Verses

नूपुरगङ्गामाहात्म्यम् Nūpuragaṅgā Māhātmyam

1

श्रीसद्गुरुरुवाच

मधुरायां पूर्वमासीद्भूपतिर्मलयध्वजः ।

पाण्ड्यदेशे वसन् राजा भुवनं पर्यपालयत् ॥

2

कृत्वा दिग्विजयं राजा ध्वजं स्वं मलयाचले ।

स्थापयामास धर्मात्मा तस्माद्धि मलयध्वजः ॥

3

तस्य बाहुं समाश्रित्य राजानो धर्मवत्सलाः ।

सुखमूषुः स्वराज्ये ते शत्रुभीतिविवर्जिताः ॥

4

सर्वे जना राजभक्त्या तत्रासन् धर्मवत्सलाः ।

तस्माद्दैवानुकूल्येन कालवर्षी च वारिदः ॥

5

उत्पातान्यरिष्टानि भूकम्पादिभयानि च ।

क्वचिन्न सन्ति धर्मिष्ठे भूपाले मलयध्वजे ॥

6

वर्णाश्रमकुलाचारमन्योन्यप्रेमतत्पराः ।

चक्रुर्जनाः श्रद्धयैव स्वार्थलेशविवर्जिताः ॥

7

आकाशगं विमानं स्वमारुह्य स दिने दिने ।

गङ्गास्नानं करोति स्म तस्यैतद्व्रतमुत्तमम् ॥

8

विष्णुपादसमुद्भूता गङ्गा त्रिपथगामिनी ।

धर्मद्रवेति विख्याता सर्वपापप्रणाशिनी ॥

9

कमण्डलुजलं धातुर्विष्णुपादोदकं शुभम् ।

शिवाभिषेकतीर्थं तत्पवित्रं जाह्नवीजलम् ॥

10

आकाशमार्गतो गच्छन् कदाचिन्मलयध्वजः ।

निजं विमानं स्तब्धं तद्विलोक्य विषसाद ह ॥

11

विमानादवरुह्यैष वृषभाचलमागतः ।

कथं कुर्यां स्नानमिति चिन्ताग्रस्तो बभूव सः ॥

12

तदा तत्रागतः कश्चिद्व्याधः श्यामलसुन्दरः ।

उवाच मधुरं वाक्यं चापबाणधरो युवा ॥

13

व्याध उवाच

अत्रास्ति पुण्यं सलिलं संभूतं चाद्रिकन्दरात् ।

गङ्गोदकनिभं दिव्यं दर्शयामि मयाऽऽव्रज ॥

14

राजोवाच

तथास्तु दर्शय त्वं च स्नानकालोऽतिवर्तते ।

गङ्गायाः स्मरणं कुर्वन् तस्मिन् स्नास्यामि सत्वरम् ॥

15

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥

16

श्रीसद्गुरुरुवाच

इत्युक्तो व्याधराजस्तु पाण्ड्यराजेन सत्वरम् ।

अद्रिमारुह्य सानन्दं ययौ तूर्णं जलं प्रति ॥

17

तेनैव सार्धं राजापि प्रययौ मलयध्वजः ।

अन्तर्दधे निषादस्तु शैलस्य शिखरं गतः ॥

18

गच्छतः पुरतस्तस्य शुश्रुवे नूपुरध्वनिः ।

तमालम्ब्य ययौ राजा गङ्गास्नानकुतूहलः ॥

19

ददर्श तत्र गोविन्दं साक्षात्पाण्ड्यनराधिपः ।

शङ्खचक्रधरं देवं शार्ङ्गखड्गगदाधरम् ॥

20

परमस्वामिनं विष्णुं लक्ष्मीभूमिसमन्वितम् ।

प्रसन्नवदनाम्भोजं श्रीमत्कौस्तुभकन्धरम् ॥

21

श्रीनिवासं कृपासिन्धुं श्रीवत्साङ्कितवक्षसम् ।

दिव्यपीताम्बरधरं दीव्यत्कनकभूषणम् ॥

22

दामोदरं देवदेवं दिव्यमङ्गलविग्रहम् ।

तस्यैव चरणाम्भोजनूपुरस्पर्शपावनम् ॥

23

ददर्श राजा सलिलं पावनानां च पावनम्।

बद्धाञ्जलिपुटो राजा बाष्पपूरितलोचनः ।

तुष्टाव विष्णुं वरदं वृषभाचलनायकम् ॥

24

राजोवाच

यस्यैव पादकमले मकरन्दभूता ।

भागीरथी सगिरिशं भुवनं पुनाति।

