Verses

गणेशलीला Gaṇeśa Līlā

1

श्रीसद्गुरुरुवाच

पार्श्वे निधाय तत्तीर्थं हरिपादोदकं शुभम् ।

कमण्डलौ कुंभयोनिस्तपश्चक्रे ततः परम् ॥

2

तदा विघ्नेश्वरो देवः काकरूपधरो विभुः ।

चञ्चुना पातयामास लीलया तत्कमण्डलुम् ॥

3

सुस्राव सलिलं सद्यो हरिपादोदकं शुभम् ।

अगस्त्यो वायसे तस्मिन् महत्कोपमवाप ह ॥

4

दुद्राव वायसं हन्तुमगस्त्यः कृतमुष्टिकः ।

उड्डीय वायसो भीतस्त्रिशीर्षशिखरं ययौ ॥

5

अगस्त्योऽप्यनुधावंस्तं वायसं क्रोधसंयुतः ।

तस्य त्रिशीर्षशैलस्य शिखरं त्वरया ययौ ॥

6

ददर्श तत्र विघ्नेशं ददर्श न च वायसम् ।

एकदन्तं गजमुखं शूर्पकर्णं कृपानिधिम् ॥

7

लम्बोदरं पद्मपीठे निषण्णं मोदकप्रियम्

गौरीपुत्रं गणेशं तं प्रसन्नं ब्रह्मचारिणम् ।

विष्णुप्रियं च वरदं सर्वदेवनमस्कृतम् ॥

8

विनायकं नमस्कृत्य मुष्टीकृत्य करं तदा ।

स्वशिरः कुट्टनं चक्रे तदा क्रोधविवर्जितः ॥

9

अपराधं क्षमस्वेति बाष्पपर्याकुलेक्षणः ।

प्रार्थयामास विघ्नेशं महागणपतिं प्रभुम् ॥

10

अगस्त्य उवाच

नमस्ते गणनाथाय सर्वविघ्नहराय च ।

सर्वदा सुरसेव्याय सर्वाभीष्टप्रदाय च ॥

11

ब्रह्मरूपाय देवाय नमस्ते ब्रह्मचारिणे ।

प्रज्ञां विद्यां देहि मह्यं सर्वसंशयवर्जिताम् ॥

12

पार्षदाय च विष्णोश्च विष्वक्सेनाय ते नमः ।

नमस्ते विष्णुरूपाय चाष्टलक्ष्मीप्रदाय च ॥

13

नमस्ते रुद्ररूपाय सर्वभूतगणाधिप ।

सर्वपापविनाशाय पापं मे नाशय प्रभो ॥

14

प्रणवाकारवक्त्राय भक्तवत्सल ते नमः ।

प्रसीद परमेशान पार्वतीनन्दन प्रभो ॥

15

नमो मोदकहस्ताय नागयज्ञोपवीतिने ।

नारायणप्रियाय च वारं वारं नमो नमः ॥

16

नमस्ते शुक्लवर्णाय शुक्लाम्बरधराय च ।

सुमुखाय नमस्तेस्तु सुन्दराङ्गाय ते नमः ॥

17

नमो गणपते तुभ्यं नमस्ते ब्रह्मणस्पते ।

सर्वसिद्धिकरोऽसि त्वं नमो मूषिकवाहन ॥

18

विघ्नं कुरु सदा देव लोकेऽस्मिन् पापकर्मणाम् ।

अविघ्नं कुरु विघ्नेश लोकेऽस्मिन् पुण्यकर्मणाम् ॥

19

वृक्षमूलेषु वीथीषु ग्रामेषु नगरेष्वपि ।

नदीतटेषु सर्वत्र निषण्णोऽसि विनायक ॥

20

नारीभिश्च नरैरेवं बालकैरपि पूजितः ।

सद्बुद्धिं सर्वजीवानां ददासि गणनायक ॥

21

सर्वदा सुप्रसन्नोऽसि दूर्वाङ्कुरसमर्चितः ।

दर्शनादेव सर्वेषां दुरितक्षयकारक ॥

22

सर्वलोकहितायैव सह्यजां वर्धय प्रभो ।

सर्वदा शोभतां देवी पृथिवी सस्यमालिनी ॥

23

श्रीगणेश उवाच

तपसा सुप्रसन्नोऽस्मि महर्षे कुंभसंभव ।

कमण्डलुजलं ह्येतद्वर्धते पश्य तापस ॥

24

शैलकूटाच्छैलकूटं धावन्ती सह्यपर्वते ।

नदीयं क्षिप्रमायाति पश्य त्वं मुनिपुङ्गव ॥

25

सह्यजायां भक्तिपूर्वं स्नात्वा पीत्वा च तत्पयः ।

मानवा मङ्गलं सद्यः प्राप्नुवन्ति न संशयः ॥

26

श्रीसद्गुरुरुवाच

गणेशवचनं श्रुत्वा भगवान् कुंभसंभवः ।

तां सः द्रष्टुं शीघ्रं सह्यगिरिं ययौ ॥

27

प्रवहन्तीं सह्यशैलात् प्रसन्नां पापनाशिनीम् ।

तरङ्गवसनां देवीं फेनमण्डलभूषणाम् ॥

28

पद्मकल्हारसौगन्ध्यकुमुदोत्पलमण्डिताम् ।

प्रवालमौक्तिकाकीर्णतटस्थपुलिनां तथा ॥

29

हंसकारण्डवैः सेव्यां विहरन्मत्स्यकच्छपाम् ।

सर्वेषामपि जीवानां सदा जीवनदायिनीम् ॥

30

कदलीनालिकेरैश्च पूगवृक्षैश्च शोभिताम् ।

केदारान् भरितां नित्यं कर्षकानन्ददायिनीम् ॥

31

तटयोरुभयोर्मध्ये प्रातः स्नानपरायणैः

ब्राह्मणैः पूजितां भक्त्या वैदिकैश्च तपोधनैः ।

देवैश्च सेवितां नित्यं सिद्धगन्धर्वकिन्नरैः ॥

32

कौतूहलेन संयुक्तां कर्णानन्दकलस्वनाम् ।

कन्यां सह्यगिरेर्दृष्ट्वा तुष्टाव मुनिपुङ्गवः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे गणेशलीला नाम एकोनविंशोऽध्यायः ॥
Ch.18 Caturtha Bhāge Ch.20