Verses

सत्यगिरिमाहात्म्यम् Satya Giri Māhātmyam

1

श्रीसद्गुरुरुवाच

कदाचिदमरावत्यां सहस्राक्षः शतक्रतुः ।

शचीदेव्या सहान्यैश्च देवैर्हुतवहादिभिः ॥

2

सेवितः सिद्धगन्धर्वविद्याधरमहोरगैः ।

किन्नरैर्गरुडैर्यक्षैर्मुनिभिश्चाप्सरोगणैः ॥

3

रत्नसिंहासने राजा श्वेतच्छत्रसमन्विते ।

रराज भगवाञ्छक्रः पुण्यवद्भिरुपासितः ॥

4

तत्रागतो नारदस्तु देवराजं विलोक्य च ।

उपेन्द्रं तत्समीपस्थं वीणया मधुरं जगौ ॥

5

तं विलोक्य तदा शक्रः प्रसन्नहृदयो महान् ।

पप्रच्छ श्लक्ष्णया वाचा मधुरं प्रेमपूर्वकम् ॥

6

इन्द्र उवाच

भगवन् वैष्णवश्रेष्ठ विष्णुगानपरायणः ।

भूत्वा त्रिलोकसञ्चारी जनान् पावयसि प्रभो ॥

7

सत्यं हि परमं तीर्थं सत्यं हि परमं तपः ।

सत्यं हि परमं पुण्यं सत्यं हि परमं व्रतम् ॥

8

असत्यं ये नरा मूढा भाषन्ते लीलयापि च ।

ते स्वर्गं नैव गच्छन्ति नरकं यान्ति ते ध्रुवम् ॥

9

कोन्वस्मिन् सांप्रतं लोके सत्यनिष्ठो वरो नरः ।

वर्तते नारद ब्रूहि श्रोतुं कौतूहलं मम ॥

10

नारद उवाच

अस्ति सत्यगिरिर्नाम दिव्यौषधिसमन्वितः ।

पुष्पभद्रानदीतीरे पुण्यवद्भिरुपासितः ॥

11

तत्र चक्रशिला नाम शिला काचन विद्यते ।

एवं भद्रवटो नाम महावृक्षश्च वर्तते ॥

12

सत्यमेधा मुनिस्तत्र करोति परमं तपः ।

स एव सत्यसन्धो हि सांप्रतं पाकशासन ॥

13

श्रीसद्गुरुरुवाच

एवं प्रशंसितं द्रष्टुं मुनीन्द्रं सत्यमेधसम् ।

इन्द्रोपेन्द्रावुपायातौ शीघ्रं सत्यगिरिं मुदा ॥

14

इन्द्रः किरातरूपेण चापबाणधरो ययौ ।

उपेन्द्रः पुरतस्तस्य ययौ सूकररूपधृत् ॥

15

मृगयाव्याजतो देवौ मुनीन्द्रं सत्यमेधसम् ।

परीक्षितुं सत्यगिरिं चागतौ लीलयैव तौ ॥

16

वराहः पुरतो गत्वा मुनीन्द्रं शरणं ययौ ।

कृपया सत्यमेधाश्च ददौ तस्मै निजं गृहम् ॥

17

ततस्तत्रागतः शक्रो व्याधरूपेण सायुधः ।

पप्रच्छ तं मुनिं नत्वा प्राञ्जलिः सुविनीतवत् ॥

18

इन्द्र उवाच

क्व वर्तते वराहः स त्वामेव शरणं गतः ।

मृगयायां मया लब्धो वद त्वं मुनिपुङ्गव ॥

19

अहं चिरेण कालेन क्षुधा चैव पिपासया ।

सदारपुत्रः सीदामि तं वराहं प्रदर्शय ॥

20

श्रीसद्गुरुरुवाच

इत्युक्तो देवराजेन चिन्तयामास तापसः ।

न वेति प्रवादेन भवेदनृतमेव हि ॥

21

वेद्मीति वचनेनापि भवेत्तस्य प्रदर्शनम् ।

शरणागतसन्त्यागे पापमेव भवेन्महत् ।

इत्यालोच्य मुनिः प्राह किरातं विशदं वचः ॥

22

सत्यमेधा उवाच

द्रष्टव्यं दर्शनं द्रष्टा सिद्धमेवं पुटत्रयम् ।

विचार्य सत्यं जानीहि स्वयमेव महामते ॥

23

श्रीसद्गुरुरुवाच

तस्य सत्यं वचः श्रुत्वा प्रहृष्टौ सुरसत्तमौ ।

इन्द्रोपेन्द्रौ सद्य एव ददतुर्निजदर्शनम् ॥

24

इन्द्रनीलमणिश्यामौ नानाभरणभूषितौ ।

दिव्यपीताम्बरधरौ दिव्यगन्धानुलेपनौ ॥

25

