Verses

कावेर्यष्टोत्तरशतनामस्तोत्रम् Kāverī Aṣṭottara Śata Nāmastotram

1

अगस्त्य उवाच

कावेरीं कामरूपां च कामितार्थफलप्रदाम् ।

कामाक्षीं कन्यकां वन्दे कलिकल्मषनाशिनीम् ॥

2

प्रकृतिं विकृतिं वन्दे प्रसन्नां पापनाशिनीम् ।

पार्वतीं च पवित्रां च फलदां पद्मभूषणाम् ॥

3

सह्यजां सरसां शान्तां सर्वमङ्गलदायिनीम् ।

सारसाढ्यां साररूपां प्रणमामि सरस्वतीम् ॥

4

लक्ष्मीं च ललितां वन्दे ललनां ललिताननाम् ।

लीलां लोलतरङ्गां च लतां लावण्यशालिनीम् ॥

5

हिरण्मयीं च हरिणीं हिरण्मयविभूषणाम् ।

हरितां च हरिद्रां च हरिभक्तिप्रदायिनीम् ॥

6

हरिद्राकुङ्कुमालिप्तां हरिणीगणसेविताम् ।

हरिप्रियां हराराध्यां सर्वपापहरां तथा ॥

7

गोपीं गोरक्षणकरीं गौरीं च गुणशालिनीम् ।

गोविन्दवल्लभां गूढां गूढतत्त्वप्रकाशिनीम् ॥

8

सस्याभिवर्धनकरीं सर्वेषामन्नदायिनीम् ।

केदारे विहरन्तीं च कर्षकानन्ददायिनीम् ॥

9

केतकीकुञ्जसंयुक्तां कदलीवनवर्धिनीम् ।

अश्वत्थवृक्षमूलस्थाममलां मलनाशिनीम् ॥

10

अच्युतामनघामाद्यामनन्तामप्रमादिनीम् ।

मदालसगतिं मत्तां मदालस्यविनाशिनीम् ॥

11

गङ्गां गङ्गाधिकां गम्यां गङ्गाधरनिषेविताम् ।

मङ्गलां मधुरां मायां रङ्गक्षेत्रविलासिनीम् ॥

12

रम्यां च रमणीयां च रसकेलिविवर्धिनीम् ।

राधां रामां च रमणीं रमां रञ्जनकारिणीम् ॥

13

भ्रमन्तीमभ्रमां भामां सुभगां भाग्यवर्धिनीम् ।

प्रवालमौक्तिकाकीर्णां प्रमदां ब्राह्मणप्रियाम् ॥

14

ब्राह्मीं भद्रां भगवतीं भव्यां भक्तजनप्रियाम् ।

बालां बलप्रदां वन्दे बालकानन्ददायिनीम् ॥

15

हप्तां दर्पविहीनां च दर्भपोषणकारिणीम् ।

तृप्तां तृप्तिप्रदां प्रीतां वन्दे प्रेमविवर्धिनीम् ॥

16

तापघ्नीं सर्वपापघ्नीं सर्वरोगविनाशिनीम् ।

वन्दे सर्वसरिच्छ्रेष्ठां सर्वमङ्गलदायिनीम् ॥

17

मीननेत्रीं कूर्मपृष्ठां रत्नमौक्तिकभूषिताम् ।

तरङ्गमेखलां चैव सरोजमुकुलस्तनीम् ॥

18

आवर्तनाभिं रुचिरां फेनमण्डलहासिनीम् ।

कल्लोलमालिनीं कान्तां कर्णानन्दकलस्वनाम् ॥

19

अष्टोत्तरशतं नाम्नामगस्त्येन प्रकीर्तितम् ।

स्नानकाले पठेन्नित्यं कावेरी सुप्रसीदति ॥

20

ददाति सुप्रसन्ना हि कावेरी सर्वदेवता ।

रूपमारोग्यमैश्वर्यं स्वभक्तेभ्यो न संशयः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे कावेर्यष्टोत्तरशतनामस्तोत्रम् नाम अध्यायः ॥
Ch.19 Caturtha Bhāge Ch.21