Verses

फलश्रुति: Phala Śruti:

1

श्रीसद्गुरुरुवाच

श्रीरङ्गाख्यं महाक्षेत्रं यत्र सन्निहितो हरिः ।

ज्ञानिनां ज्ञानगम्यं तं पश्यन्त्यज्ञानिनोऽपि हि ॥

2

वैकुण्ठलोकमुत्सृज्य वासुदेवो जगत्पतिः ।

श्रीरङ्गक्षेत्रमासाद्य सान्निध्यं कुरुते सदा ॥

3

उद्धारणाय मूढानां भीमसंसारसागरात् ।

कावेरीमध्यमासाद्य शेते सर्वेश्वरो हरिः ॥

4

एकपार्श्वेन शयनं कुर्वन् सत्याग्रहं हरिः ।

उद्धर्तुकामः सर्वेषामत्र योगी विराजते ॥

5

तं विहाय कृपासिन्धुं शरणागतवत्सलम् ।

व्यर्थं संसारदुःखैर्हि क्लिश्यन्ते भुवि मानवाः ॥

6

अहो दुःखमहो दुःखमहो दुःखं कलौ नृणाम् ।

श्रीरङ्गविमुखानां तु संसारे भ्राम्यतामिह ॥

7

अहो सौख्यमहो सौख्यमहो सौख्यमहो नृणाम् ।

श्रीरङ्गमाश्रितानां तु नराणां भाग्यशालिनाम् ॥

8

अहो धैर्यमहो धैर्यमहो धैर्यमहो नृणाम् ।

पुरः स्थितेऽपि रङ्गेशे नाश्रयन्ति दुराशयाः ॥

9

अकस्मादपि रङ्गेशं दृष्ट्वा घोरे कलौ युगे ।

नूनं यमभयं नास्ति पापिनामपि वै नृणाम् ॥

10

देशान्तरगतो वापि द्वीपान्तरगतोऽपि वा ।

श्रीरङ्गाभिमुखो नित्यं प्रणिपत्य न सीदति ॥

11

रङ्गं रङ्गमिति ब्रूयाद्धेलयापि च लीलया ।

तस्य कालभयं नास्ति न पश्येन्नरकं तथा ॥

12

स्वर्गाच्च पारमेष्ठ्याच्च वैकुण्ठादपि वैष्णवाः ।

श्रीरङ्गवासो नियतं दुर्लभो न हि संशयः ॥

13

वैकुण्ठपार्षदा नूनं महोत्सवदिदृक्षया ।

श्रीरङ्गवासमिच्छन्ति हरिकीर्तनलोलुपाः ॥

14

देवाश्च पितरश्चापि सिद्धविद्याधरादयः ।

श्रीरङ्गवासमिच्छन्ति हरिदर्शनकौतुकात् ॥

15

श्रीरङ्गवासमात्रेण भवन्ति हरिपार्षदाः ।

रङ्गेशकृपया पूर्णास्तत्कैङ्कर्यपरायणाः ॥

16

आयान्ति प्रतियान्त्यत्र मनुष्या भाग्यशालिनः ।

सङ्कल्पाद्रङ्गनाथस्य नान्यथा स्वप्रयत्नतः ॥

17

श्रीरङ्गनाथकृपया पापिनोऽपि जना ननु ।

श्रीरङ्गवासं सुलभं प्राप्नुवन्ति न संशयः ॥

18

योगिनोऽपि महात्मानो मोहिता विष्णुमायया ।

इतस्ततः सञ्चरन्ति त्यक्त्वा श्रीरङ्गमुत्तमम् ॥

19

सदाचारपरो वापि दुराचारपरोऽपि वा ।

श्रीरङ्गनगरे वासं कुर्वन् भवति भाग्यवान् ॥

20

स्वर्णस्तेयं सुरापानं परस्त्रीसङ्गमं तथा ।

कर्तुं रङ्गं प्रविश्यापि नूनं भवति भाग्यवान् ॥

21

किं पुनर्ब्राह्मणाः पुण्या वैष्णवा वैदिकास्तथा ।