दिव्यायुधधरौ वीरौ देवदेवौ महाबलौ ।

पोषकावमराणां च दानवानां विनाशकौ ॥

26

सत्यप्रसन्नौ सत्ये च निष्णातौ सत्यरक्षकौ ।

सत्यस्य फलभूतौ च सत्यधर्मस्वरूपिणौ ॥

27

विलोक्य सत्यमेधाश्च तुष्टाव मुनिपुङ्गवः ।

सत्यनारायणं देवं शक्रेण समुपागतम् ॥

28

सत्यमेधा उवाच

सत्यस्वरूपं सत्येशं सत्याचलनिवासिनम् ।

सत्यव्रतं सत्यसत्यं सत्यरक्षकमाश्रये ॥

29

ऋतं सत्यमिति द्वे च नेत्रे तव जगत्पते ।

ऋतेन रक्षितं सत्यं सत्येन च ऋतं तथा ॥

30

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम् ॥

31

न हि सत्यस्य सत्यत्वं विद्यते सत्यनायक ।

ऋतेनैव हि सत्यस्य सिद्धिः सञ्जायते प्रभो ॥

32

सर्वान्तर्यामिणं जाने त्वामहं सत्यसाक्षिणम् ।

ऋतरूपमृषिश्रेष्ठं सत्यस्थं समदर्शिनम् ॥

33

असत्यं सत्यवद्भाति सत्यं चासत्यवत्तथा ।

मायया तव सत्येश सत्यं तन्मे निरूपय ॥

34

परं तु नामरूपं च व्यवहाराय तन्मृषा ।

आदावन्ते च मध्ये च सत्यमेव विराजते ॥

35

एकमेवाद्वितीयं तत् सत्यं नित्यं च शाश्वतम् ।

मायया बहुरूपेण दृश्यते परमार्थतः ॥

36

सत्यात् सञ्जायते लोकः सत्ये तिष्ठति चान्तरे ।

लयं प्राप्नोति सत्ये च तस्मात्सत्यं विशिष्यते ॥

37

सत्यमेव स्वरूपं ते ममापि सुरसत्तम ।

को भवानिति संप्रश्नो जायते ह्यविवेकतः ॥

38

सत्यमेव हि सर्वत्र यः पश्येत् स हि बुद्धिमान् ।

सत्यदर्शी समः शान्तः प्राप्नोति परमं सुखम् ॥

39

तस्मादसत्यं सन्त्यज्य सत्ये तिष्ठेत् दृढव्रतः ।

असत्यं दुःखमूलं हि सत्यं हि सुखकारणम् ॥

40

ये वदन्ति जनाः सत्यं सत्यं नैव विदन्ति ते ।

ज्ञात्वा सत्यस्वरूपं तु मौनमेव विशिष्यते ॥

41

श्रीसद्गुरुरुवाच

इत्युक्त्वोपरतं देवं विलोक्य भगवान् हरिः ।

उवाच परमं सत्यं प्रसन्नवदनाम्बुजः ॥

42

श्रीभगवानुवाच

भक्त्या प्रसन्नोऽस्मि सत्यव्रत महामुने ।

त्वमेव सत्यनिष्ठोऽसि सत्यमेव परं तपः ॥

43

तव नाम्नैव लोकेऽस्मिन् प्रख्यातिं प्राप्नुयाद् गिरिः ।

अस्मिन् सत्यगिरौ नित्यं वसामि न हि संशयः ॥

44

सत्यधर्मफलं चापि ददाम्यत्र कलौ नृणाम् ।

पापं विनाशयाम्येवं साक्ष्ये चानृतवादिनाम् ॥

45

नीतिस्थले ये वदन्ति साक्षिणोऽनृतभाषणम् ।

ते यान्ति नरकं घोरं सत्यसाक्षी भवाम्यहम् ॥

46

विज्ञाय स्वं महत्पापं पश्चात्तापेन संयुताः ।

ये भजन्त्यत्र मां तेषां पापं तन्नाशयाम्यहम् ॥

47

श्रीसद्गुरुरुवाच

एवमुक्त्वा जगन्नाथः सत्यनारायणः प्रभुः ।

कुरुते तत्र सान्निध्यं पुण्ये सत्यगिरौ सदा ॥

48

सत्यक्षेत्रमिदं पुण्यं ये पश्यन्ति नराः कलौ ।

सत्यनारायणं चात्र तेषां पापं न विद्यते ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे सत्यगिरिमाहात्म्यम् नाम षष्ठोऽध्यायः ॥
Ch.05 Pañcama Bhāge Ch.07