Verses

गोष्ठीपुरमाहात्म्यम् Goṣṭhī Pura Māhātmyam

1

श्रीसद्गुरुरुवाच

हिरण्यकशिपुर्नाम दैत्यः सुरभयङ्करः ।

ब्रह्मदत्तवरो मत्तः पीडयामास निर्जरान् ॥

2

देवकिन्नरगन्धर्वाः सिद्धा विद्याधरा नराः ।

किंपुरुषाश्च गरुडाः पन्नगाः पितरस्तथा ॥

3

सर्वे जनाश्च सङ्गम्य हिरण्यकशिपोर्वधम् ।

कर्तुकामाः परां चिन्तां चक्रुरस्मिन् पुरे पुरा ।

तस्माद्गोष्ठीपुरं नाम प्रथितं हि धरातले ॥

4

अत्र नारायणो देवः सौम्यरूपेण राजते ।

शरण्यः सर्वलोकानामार्तानामभयं ददौ ॥

5

प्रह्लादभक्तरक्षार्थं हिरण्यकशिपोर्वधम् ।

अहं नृसिह्मरूपेण करिष्यामीति केशवः ॥

6

सर्वे देवाश्च सानन्दं स्वस्थानं प्रापुरादृताः ।

सौम्यनारायणेनैवं सरसस्मितभाषिणा ॥

7

चन्द्रवंशे पूर्वमासीन्महाराजः पुरूरवाः ।

धार्मिकः सत्यसन्धश्च महाबलपराक्रमः ॥

8

कदाचिदूर्वशीदेवी शापाद्भूमितलं गता ।

ददर्श नृपं महात्मानं पतिरूपेण कामिनी ॥

9

बस्तमेकं पणं कृत्वा विजहार नृपेण सा ।

तयैवं मोहितो राजा स्वं कृतार्थममन्यत ॥

10

ऊर्वशीमानय क्षिप्रमिति शक्रेण चोदितः ।

देवः कश्चिदजं रात्रौ जहार रहसि स्थितः ॥

11

चुक्रोश सहसा देवी राजा तूर्णं दधाव च ।

गलितं वसनं तस्य संभ्रमेण प्रधावतः ।

सहसाऽन्तर्दधे देवी राजोन्मत्तो बभूव ह ॥

12

ऊर्वशीमप्सरःश्रेष्ठां चिन्तयन् विलपन् रुदन् ।

चचार परमोन्मत्तो भुवने स तु भूपतिः ॥

13

स एकदा कुरुक्षेत्रे सखीभिः सहितां प्रियाम् ।

क्रीडन्तीमूर्वशीं वीक्ष्य जगौ राजा पुरूरवाः ॥

14

राजोवाच

अहो जाये तिष्ठ तिष्ठ नाथं मां किमुपेक्षसे ।

आगतोऽहं त्वया रन्तुमपराधं क्षमस्व मे ॥

15

कामाग्निना दह्यमाने करुणां कुरु भामिनि ।

अधरामृतदानेन मामुज्जीवय सुन्दरि ॥

16

इमे वृका भक्षयन्ति चरन्तं मां महावने ।

इतस्ततश्चरन्तं मामालिङ्ग्य त्वं प्रशान्तय ॥

17

ऊर्वश्युवाच

सालावृकाणां स्त्रीणां च हृदयं छलदूषितम् ।

चञ्चलं निर्घृणमपि को विश्रम्भेत भूपते ॥

18

इमे वृका महावीर किं करिष्यन्ति दुर्बलाः ।

वयं स्त्रियो महाक्रूरा वञ्चका हि वृकादपि ॥

19

त्यक्त्वा विश्वासमस्मासु समाधाय मनो नृप ।

प्रशान्तः स्वं पुरं गच्छ धर्मं पालय शाश्वतम् ॥

20

यदि वाञ्छसि मे सङ्गं त्रयीं विद्यामुपाश्रितः ।

यज्ञेश्वरं याजयित्वा मां प्राप्स्यसि न संशयः ॥

21

श्रीसद्गुरुरुवाच

ऊर्वश्यैवं निगदितो महाराजः पुरूरवाः ।

यज्ञेश्वरप्रसादेन दिवं प्राप च कामुकः ॥

22

तत्रोर्वशीं समालिङ्ग्य सुखं प्राप चिरं नृपः ।

क्षीणे पुण्ये पुनर्लोकमवाप परमातुरः ॥

23

यदृच्छया ददर्शासौ कदम्बमुनिमागतम् ।

न्यवेदयन्निजं दुःखं सान्त्वयामास तं मुनिः ॥

24

कदम्ब उवाच

राजन् दुःखं विमुञ्च त्वं केशवं चिन्तयादरात् ।

विष्णुध्यानं विना नृणां दुःखं नैव विनश्यति ॥

25

कर्मसंपादिता लोका नश्वरा न हि संशयः ।

न कर्मणा न प्रजया प्राप्यते परमं पदम् ॥

26

बहुकल्पसहस्राणि भुक्त्वापि स्त्रीसुखं नृप ।

न जायते हि वैराग्यं विना सत्सङ्गमं बत ॥

27

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

28

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ।

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥

29

एवं विचार्य राजेन्द्र विवेकेन पुनः पुनः ।

संप्राप्य दृढवैराग्यं मुमुक्षुर्भव सादरम् ॥

30

गोष्ठीपुरं महाक्षेत्रं गत्वा तत्र वसन् द्विजैः ।

आराधय जगन्नाथं सौम्यनारायणं प्रभुम् ॥

31

शीघ्रं त्वं तत्प्रसादेन चित्तशुद्धिमवाप्य च ।

भक्तिं ज्ञानं च वैराग्यं लब्ध्वा मोक्षमवाप्स्यसि ॥

32

श्रीसद्गुरुरुवाच

कदम्बमुनिना श्लक्ष्णं बोधितस्तु पुरूरवाः ।

पुनर्गोष्ठीपुरं गत्वा ददर्श हरिमीश्वरम् ॥

33

निर्माय नगरं तत्र शुभानि भवनानि च ।

तत्र श्रीवैष्णवान् विप्रान् स्थापयामास वैदिकान् ॥

34

तैः समं श्रद्धया राजा विधिना वैदिकेन सः ।

पूजयन्नच्युतं भक्त्या प्रेमपूर्वं दिने दिने ॥

35

उवास तस्मिन्नगरे सर्ववैष्णवमानितः ।

भार्यापुत्रादिसहितो महाभाग्यवतां वरः ॥

36

अवाप्य परमं सौख्यं बुद्धिमोहविवर्जितः ।

अन्ते विष्णुपदं प्राप महाराजः पुरूरवाः ॥

37

अस्मिन् क्षेत्रे निवसतां भजतां नृहरिं प्रभुम् ।

उन्मादरोगपीडा तु विनश्यति न संशयः ॥

38

विमुक्तोन्मादरोगस्तु यथा राजा पुरूरवाः ।

आप्नोति परमं सौख्यं सौम्यविष्णोर्हि दर्शनात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे गोष्ठीपुरमाहात्म्यं नाम पञ्चमोऽध्यायः ॥
Ch.04 Pañcama Bhāge Ch.06