श्रीरङ्गवासं कुर्वन्ति पूजयन्ति च ये हरिम् ॥

22

अन्यक्षेत्रेषु सर्वेषु भ्रमन्तः क्लेशसंयुताः ।

अन्ते रङ्गमवाप्यैव प्रशान्तिं प्राप्नुवन्ति हि ॥

23

आयात शीघ्रमायात श्रीरङ्गनगरं जनाः ।

शेषपर्यङ्कशयनं विष्णुं पश्यत पश्यत ॥

24

अलं तीर्थैरलं क्षेत्रैरलं भूमिप्रदक्षिणैः ।

श्रीरङ्गनगरं गत्वा विष्णुं पश्यत मानवाः ॥

25

श्रीरङ्गसदृशं स्थानं नास्त्येव भुवनत्रये ।

रङ्गनाथसमो देवो नास्ति नास्ति हि नास्ति हि ॥

26

अहो भाग्यमहो भाग्यमहो भाग्यमहो नृणाम् ।

अयत्नेन कृपासिन्धुर्दृश्यते चर्मचक्षुषा ॥

27

योऽपि साक्षाद्रङ्गेशं प्रतिमां मन्यते हि यः ।

स मूढः पतितः पापी नरके पतति ध्रुवम् ॥

28

नेदं शिलामयं रूपं पञ्चलोहमयं न च ।

चिन्मयं रङ्गरूपं हि पश्यत ज्ञानचक्षुषा ॥

29

भक्तानामागतानां च कुशलं पृच्छति प्रभुः ।

वरं ददात्यभीष्टं च वरदो रङ्गनायकः ॥

30

ये वसन्ति मृगा गावः श्वानो वा सूकरास्तथा ।

श्रीरङ्गवीथ्यां ते धन्यास्ते मान्या विबुधैरपि ॥

31

ये वसन्ति शुकाः काकाः कुक्कुटाः कोकिलाः खगाः ।

श्रीरङ्गपुर्यां ते धन्यास्ते मान्या विबुधैरपि ॥

32

कोटिजन्मकृतैः पुण्यैः सुप्रीतो भगवान् हरिः ।

ददाति श्रीरङ्गवासं स्वच्छन्दं कृपया ध्रुवम् ॥

33

कुर्वन्तः सह्यजास्नानं कुर्वन्तो हरिदर्शनम् ।

वसन्ति भाग्यवन्तो हि श्रीरङ्गनगरे सदा ॥

34

वैकुण्ठमेव श्रीरङ्गं शाश्वतं परमं पदम् ।

स्थूलरूपेण लोकेऽस्मिन् दृश्यते न हि संशयः ॥

35

एतच्छ्रीरङ्गमाहात्म्यं ननु वाचामगोचरम् ।

मम वाक्शुद्धये किञ्चित् कीर्तितं तद्यथामति ॥

36

ब्रह्मणापि सरस्वत्या शेषेणापि महात्मना ।

आख्यातुं रङ्गमाहात्म्यं न शक्यं तदशेषतः ॥

37

पावनं पावनानाञ्च मङ्गलानाञ्च मङ्गलम् ।

इदं श्रीरङ्गमाहात्म्यं पठतां शृण्वतामपि ॥

38

आयुरारोग्यमैश्वर्यं पुत्रलाभं सुखं तथा ।

ददाति रङ्गमाहात्म्यं पठतां शृण्वतामपि ॥

39

तुलामासे वसन्नित्यं कावेर्यां स्नानमाचरन् ।

शृणुयाद्रङ्गमाहात्म्यं श्रीरङ्गे भक्तिमान्नरः ॥

40

श्रीरङ्गमाहात्म्यमिदं पवित्रं

पुण्यं महापापविनाशनं च ।

शृण्वन् मुकुन्दस्य कृपाप्रसादात्

वैकुण्ठमाप्नोति विमुक्तदुःखः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे फलश्रुतिर्नाम द्वात्रिंशोऽध्यायः ॥ ॥
Ch.31 Caturtha Bhāge