचिच्चोरभयं नास्ति क्वचिन्मृत्युभयं तथा ।

सर्वे नराः प्रशान्ताश्च बभूवुः सुखजीविनः ॥

5

तस्य पत्नीत्रयं चासीत् किन्तु पुत्रो न जायते ।

तस्मात् सुदुःखितो राजा नानाधर्मांश्चकार सः ॥

6

नागप्रतिष्ठामश्वत्थप्रदक्षिणमपि प्रभुः ।

चक्रे चाथ शिशुमारशान्तिं सत्पुत्रकाङ्क्षया ॥

7

तीर्थयात्रां चकारापि दानानि च बहूनि सः ।

चक्रे षष्ठ्युपवासं च किन्तु पुत्रो न जायते ॥

8

अदृष्ट्वा फलसिद्धिं स धर्माणां पृथिवीपतिः ।

श्रान्तः सुदुःखितः प्राह वसिष्ठं स्वपुरोहितम् ॥

9

दशरथ उवाच

भगवन् मम पापेन पूर्वजन्मकृतेन हि ।

अनुष्ठितानां धर्माणां फलसिद्धिर्न जायते ॥

10

तस्मात्तस्यैव पापस्य विना निर्हरणं मुने ।

निखिलं व्यर्थमेवाहं मन्ये भाग्यविवर्जितः ॥

11

तत्पापहरणोपायं वद मे मुनिपुङ्गव ।

तत्करोमि श्रद्धयाऽहं ततो धर्मफलं भवेत् ॥

12

वसिष्ठ उवाच

तीरे दक्षिणसिन्धोस्तु फुल्लारण्यमिति श्रुतम् ।

क्षेत्रमस्ति महापुण्यं दिव्यपुष्करिणीयुतम् ॥

13

तत्र देवो जगन्नाथः शेषशायी जनार्दनः ।

कामितार्थप्रदो नृणां राजते दृष्टिगोचरः ॥

14

तत्र गत्वा जगन्नाथमाराध्य श्रद्धया नृप ।

सर्वपापविनिर्मुक्तः फलसिद्धिमवाप्स्यसि ॥

15

श्रीसद्गुरुरुवाच

इत्युक्तो मुनिना राजा पत्नीत्रयसमन्वितः ।

प्रतस्थे श्रद्धया भक्त्या ब्राह्मणैर्यात्रिकैः सह ॥

16

फुल्लारण्यमवाप्याथ पूजयामास केशवम् ।

पुराणपुरुषं विष्णुं पुत्रकामो महीपतिः ॥

17

तदा प्रसन्नो भगवान् जगन्नाथः श्रियः पतिः ।

कृपया दर्शनं दत्वा प्रोवाच प्रेमपूर्वकम् ॥

18

श्रीभगवानुवाच

मा विषीद महाराज नूनं पुत्रानवाप्स्यसि ।

लोकपालोपमान् दिव्यान् जगदानन्दवर्धनान् ॥

19

विघ्नं सर्वं विनष्टं ते पूर्वपापसमुद्भवम् ।

कुरु त्वं पुत्रकामेष्टिं पुरं गत्वा महीपते ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तो विष्णुना राजा पुनः स्वनगरं गतः ।

