Verses

कावेर्याविर्भाव: Kāverī Āvirbhāva:

1

श्रीसद्गुरुरुवाच

एवं स्तुताऽऽयाता मुनिना कुम्भयोनिना ।

कुमारीव दधावाग्रे विहरन्त्यद्रिसानुषु ॥

2

मीननेत्री कूर्मपृष्ठा रत्नमौक्तिकभूषिता ।

तरङ्गमेखला चारुसरोजमुकुलस्तनी ॥

3

आवर्तनाभिरुचिरा फेनमण्डलहासिनी ।

कल्लोलमालिनी कान्ता कर्णानन्दकलस्वना ॥

4

सोपानपीठिकायुक्ता सुखदा वनिताकृतिः ।

अगस्त्यमनुधावन्ती ययौ सागरगामिनी ॥

5

ददृशुस्तां जनाः सर्वे जगदानन्दकारिणीम् ।

आगत्यागत्य सानन्दं ग्रामे ग्रामे पुरे पुरे ॥

6

दीपं च दर्शयामासुश्चक्रुः पुष्पार्चनं नराः ।

सिद्धगन्धर्वदेवाश्च तुष्टुवुर्भक्तिपूर्वकम् ॥

7

मध्येमार्गं हि कावेर्याः पुण्यं चन्द्रसरोवरम् ।

ददृशे तत्र तीरस्थं वासुदेवस्य मन्दिरम् ॥

8

चिन्तां प्रापुः सुराः सर्वे मुनयश्च तपोधनाः ।

अतिवेगप्रवाहेयं कावेरी किं करिष्यति ॥

9

आचन्द्रार्कमिदं नूनं पुण्यं चन्द्रसरोवरम् ।

वासुदेवप्रभावेन भविष्यति न संशयः ॥

10

इति चिन्ताकुले तत्र गीर्वाणमुनिमण्डले ।

कावेरी विनता तत्र प्रशान्तगमना बभौ ॥

11

विगाह्य भक्तिपूर्वं सा मध्ये चन्द्रसरोवरम् ।

तं प्रदक्षिणीकृत्य द्वेधा धारां विधाय ॥

12

तदा द्वीपमभूत्तत्र सुरम्यं सुखवर्धनम् ।

सुरर्षिगणसंसेव्यं वासुदेवप्रभावतः ॥

13

चन्द्रपुष्करिणीतीर्थमाहात्म्यं वीक्ष्य वै सुराः ।

कावेर्या विनयं चैव मुनयश्च ययुर्मुदम् ॥

14

ग्रामे ग्रामे प्रविश्यैव नगरे नगरे तथा ।

विहरन्ती ययौ देवी मज्जयन्ती बहून् जनान् ॥

15

पातयन्ती महावृक्षान् कर्षन्ती मन्दिराणि च ।

मृतान् मनुजांस्तूर्णं मज्जयन्ती च लीलया ॥

16

इतस्ततः प्रस्रवन्ती महावेगेन सह्यजा ।

ययौ प्रमत्ता प्रमदा सिन्धुसङ्गमकाङ्क्षिणी ॥

17

स्वच्छन्दगामिनीमेवं विलोक्य गिरिकन्यकाम् ।

कवेरः चोलराजेन्द्रो निर्ममे सेतुमुत्तमम् ॥

18

उभयोस्तटयोरेवं मर्यादां निर्ममे नृपः ।

सोपानपङ्क्तिकाश्चापि बहुधा स्नानमण्डपान् ॥

19

ग्रामे ग्रामे च केदारान् निर्मायोपनदीस्तथा ।

कुल्याश्च जलपूर्णाश्च कर्षकेभ्यो ददौ नृपः ॥

20

तदाप्रभृति कावेरी कवेरतनयां विदुः ।

सह्यजां सर्वपापघ्नीं सर्वमङ्गलदायिनीम् ॥

21

सस्यसंवर्धिनी लोके शाल्यन्नरसदायिनी ।

साऽऽशु सरसं गत्वा लेभे सिन्धुसमागमम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे कावेर्याविर्भावः नाम एकविंशोऽध्यायः ॥
Ch.20 Caturtha Bhāge Ch.22