Verses

पूजाफलम् Pūjā Phalam

1

श्रीभगवानुवाच

प्रविशन्नालयं मह्यमर्चनार्थं सुभक्तिमान् ।

न भूयः प्रविशेन्मातुः कुक्षिकारागृहं सुधीः ॥

2

इति निर्वाणनिर्विघ्नमार्गध्यानजुषां नृणाम् ।

एवं मया सनाथानां मुक्तिरक्लेशकारिणी ॥

3

आगच्छ नरसिंहेत्यावाह्याक्षतपुष्पकैः ।

एतावतापि मद्भक्तः सर्वपापैः प्रमुच्यते ॥

4

निर्माल्यमपनीयाथ तोयेन स्नाप्य सादरम् ।

मद्भक्तोऽभीष्टमूर्ति मां सर्वपापैः प्रमुच्यते ॥

5

पञ्चामृतेन स्नपनं ये कुर्वन्ति सदा नराः ।

शालग्रामशिलायां च न ते संसारिणो नराः ॥

6

स्नाप्य दध्ना सकृद्यस्तु निर्मलप्रियदर्शनः ।

मम लोकमवाप्नोति पूज्यमानः सुरोत्तमैः ॥

7

स्नाप्य गव्येन पयसा देवं नारायणं हि माम् ।

सर्वपापविनिर्मुक्तो मम लोके महीयते ॥

8

घृतेन स्नपनं यस्तु स्नानकाले विशेषतः ।

अभीष्टमूर्तेः कुर्यान्मे शङ्खभेरिनिनादितम् ॥

9

पापकञ्चुकमुन्मुच्य यथा जीर्णामहित्वचम् ।

दिव्यं विमानमास्थाय मम लोके महीयते ॥

10

यः करोति ममैवार्चां मधुना स्नपनं नरः ।

अग्निलोके स मोदित्वा पुनर्मम पुरे वसेत् ॥

11

यश्च गोधूमकैश्चूर्णैरुद्वर्त्योष्णेन वारिणा ।

प्रक्षालयेन्ममैवार्चा वारुणं लोकमाप्नुयात् ॥

12

नारायणं मां संस्नाप्य कर्पूरागरुवारिणा ।

इन्द्रलोके स मोदित्वा पश्चान्मम पुरे वसेत् ॥

13

पुण्योदकेन मे मूर्ति स्नाप्य भक्त्या चतुर्मुख ।

सावित्रं लोकमास्थाय मम लोके महीयते ॥

14

वस्त्राभ्यामर्चको भक्त्या परिधाप्य तनुं मम ।

सोमलोके रमित्वाथ मम लोके महीयते ॥

15

सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः ।

मुकुटाभरणाद्यैश्च यो भक्त्या भूषयेद्धि माम् ॥

16

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।

इन्द्रलोके वसेद्धीमान् यावदिन्द्राश्चतुर्दश ॥

17

चन्दनागरुश्रीखण्डकुङ्कुमैर्मम विग्रहम् ।

आलिप्य भक्त्या सानन्दं कल्पकोटिं वसेद्दिवि ॥

18

मालां कृत्वा सुगन्धैश्च पुष्पैर्नित्यं समर्पयन् ।

दिव्यं विमानमास्थाय मम लोके महीयते ॥

19

मम घ्राणे धूपराशिं निवेद्य श्रद्धया नरः ।

चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी ॥

20

घृतेन वाथ तैलेन दीपं प्रज्वालयेन्नरः ।

मह्यं तु विधिवद्भक्त्या मम लोकं स गच्छति ॥

21

पञ्चामृतं च नैवेद्यं पायसं कृसरं तथा ।

नानाविधानि भक्ष्याणि भोज्यानि श्रद्धया नरः ॥

22

निवेदयित्वा मे भक्त्या श्रद्धया मम सन्निधौ ।

महाप्रसादमश्नीयात् सर्वरोगनिवृत्तये ॥

23

मम पादोदकं पीत्वा पुनर्जन्म न विद्यते ।

मत्पादतुलसीं धृत्वा मम सायुज्यमाप्नुयात् ॥

24

