Verses

दक्षिणमधुरामाहात्म्यम् Dakṣiṇamadhurā Māhātmyam

1

भागवता ऊचुः

पाण्ड्यदेशस्थितानां च क्षेत्राणां कमलापतेः ।

तीर्थानामपि माहात्म्यं वद सद्गुरुपुङ्गव ॥

2

त्वमेव सर्वं जानासि कृपयैव जगत्पतेः ।

वयं पिबामः सानन्दं तवैव वचनामृतम् ॥

3

श्रीसद्गुरुरुवाच

पुरा सत्यव्रतो नाम राजर्षिः पाण्ड्यभूपतिः ।

आसीद्धर्मपरो धीरो मधुरायां महाबलः ॥

4

मनुनीतिं समाश्रित्य मानवान् परिपालयन् ।

अवाप भुवने कीर्तिं स्वर्गेऽपि गुणवान् नृपः ॥

5

अपरे वयसि प्राप्ते त्यक्त्वा राज्यं महीपतिः ।

अभिषिच्य तनूजं स्वं तपोवनमुपाविशत् ॥

6

स नित्यं कृतमालायां स्नात्वा विष्णुमपूजयत् ।

दृढया श्रद्धया भक्त्या विरक्तो विजितेन्द्रियः ॥

7

कदाचित् कृतमालायां सन्ध्यावन्दनमाचरन् ।

अर्घ्यप्रदानकाले तु करे मत्स्यं ददर्श सः ॥

8

तत्याज मत्स्यं सहसा जले राजा जुगुप्सया ।

उवाच मत्स्यो राजानं व्यक्तं संस्कृतभाषया ॥

9

मत्स्य उवाच

रक्ष मां कृपया राजंस्त्वामेव शरणं गतम् ।

भक्षयन्ति हि मां मत्स्याः मत्स्या एव न संशयः ॥

10

श्रीसद्गुरुरुवाच

एवमस्त्विति राजापि तं मत्स्यं शरणागतम् ।

निधाय कलशे प्रेम्णा ररक्ष च निजाश्रमे ॥

11

जलपात्रे प्रवृद्धोऽपि मायामत्स्यो महीपतिम् ।

उवाच मधुरं वाक्यमन्यत् स्थानं च देहि मे ॥

12

राजापि कृपया मत्स्यं कूपे चापि न्यवेशयत् ।

तत्रापि वृद्धो राजानं ययाचेऽन्यत् पदं पुनः ॥

13

न्यवेशयत् पल्वले तं जलपूर्णे महीपतिः ।

अचिरेण प्रवृद्धस्तं स्थानमन्यत् ययाच सः ॥

14

शिष्यैश्च बहुभिः साकं मत्स्यमादाय भूपतिः ।

कृपया दक्षिणं सिन्धुं प्रापयामास सादरम् ॥

15

तदापि मत्स्यो मायावी प्रोवाच मधुरं वचः ।

बद्धाञ्जलिं भूपतिं तं विस्मितं प्राङ्मुखं स्थितम् ॥

16

मत्स्य उवाच

दोषो यद्यपि राजेन्द्र मयि त्वां शरणं गते ।

त्यागो नैव हि कर्तव्य एष धर्मः सनातनः ॥

17

समुद्रे मां पातयसि त्वामेव शरणं गतम् ।

मत्स्येभ्यो ज्ञातिघातिभ्यो बिभेमि नितरामहम् ॥

18

राजोवाच

को भवानिह संप्राप्य करोषि मम मोहनम् ।

त्वत्प्रभावं न जानामि भाषसे देवभाषया ॥

19

नूनं न प्राकृतो मत्स्यो मायामत्स्योऽसि ते नमः ।

त्वामेव माधवं वेद्मि प्रलये वेदरक्षकम् ॥

20

मत्स्य उवाच

सत्यं वदसि राजेन्द्र सत्यव्रत महामते ।

तव भक्त्या प्रहृष्टोऽहमागतोऽस्मि स्वयं हरिः ॥

21

मत्स्यरूपेण ते चित्तं मोहयन् लीलया मम ।

शरणागतरक्षायाः माहात्म्यं ते न्यवेदयम् ॥

22

पुरा प्रलयकाले तु दानवौ मधुकैटभौ ।

जहतुश्चतुरो वेदान् वेदगर्भमुखस्थितान् ॥

23

ब्रह्मा मां शरणं प्राप वेदरक्षणकाङ्क्षया ।

तदैव धृतवानेवं मत्स्यरूपमहं बृहत् ॥

24

जलं प्रविश्य प्रलये निहत्य मधुकैटभौ ।

आदाय वेदानखिलान् ब्रह्मणे प्रददामहम् ॥

25

आद्यं तदेव मे रूपं दर्शितं कृपया तव ।

भक्तोऽसि मम राजर्षे मद्दर्शनकृतादरः ॥

26

सप्तमेऽहनि राजर्षे प्राप्तेऽपि प्रलये पुनः ।

स्मर मां सर्वलोकेशं पालयामि पुनर्गतः ॥

27

श्रीसद्गुरुरुवाच

इत्युक्त्वान्तर्दधे मत्स्यः सद्य एव विमोहयन् ।

प्रतीचक्षे च तं कालं पुनर्दर्शनकाङ्क्षया ॥

28

पुनश्च प्रलये प्राप्ते सस्मार नृपतिर्हरिम् ।

सप्तर्षयश्च तत्रैव आजग्मुः प्रलयार्णवम् ॥

29

तदैव भगवान् विष्णुर्मत्स्यरूपेण चागतः ।

भुवमेव प्लवं कृत्वा शृङ्गाग्रेण समुद्धरन् ॥

30

निवेशयित्वा तस्मिंश्च राजानमृषिभिः सह ।

लीलया लोकनाथोऽयं चचार प्रलयोदके ॥

31

तदा संप्रार्थितो विष्णुर्मुनिभिश्च नृपेण सः ।

उवाच निजतत्त्वं च धर्मांश्चापि सनातनान् ॥

32

प्रशान्ते प्रलये भूयो विसृज्य नृपतिं मुनीन् ।

अन्तर्दधे जगन्नाथः स्वच्छन्दगतिरीश्वरः ॥

33

सत्यव्रतस्तु राजर्षिर्मधुरायां महामतिः ।

मत्स्यरूपं महाविष्णुं प्रतिष्ठाप्य यथाविधि ॥

34

पूजयामास भक्त्यैव कृष्णं सुन्दरविग्रहम् ।

शङ्खचक्रगदापाणिमनन्तासनसंस्थितम् ॥

35

श्रीभूमिदेवीसहितं शरण्यं च कृपानिधिम् ।

आह्वयन्तं स्वहस्तेन भक्तान् प्रेम्णा जनार्दनम् ॥

36

वैखानसैर्ब्राह्मणैस्तं प्रतिष्ठाप्य सुमन्दिरे ।

अर्चयामास भूपालो भक्तिपूर्वं यथाविधि ॥

37

स एव राजा धर्मात्मा विष्णुभक्तिमतां वरः ।

वैवस्वतमनुर्भूत्वा जगत्पालयति प्रभुः ॥

38

सत्यव्रतस्य चरितं महामत्स्यस्य शाङ्गिणः ।

मधुरायाश्च माहात्म्यं पठन्नायुष्यवान् भवेत् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे पञ्चमभागे दक्षिणमधुरामाहात्म्यम् नाम प्रथमोऽध्यायः ॥
Pañcama Bhāge Ch.02