Verses

श्रीरङ्गक्षेत्रमाहात्म्यम् Śrī Raṅga Kṣetra Māhātmyam

1

श्रीमते सर्वजीवानां शरण्याय कृपालवे ।

नारायणाय हरये श्रीरङ्गब्रह्मणे नमः ॥

2

भागवता ऊचुः

भगवन् सद्गुरुश्रेष्ठ निर्व्याजकरुणानिधे ।

संसारसागरेऽगाधे भवान्नः पारदर्शकः ॥

3

भवतो वदनाम्भोजान्निःसृतं गुरुपुङ्गव ।

हरिलीलामृतं पीत्वा प्रहृष्टाः स्मो वयं प्रभो ॥

4

दिव्यदेशेषु भगवानर्चारूपेण माधवः ।

सन्निधत्ते कृपासिन्धुर्नराणां दृष्टिगोचरः ॥

5

नोचेत्कथं दर्शनं स्यान्नॄणामज्ञानिनामपि ।

अधोक्षजस्य देवस्य लोकेऽस्मिन् देशिकोत्तम ॥

6

ब्रह्मादिदेववर्याणां मुनीनां योगिनामपि ।

दुर्लभं श्रीधरं विष्णुं साक्षात्पश्यन्ति वै नराः ॥

7

नामानि कीर्तयन्त्येवं नृत्यन्ति किल वैष्णवाः ।

श्रीपतेरालये नित्यं कुर्वन्ति च महोत्सवान् ॥

8

अर्चावतारकैङ्कर्यपरमानन्दतुन्दिलाः ।

उपेक्षन्ते मोक्षमपि विरक्ता वैष्णवोत्तमाः ॥

9

अर्चावताररूपेण भगवानपि केशवः ।

रमते निजभक्तैश्च क्रीडां नानाविधां चरन् ॥

10

नैमिषे पुष्करे चैवं तथा बदरिकाश्रमे ।

शालग्रामे वेङ्कटाद्रौ सह्याद्रावप्यहोबिले ॥

11

पुण्डरीके जगन्नाथे श्रीमुष्णे चम्पके वने ।

कुम्भकोणे नागपुर्यां मधुरायां वृषाचले ॥

12

तोताद्रौ धन्विपुर्यां च महेन्द्राख्ये महीधरे ।

सेतौ च दर्भशयने पुण्येऽनन्तवने तथा ॥

13

एवं बहुसहस्रेषु पुण्यक्षेत्रेषु माधवः ।

अर्चावताररूपेण सन्निधत्ते कृपानिधिः ॥

14

तेषु क्षेत्रेषु किं श्रेष्ठं तेषु तीर्थेषु किं वरम् ।

अस्माकं श्रोतुकामानां वद देशिकपुङ्गव ॥

15

कस्मिन् क्षेत्रे कृपासिन्धुः सुप्रसन्नो वरप्रदः ।

सन्निधत्ते सदा विष्णुर्वद त्वं गुरुपुङ्गव ॥

16

विष्णोरपि प्रीतिकरं वैकुण्ठादपि सन्ततम् ।

किं क्षेत्रं तादृशं लोके वद त्वं वैष्णवोत्तम ॥

17

अर्चावताररूपेषु कस्य प्राधान्यमुच्यते ।

विष्णोरनन्तरूपस्य वद वैष्णवपुङ्गव ॥

18

तीर्थानि पुष्करादीनि सन्ति लोके सहस्रशः ।

तेषु मुख्यं तीर्थवर्यं वद सद्गुरुपुङ्गव ॥

19

वासयोग्यं महर्षीणां वैष्णवानां महात्मनाम् ।

विष्णुसान्निध्यसंयुक्तं वद क्षेत्रं गुरूत्तम ॥

20

वैष्णवा यत्र मोदन्ते हरिकीर्तनतत्पराः ।

तमेव दिव्यदेशं नो वद देशिकपुङ्गव ॥

21

श्रीसद्गुरुरुवाच

साधु पृष्टं महाभागा धन्योऽस्मि भुवनत्रये ।

यदहं श्रद्धया पृष्टः कथाश्रवणकौतुकात् ॥

22

कथा विष्णोर्नराणां हि सर्वपापविनाशिनी ।

कीर्तनाच्छ्रवणान्नित्यं पठनाच्च न संशयः ॥

23