नीराजनं च मे कृत्वा सर्वपापविनाशनम् ।

दृष्ट्वा प्रसन्नं मे वक्त्रं सर्वमङ्गलमाप्नुयात् ॥

25

यानि कानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

26

सकृत्प्रणम्य मां नूनमश्वमेधफलं लभेत् ।

अश्वमेधात्पुनर्जन्म मत्प्रणामात् परं पदम् ॥

27

निर्माय मन्दिरं नव्यं यः प्रतिष्ठापयेद्धि माम् ।

सार्वभौमं प्रदास्यामि पदं तस्मै न संशयः ॥

28

जीर्णमुद्धारयेद्यो वै श्रद्धया मम मन्दिरम् ।

पारमेष्ठ्यं पदं तस्मै दास्यामि न हि संशयः ॥

29

नव्यमन्दिरनिर्माणाज्जीर्णस्योद्धारणं वरम् ।

जीर्णोद्धारणमात्रेण संसारादुद्धराम्यहम् ॥

30

क्षेत्रं च नित्यपूजार्थमुत्सवार्थं च यो नरः ।

ददाति श्रद्धया मह्यं स नूनं भूपतिर्भवेत् ॥

31

धान्यं तथा तण्डुलांश्च गुडसर्पिघृतं पयः ।

नैवेद्यार्थं च मे दत्वा न हि दारिद्र्यमश्नुते ॥

32

तथा पुष्पवनं कृत्वा पुष्पमालां विधाय च ।

यशः प्राप्नोति विपुलमाचन्द्रार्कं जगत्त्रये ॥

33

गा विसृज्य च गोष्ठे मे तरुणीश्च पयस्विनीः ।

तरन्ति ते वैतरणीं यमलोकपथिस्थिताम् ॥

34

भूषणानि समन्त्रमनर्ध्याणि चतुर्मुख ।

कुबेरसंपदं नूनं प्राप्नुवन्ति न संशयः ॥

35

सुगन्धिचन्दनं रम्यं कर्पूरं केसरं तथा ।

यशस्वी भवति क्षिप्रं प्राधान्यं निजबन्धुषु ॥

36

धूपमाघ्रापयन्नित्यं भक्त्या मां पद्मसंभव ।

धूतपापः पुण्यलोकं स गच्छति न संशयः ॥

37

दीपमुज्वाल्य मे नित्यं मन्दिरे भक्तिपूर्वकम् ।

सर्वं मङ्गलमाप्नोति सन्तानं भाग्यमेव च ॥

38

क्षीराभिषेकं मे कृत्वा सर्वरोगैर्विमुच्यते ।

प्राप्नोति भक्तिमान्नूनं सौमनस्यं च बन्धुषु ॥

39

मधुस्नानं कारयित्वा मधुकण्ठो भवेद्ध्रुवम् ।

तस्य गानेन निखिलं मोहितं स्याज्जगद्ध्रुवम् ॥

40

ध्वजारोपणमात्रेण सर्वत्र विजयी भवेत् ।

न तस्य शत्रुर्भुवने श्रद्धया मम मन्दिरे ॥

41

मां दृष्ट्वा गरुडारूढं पुनर्जन्म न विद्यते ।

मयि लब्ध्वा परां भक्तिं मम सालोक्यमाप्नुयात् ॥

42

ममैव श्रद्धाभक्त्या कृत्वा वैवाहिकोत्सवम् ।

विवाहं शीघ्रमाप्नोति कन्या माणवकोऽपि वा ॥

43

रथोत्सवे तु मां दृष्ट्वा सर्वपापैर्विमुच्यते ।

देहावसाने मोक्षं च प्राप्नोति न हि संशयः ॥

44

ब्रह्मोत्सवं तथा कुर्यान्मम भक्त्या च यो नरः ।

स तु ब्रह्मा भवेन्नूनं पारमेष्ठ्ये हि मोदते ॥

45

एवमवतारस्तु गृहीतः पद्मसंभव ।

नृणामनुग्रहं कर्तुं केवलं कृपया मया ॥

46

एवमर्चावतारे मामाश्रित्य भुवि मानवः ।

यद्यद्वाञ्छति तत्सर्वमवाप्नोति न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे पूजाफलम् नाम अध्यायः ॥
Ch.09 Caturtha Bhāge Ch.11