Verses

श्रीवृषभाचलमाहात्म्यम् Śrī Vṛṣabhācala Māhātmyam

1

श्रीसद्गुरुरुवाच

उत्तरे मधुरायास्तु विद्यते वृषभाचलः ।

तस्मिंश्चोरकुलस्यापि भगवानिष्टदैवतम् ॥

2

वर्तते सुन्दरो विष्णुश्चोरैरेव समाश्रितः ।

ददाति निजभक्तानां कृपया वाञ्छितं वरम् ॥

3

कृतमालाजले मग्नो मण्डूकस्तु महामुनिः ।

तपश्चकार सुदृढं विष्णुदर्शनलालसः ॥

4

कदाचिद्धयमारूढो मृगयाकेलितत्परः ।

सुन्दरो युवराजस्तु कश्चित्कमललोचनः ॥

5

कञ्चुकोष्णीषसंयुक्तः कनकाभरणाञ्चितः ।

पिपासुः कृतमालायामाययौ सलिलान्तिकम् ॥

6

तं दृष्ट्वा युवराजं तु तपसा विरतो मुनिः ।

कस्त्वं बालेति पप्रच्छ प्रेम्णा सौन्दर्यमोहितः ॥

7

तदैव युवराजोऽपि सस्मितं प्रियभाषणः ।

अवोचन्मधुरं वाक्यं प्राञ्जलिर्मुनिपुङ्गवम् ॥

8

श्रीभगवानुवाच

चोरराजोऽस्मि भगवन् वसामि वृषभाचले ।

नाम्ना सुन्दरबाहुश्च मृगयार्थमिहागमम् ॥

9

मण्डूकवज्जले मग्नः किमर्थं कुरुषे तपः ।

यदृच्छयागतोऽहं तु धन्योऽस्मि तव दर्शनात् ॥

10

मण्डूक उवाच

जानामि तव माहात्म्यं तवैव कृपया प्रभो ।

त्वमेव लोकनाथोऽसि देवो विष्णुः सनातनः ॥

11

स्वरूपं दर्शय स्वामिन् किमर्थं मां परीक्षसे ।

दासोऽस्मि तपसा श्रान्तो मुमुक्षुस्त्वां भजाम्यहम् ॥

12

श्रीसद्गुरुरुवाच

संप्रार्थितो विष्णुर्मण्डूकेन महात्मना ।

सद्य एव कृपासिन्धुः प्रददौ निजदर्शनम् ॥

13

शङ्खचक्रधरं देवं मेघश्यामलविग्रहम् ।

श्रीवत्सकौस्तुभधरं करेणाप्यभयप्रदम् ॥

14

पुण्डरीकविशालाक्षं पीताम्बरधरं हरिम् ।

दृष्ट्वा प्रसन्नहृदयस्तुष्टाव जगदीश्वरम् ॥

15

विष्णोः कटाक्षमात्रेण लब्ध्वा ज्ञानं सुनिर्मलम् ।

पुराणपुरुषं पूर्णं सर्वसाक्षिणमच्युतम् ॥

16

मण्डूक उवाच

अकारवाच्याय च विश्वसाक्षिणे ।

ब्रह्मस्वरूपाय जगद्विधात्रे

जाग्रद्विधानाय रजोगुणाय ।

नमोऽनिरुद्धाय सनातनाय ॥

17

उकारवाच्याय च तैजसाय

स्वप्नस्य दात्रे भुवनस्य गोत्रे ।

विष्णुस्वरूपाय च सत्त्वधाम्ने

प्रद्युम्नदेवाय नमो नमस्ते ॥

18

मकारवाच्याय सुषुप्तिदात्रे

प्राज्ञस्य जीवस्य तमोगुणाय ।

रुद्रस्वरूपाय नमो नमस्ते

सङ्कर्षणाय प्रलयस्य हेतवे ॥

19

ओंकाररूपाय च निर्गुणाय

नमस्तुरीयाय समाधिसाक्षिणे ।

स्वयंप्रकाशाय परात्मने च

श्रीवासुदेवाय नमो नमस्ते ॥

20

त्वामेकरूपं बहुरूपमेव-

मुपासते ब्रह्मविदो मुनीन्द्राः ।

ददासि तत्तत्फलमीप्सितं त्वा-

महं मुमुक्षुः शरणं प्रपद्ये ॥

21

श्रीसद्गुरुरुवाच

एवं विष्णुप्रसादेन ज्ञानं प्राप्य महामुनिः ।

कैवल्यमात्मनो ज्ञात्वा सद्यो मुक्तिमवाप सः ॥

22

भगवानपि गोविन्दो हयमारुह्य वै पुनः ।

अवाप वृषभाद्रिं तं लोकानुग्रहकाम्यया ॥

23

वृषभाद्रौ हरिं भक्त्या ये भजन्ति नराः कलौ ।

तेषामपि हरिर्मुक्तिं ददाति न हि संशयः ॥

24

तेनैव मुनिना लोके दर्शिता परमा श्रुतिः ।

माण्डूक्यमिति विख्याता निर्मलज्ञानदायिनी ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे श्रीवृषभाचलमाहात्म्यम् नाम अध्यायः ॥
Ch.01 Pañcama Bhāge Ch.03