तस्यैव ते परममङ्गलदर्शनेन ।

धन्योऽस्मि पापकलुषोऽपि पवित्रितोऽस्मि ॥

25

त्वन्नामकीर्तनरसेन पुनन्ति शुद्धाः

श्रीवैष्णवा जगदिदं निजदर्शनेन ।

तेषां हि दर्शनमिदं परमं पवित्रं

प्रक्षालनं हि महतामपि पातकानाम् ॥

26

तस्मात्त्वदीयजनसङ्गम एव नूनं

संसारिणोऽपि मम जन्मनि जन्मनि स्यात् ।

यत्सङ्गमे तव कथामृतबिन्दुपानात्

सद्यो विनश्यति भवे विविधं च दुःखम् ॥

27

गोविन्द माधव हरे मधुकैटभारे

नारायणेति भजताममलाशयानाम् ।

मध्ये सतामिह सदैव विहर्तुमिच्छंस्त्यक्त्वा

परं पदमगा वृषभाद्रिशृङ्गम् ॥

28

अभ्यासयोगविजितेन्द्रियमौनिवर्य-

ध्येयोऽपि भक्तिसुलभोऽसि वनेचराणाम् ।

अर्चावतारसुमुखः श्रितवत्सलस्त्वमभ्यर्थितानि

च ददासि वृषाचलेश ॥

29

जिह्वा करोतु सततं तव नामगानं

कर्णः शृणोतु चरितं तव पद्मनाभ ।

दृष्टिर्विलोकयतु ते मुखमेव नित्यं

चित्तं सदा भवतु ते चरणाब्जलग्नम् ॥

30

त्वत्पादपद्यविमुखान् भगवन्मुनींश्च

माया विजित्य विनिपातयतीह लोके ।

तस्मात्तवैव करुणामवलम्ब्य नूनं

मायां जयन्ति च भजन्ति परं पदं ते ॥

31

योगेन नैव तपसा न च विद्यया च

त्यागेन वापि विहितैर्विविधैश्च यज्ञैः ।

साध्योऽसि हि त्वममलाशयभक्तबृन्द-

प्रेमैकभावरसिकोऽसि मृदुस्वभावः ॥

32

तस्मादहं विगतसंशयलेश एव

त्वत्पादसेवनमलं ननु कामयामि ।

न प्रार्थये त्वयि मुकुन्द महेन्द्ररुद्र-

ब्रह्मादिदेवविषयं किमुतान्यलोकम् ॥

33

श्रीसद्गुरुरुवाच

एवं स्तुतो जगन्नाथः कृपया भक्तवत्सलः ।

मन्दस्मितमुखाम्भोजो मधुरं प्राह माधवः ॥

34

श्रीभगवानुवाच

त्वं राजन् मम भक्तोऽसि प्रसन्नोऽस्मि तवाग्रतः ।

भक्तानां सुलभोऽस्म्येवं सुराणामपि दुर्लभः ॥

35

मत्पादनूपुरस्पर्शपवित्रां च नदीमिमाम् ।

लोके नूपुरगङ्गेति ख्यातां जानीहि पार्थिव ॥

36

त्वं नित्यमस्याः सलिले स्नात्वा पूजय मां नृप ।

गङ्गायात्राश्रमेणालं गङ्गाया जनकोऽस्म्यहम् ॥

37

स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।

जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥

38

तस्मात्त्वं वैष्णवैः सार्धं नित्यमत्र समागतः ।

मां पूजय जगन्नाथं नामकीर्तनतत्परः ॥

39

भक्तानां कामितं सर्वं ददामि कृपया कलौ ।

सदाऽहं सुप्रसन्नोऽस्मि पुण्येऽस्मिन् वृषभाचले ॥

40

श्रीसद्गुरुरुवाच

इत्युक्तः श्रीनिवासेन भूपतिर्मलयध्वजः ।

निर्माय मन्दिरं तत्र प्रतिष्ठाप्य च केशवम् ॥

41

नित्यमाराधयामास परमस्वामिनं प्रभुम् ।

सार्धं भक्तजनैः प्रेम्णा तत्कैङ्कर्यपरायणः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे नूपुरगङ्गामाहात्म्यम् नाम तृतीयोऽध्यायः ॥
Ch.02 Pañcama Bhāge Ch.04