चकार पुत्रकामेष्टिमश्वमेधं च दीक्षितः ॥

21

ततस्तु वैकुण्ठपतिः परात्मा

निशाचरेन्द्रेण निपीडितानाम् ।

संरक्षणार्थं कृपया जनानां

चक्रेऽवतारं भुवि वासुदेवः ॥

22

बाल्येऽपि सौमित्रिसमन्वितोऽयं

सुबाहुमारीचवधं विधाय ।

यज्ञस्य रक्षामपि कौशिकस्य

चकार शीघ्रं धृतचापबाणः ॥

23

मार्गेऽप्यहल्यां पदरेणुनैव

कृत्वा पवित्रां मिथिलामवाप ।

भङ्क्त्वा च चापं परमेश्वरस्य

प्राप प्रियां मैथिलराजकन्याम् ॥

24

सुमानितोऽथ श्वशुरेण राज्ञा

संप्रस्थितो भार्गवरामगर्वम् ।

बभञ्ज रामो लघुलीलयैवं

जगाम सीतासहितस्त्वयोध्याम् ॥

25

उवास तत्रैव सुखं स्वराज्ये

संपूजितः सर्वजनैः सहर्षम् ।

पित्रा च मात्रा च सहोदरैश्च

संमानितः सद्गुणपूरितोऽयम् ॥

26

पट्टाभिषेकाय कृतोद्यमस्य

पितुश्च कैकेयिनिपीडितस्य ।

वाक्येन सीतासहितः प्रतस्थे

महावनं चीरजटाधरोऽयम् ॥

27

सौमित्रिणा सेवितपादपद्म-

श्चचार कान्तारतले महात्मा ।

अवाप राजाऽप्यथ पुत्रशोकात्

हा राम रामेति रुदन् स्वर्गम् ॥

28

अथ प्रपन्नं भरतं स्वभक्तं

स सान्त्वयित्वा निजपादुकां च ।

दत्वाऽथ वर्षांश्च बहून् निनाय

वनेषु पुण्याश्रममण्डलेषु ॥

29

रक्षोऽधमेनाथ विदेहजाया-

मसन्निधाने छलतो हृतायाम् ।

रुरोद दीनं कृपणो यथाऽयं

सर्वेश्वरोऽपि प्रणयेन मुग्धः ॥

30

ततो विचिन्वन् दयितां जटायुषे

दत्वाऽथ मोक्षं शबरीं जगाम ।

पंपातटे मारुतिदर्शनेन

संप्राप हर्षं सहसैव रामः ॥

31

सुग्रीवसख्यं च विधाय तस्मै

दत्वा च राज्यं कपिराजधान्याम् ।

तत्प्रेषितेनाथ हनूमतैव

विवेद सीताचरितं महात्मा ॥

32

ततः प्लवङ्गैः सह लक्ष्मणेन

कोदण्डपाणिस्त्वरया सहर्षम् ।

अवाप सैन्येन समुद्रतीर-

मालोलकल्लोलकुतूहलं तत् ॥

33

दृष्ट्वाऽथ फुल्लाटविवासिनं तं

श्रियः पतिं दाशरथिः स्वपित्रा ।

संपूजितं स्वस्य च जन्महेतुं

जनार्दनं सर्वजगन्निवासम् ॥

34

संपूजयामास च तं महात्मा

निशाचरेन्द्रं च विजेतुकामः ।

संप्राप्तुकामो गृहिणीं स्वकीयां

राज्यं च नष्टं रमणीयकीर्तिः ॥

35

तत्रैव रामः शरणागताय

दत्वाऽभयं चाथ विभीषणाय ।

त्रिरात्रमत्रैव हि दर्भशय्यां

च निनाय त्रिदिवेशसेव्यः ॥

36

नत्वा जगन्नाथमथो महात्मा

बद्ध्वा च सेतुं नगरीमवाप्य ।

कृत्वा रणं रावणमात्मशत्रुं

हत्वाऽथ सीतां दयितां ददर्श ॥

37

दत्वाऽथ राज्यं च विभीषणाय

गत्वाऽप्ययोध्यां सह सीतयैव ।

पट्टाभिषिक्तो भुवनं ररक्ष

राजाधिराजः किल रामचन्द्रः ॥

38

फुल्लारण्यमिदं क्षेत्रं राघवेणापि सेवितम् ।

ददाति मङ्गलं नृणां सर्वपापविमोचनम् ॥

39

फुल्लारण्ये जगन्नाथं पूजयित्वा तु मानवाः ।

लभन्ते पुत्रभाग्यं च पुरा दशरथो यथा ॥

40

अत्रैव दर्भशयने सुखसुप्तं परन्तपम् ।

पूजयेद्राघवं देवं शरणागतवत्सलम् ॥

41

इदञ्च दर्भशयनं महापातकनाशनम् ।

सन्तानभाग्यदं नृणां श्रद्धया सेव्यतामिह ॥

42

गण्यन्ते पांसवो लोके गण्यन्ते दिवि तारकाः ।

सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते ॥

43

रामेण कलिता रेखा धनुषा क्षारसागरे ।

तद्दर्शनादेव मुक्तिर्न जाने स्नानजं फलम् ॥

44

धनुष्कोटिरिति ख्यातं तीर्थं दक्षिणसागरे ।

श्रद्धया सेवमानानां सर्वपापविनाशनम् ॥

45

अत्र देवो महादेवो रामेण परमात्मना ।

पूजितो लोकशिक्षार्थं सर्वपापहरेण तु ॥

46

ब्रह्महत्यादिपापानि नृणां यन्नामकीर्तनात् ।

नश्यन्ति तस्य रामस्य कथं पापं परात्मनः ॥

47

यन्नाम तारकं मन्त्रं सदा जपति शङ्करः ।

मुक्तिं ददाति काश्यां च तस्य पापं कथं भवेत् ॥

48

लोकानां पापनाशार्थं रामचन्द्रः कृपानिधिः ।

रामेश्वरमिति ख्यातं स्थापयामास शङ्करम् ॥

49

तस्य दर्शनमात्रेण स्मरणादपि कीर्तनात् ।

नश्यन्ति सर्वपापानि मनुष्याणां कलौ युगे ॥

50

कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।

सद्यः प्रलयमायान्ति महादेवेति कीर्तनात् ॥

51

अत्रैव पूजयेद्विष्णुं श्रीधरं सेतुमाधवम् ।

श्रद्धया पुत्रकामस्तं सर्वदेवनमस्कृतम् ॥

52

शृण्वतां सेतुमाहात्म्यं श्रद्धयैव दिने दिने ।

नश्यन्ति सर्वपापानि मङ्गलानि भवन्ति च ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे सेतुमाहात्म्यं नाम सप्तमोऽध्यायः ॥
Ch.06 Pañcama Bhāge Ch.08