Verses

रघुवंशकथा Raghuvaṃśa Kathā

1

श्रीसद्गुरुरुवाच

इक्ष्वाकुरेवं भगवन्तमाद्यं ।

संप्राप्य रङ्गेशयमिष्टदेवम्

स्वभ्रातृभिर्भक्तिमतां वरिष्ठः ।

संपूजयामास दिने दिने च ॥

2

कविः कनीयान् विजितेन्द्रियो हि

स्वभावतो योगगतिं गतोऽभूत् ।

आराध्य रङ्गेशयमादिदेवं

नारायणं पद्मदलायताक्षम् ॥

3

शर्यातिनाम्नश्च महीपतेस्तु

कन्या सुकन्या हरिभक्तियुक्ता ।

श्रीरङ्गनाथस्य कृपावशेन

पतिं प्रपेदे च्यवनं मुनीन्द्रम् ॥

4

नाभागनाम्नश्च महीश्वरस्य

पुत्रोऽम्बरीष हरिभक्त आसीत् ।

दुर्वाससा कोपवशेन शप्तः

श्रीरङ्गनाथेन सुरक्षितोऽभूत् ॥

5

तथा महीशो युवनाश्वनामा-

प्याराध्य यज्ञेन च रङ्गनाथम् ।

पुत्रञ्च लेभे भुवनत्रयेऽपि

मान्धातेति विख्यातममोघवीर्यम् ॥

6

पञ्चाशदस्यापि सुता विनीताः

संपूज्य रङ्गेश्वरमादिदेवम् ।

लब्ध्वा पतिं सौभरिमेव सर्व-

सौभाग्ययुक्ताः सुखमापुरेवम् ॥

7

सौदासनामापि वसिष्ठशापा-

ल्लेभे महीशो बत राक्षसत्वम् ।

राज्ञी च भक्त्या मदयन्तिनाम्नी

रङ्गेशमाराध्य पतिं ररक्ष ॥

8

संपूज्य रङ्गं सगराभिधानो

लेभे सुतान् षष्टिसहस्रसंख्यान् ।

यन्निर्मितः सागर एष लोके

अद्यापि वंशस्य यशो ददाति ॥

9

भगीरथो भक्तिमतां वरिष्ठो-

प्याराध्य रङ्गं रमणीयमूर्तिम् ।

मन्दाकिनीं सादरमानिनाय

यत्स्पर्शमात्रेण पुनन्ति लोकाः ॥

10

खट्वाङ्गनामा पृथिवीपतिश्च

रङ्गेशपादाम्बुजभक्तिपूर्णः ।

त्यक्त्वा मुहूर्तान्निखिलञ्च कामं

हरिं स्मरन् मुक्तिमवाप चान्ते ॥

11

अलर्कनामा खलु सत्यसन्धः

चक्षुर्ददौ शत्रुपुरोहिताय ।

पुनश्च लेभे नयनं प्रसादात्

श्रीरङ्गनाथस्य परां गतिञ्च ॥

12

ककुत्स्थनामा भुवनप्रसिद्धो

रङ्गेशवीर्येण जघान दैत्यान् ।

आरुह्य शक्रं वृषभस्वरूपं

स्वर्गेऽपि पूज्यो दिविषद्भिरासीत् ॥

13

दिलीपनामापि वसिष्ठवाक्या-

न्महीपतिः पुत्रमवाप पूर्वम् ।

रङ्गेश्वरस्यैव कृपाबलेन

संपूज्य भक्त्यापि च सौरभेयीम् ॥

14

रघुश्च राजा च दिलीपपुत्रः

संपूज्य रङ्गेश्वरमिष्टदेवम् ।

संप्रस्थितो दिग्विजयाय धीरः

सर्वत्र लेभे विजयं महात्मा ॥

15

अजोऽपि राजा भगवन्तमीश-

माराध्य रङ्गेशमवाप पुत्रम् ।

प्रख्यातवीर्यं भुवनत्रयेऽपि

यं रोचयामास हरिः स्वतातम् ॥

16

के वा महीशा भुवि रङ्गनाथ-

माराध्य भक्त्या निजकाङ्क्षितानि ।

नावापुरेवं खलु रङ्गनाथः

कृपानिधिः कल्पकवृक्ष एषः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे रघुवंशकथा नाम अध्यायः ॥
Ch.14 Caturtha Bhāge Ch.16