निराकारो निर्गुणोऽपि निरीहो भगवान् स्वयम् ।

विधत्ते विविधां लीलां भजनार्थं हि केवलम् ॥

24

भजन्ति ये भक्तबन्धुं भजनानन्दवर्धनम् ।

त एव भाग्यवन्तो हि तदीया भुवनत्रये ॥

25

ब्रह्मादिकीटपर्यन्तं लब्ध्वा योनिसहस्रकम् ।

जननं मरणं चापि लब्ध्वा लोके पुनः पुनः ॥

26

अस्मिन् संसारचक्रे तु जीवा भ्राम्यन्ति कोटिशः ।

यदृच्छया कदाप्येवं नृजन्म लभते जीवः ॥

27

दुर्लभं मानुषं जन्म लब्ध्वापि भुवि यो नरः ।

न करोति हरौ भक्तिं स एव कृपणाधमः ॥

28

नृणां भक्तिप्रकाशाय दिव्यदेशेषु केशवः ।

सन्निधत्ते कृपासिन्धुस्ततो भक्तिं समाचरेत् ॥

29

नित्योत्सवं तथा कुर्यात्कीर्तनं नर्तनं तथा ।

विष्णोर्नानाविधां सेवामाचरेच्च दिने दिने ॥

30

पुण्यक्षेत्रेषु सर्वेषु दिव्यदेशः परः स्मृतः ।

दिव्यदेशेषु सर्वेषु श्रीरङ्गं श्रेष्ठमुच्यते ॥

31

श्रीरङ्गेऽस्मिन् महाक्षेत्रे चन्द्रपुष्करिणीतटे ।

पुन्नागवृक्षमूले हि सन्निधत्ते सदा हरिः ॥

32

दिव्यदेशस्थितानां च स्वमूर्तीनां महाप्रभुः ।

मूलकारणभूतोऽसौ रङ्गनाथो दयानिधिः ॥

33

अस्मादेव स्वयं व्यक्तादादिमूर्तेः परात्मनः ।

आविर्भावोऽन्यमूर्तीनां शृणुध्वं वैष्णवोत्तमाः ॥

34

पूजिता निखिला देवा रङ्गनाथस्य पूजया ।

अपूजनाद्रङ्गभर्तुः पूजिताश्चाप्यपूजिताः ॥

35

अङ्गानि सर्वे देवाश्च रङ्गभर्तुः परात्मनः ।

अस्ति स्वयं रङ्गनाथः पूर्णं ब्रह्म सनातनम् ॥

36

बदरीशः शिरः स्थाने जिह्वायां पुष्करेश्वरः ।

गीताचार्यो मुखे कण्ठे रामचन्द्रो दयानिधिः ॥

37

हृदये नरसिंहश्च वेङ्कटेशश्च वक्षसि ।

उदरे च जगन्नाथः पृष्ठे श्रीकूर्म एव च ॥

38

नाभौ श्रीमुष्णदेवश्च सौन्दर्येऽमृतविग्रहः ।

भुजे सुन्दरबाहुश्च शौरिराजो गतौ तथा ॥

39

कटाक्षे राजगोपालः स्मिते मदनमोहनः ।

ऊर्वोः तोताद्रिनाथश्च सेतुनाथश्च पादयोः ॥

40

रोमकूपेषु सर्वेषु तिष्ठन्ति किल कोटिशः ।

अर्चावताररूपाणि रङ्गेशस्य परात्मनः ॥

41

विराट्पुरुषरूपोऽयं विश्वरूपो न संशयः ।

रङ्गशायी महाविष्णुर्योगनिद्रासमाहितः ॥

42

सर्वेषामपि देवानामेकमायतनं महत् ।

श्रीरङ्गाख्यं ब्रह्मरूपं प्रलयेऽपि न संशयः ॥

43

तुष्यन्ति देवाः सर्वेऽपि तस्मादस्यैव पूजया ।

अङ्गानि परितुष्यन्ति तोषणादङ्गिनः किल ॥

44

तस्मात् सर्वोत्तमं क्षेत्रं श्रीरङ्गं मूलकारणम् ।

एतादृशं महाक्षेत्रं ब्रह्माण्डे नास्ति किञ्चन ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गक्षेत्रमाहात्म्यम् नाम प्रथमोऽध्यायः ॥
Caturtha Bhāge Ch.02