Verses

देवप्रार्थना Deva Prārthanā

1

भागवता ऊचुः

श्रीरङ्गक्षेत्रमाहात्म्यं वद सद्गुरुपुङ्गव ।

अन्तर्गतानि यत्रैव क्षेत्राणि निखिलानि च ॥

2

विष्णोरर्चावताराणां मूलं श्रीरङ्गमुत्तमम् ।

आविर्भूतं स्वरूपं हि कथं कस्मात् कदा कुतः ॥

3

श्रीसद्गुरुरुवाच

स्वयं व्यक्तस्वरूपाणि श्रीविष्णोः परमात्मनः ।

बहूनि सन्ति लोकेऽस्मिन् महाभागवतोत्तमाः ॥

4

श्रीरङ्गेऽपि च तोताद्रौ श्रीमुष्णे वेङ्कटाचले ।

श्रीकाञ्यां नैमिषारण्ये शालग्रामे च पुष्करे ॥

5

स्वयं व्यक्तस्वरूपेण भगवान् वर्तते हरिः ।

तेष्वपि प्रथमं रूपं श्रीरङ्गाख्यं न संशयः ॥

6

एकदा ब्रह्मणो लोकं सर्वलोकोपरिस्थितम् ।

जग्मुर्देवाश्च मुनयो योगिनः सात्वतास्तथा ॥

7

युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः ।

यत्प्राप पारमेष्ठ्याख्यं पदं लोकनमस्कृतम् ॥

8

इन्द्रादयः सुराः सर्वे दैत्यदानवपीडिताः ।

उपासते यत्र देवं शरण्यं सारसासनम् ॥

9

यमाश्रित्य वरं प्रार्थ्य घोरेण तपसा पुरा ।

असुराश्च चतुर्वक्त्रं सुरासुरनमस्कृतम् ॥

10

सनकाद्या नारदश्च मनवश्च चतुर्दश ।

यत्र ब्रह्मविचारं च कुर्वन्ति विधिसन्निधौ ॥

11

वेदा यस्यैव वक्त्राणि शास्त्राण्यङ्गानि सर्वशः ।

हृदयं चोपनिषदः स देवो यत्र वर्तते ॥

12

यस्य पत्नी तु वाग्देवी चतुःषष्टिकला स्मृता ।

सरस्वती सर्वविद्या स देवो यत्र वर्तते ॥

13

दिने यस्य जगत्सृष्टिर्निशि यस्य जगल्लयः ।

सृष्टिस्थितिलयानां च यः साक्षी त्रिजगत्पतिः ॥

14

तपोलोके महर्लोके जनलोके च संस्थिताः ।

उपासते च सिद्धा यं परार्धद्वयजीविनः ॥

15

नियामयन् विष्णुशक्त्या शक्रादीनाधिकारिकान् ।

यः पालयति लोकांस्त्रीन् विनीतो गर्ववर्जितः ॥

16

ब्रह्मर्षींश्च मरीच्यादीन् दक्षादींश्च प्रजापतीन् ।

यः ससर्ज महायोगी जगतां सृष्टिवृद्धये ॥

17

ललाटाद्यस्य रुद्रोऽपि स्वयंभूतस्त्रिलोचनः ।

यस्य श्वासादाविरासीद्वराहो यज्ञविग्रहः ॥

18

सन्ततं भगवद्ध्यानविध्वस्ताखिलकल्मषः ।

शुद्धं भागवतं धर्मं यः प्राह स्वसुताय च ॥

19

स एव वैष्णवश्रेष्ठो ब्रह्मा लोकपितामहः ।

सन्निधत्ते यत्र देवः सर्वदेवनमस्कृतः ॥

20

तदेव सत्यलोकाख्यं पारमेष्ठ्यं परं पदम् ।

आजग्मुर्मुनयः सर्वे देवा सिद्धाश्च सात्वताः ॥

21

तत्र पद्मासने दिव्ये स्थितं देवं चतुर्मुखम् ।

किरीटकुण्डलोपेतं प्रशान्तवदनेक्षणम् ॥

22

ऊर्ध्वपुण्ड्रलसत्फालं हरिचिन्तनतत्परम् ।

पद्माक्षतुलसीमालं शुभ्रश्मश्रुशिरोरुहम् ॥

23

पितामहं च लोकानां प्रसन्नं करुणार्णवम् ।

हस्ते भागवतं कोशं जपमालां कमण्डलुम् ।

सरोरुहं दधानं च समीपे च सरस्वतीम् ॥

24

ददृशुर्मुनयः सर्वे परमानन्दपूरिताः ।

मूर्ध्निबद्धाञ्जलिपुटास्तुष्टुवुः कमलासनम् ॥

25

देवा ऊचुः

वाचामगोचरोऽसि त्वं वाचा न स्तोत्रमर्हसि ।

ब्रह्माणं मनसा ध्यायेदिति शास्त्रविधिस्ततः ॥

26

तादृशं सर्वलोकेशं स्तुत्वा वाचामगोचरम् ।

तवावज्ञामेव कर्तुं नेच्छामः कमलासन ॥

27

नमो हिरण्यगर्भाय वेदगर्भाय ते नमः ।

विरिञ्चये धात्रे विधात्रे परमेष्ठिने ॥

28

वागीशाय नमस्तेऽस्तु नमः सरसिजासन ।

पितामहाय लोकानामादये च स्वयंभुवे ॥

29

अजाय ते नमो नित्यं लोकनाथाय योगिने ।

ब्रह्मणे देवदेवाय सत्यलोकाधिपाय च ॥

30

नमस्कारः कृतोऽस्माभिः केवलं न स्तुतिः कृता ।

स्तुतुं भीताः स्म लोकेश त्वं हि वाचामगोचरः ॥

31

श्रीसद्गुरुरुवाच

एवं स्तुतो नतश्चापि ब्रह्मा लोकपितामहः ।

स्वयमूचे कृपासिन्धुर्वेदगर्भः सनातनः ॥

32

ब्रह्मोवाच

स्वागतं वो महाभागाः किं कर्तव्यं मयाऽद्य वः ।

सर्वं करोमि लोकेऽस्मिन् विष्णुप्रेरित एव हि ॥

33

अन्तर्यामी स सर्वेषां ममापि सुरसत्तमाः ।

स कारयति कर्माणि कर्तारो न वयं सुराः ॥

34

अहंतां ममतां त्यक्त्वा तदाज्ञामनुवर्तयन् ।

आराधयेत्स्वधर्मेण तमेव परमेश्वरम् ॥

35

यूयं कथं जगन्नाथमाराधयथ सात्वताः ।

ब्रूत क्षिप्रमेवाद्य श्रोतुमिच्छामि सामराः ॥

36

श्रीसद्गुरुरुवाच

एवं पृष्टा वेधसाऽद्य नारदाद्याश्च सात्वताः ।

पुरन्दराद्या देवाश्च योगिनः सनकादयः ॥

37

ज्ञानिनो व्यासपुत्राद्यास्तथा विष्णोश्च पार्षदाः ।

विष्वक्सेनादयः साध्या देवाः पूर्वे सनातनाः ।

ब्रह्माणमूचुः सर्वेऽपि संप्रहृष्टाः पृथक् पृथक् ॥

38

वैकुण्ठपार्षदा ऊचुः

वैकुण्ठे तु परे लोके वासुदेवं सनातनम् ।

शाश्वतं परमं ब्रह्म भजामो वयमव्ययम् ॥

39

ज्ञानिन ऊचुः

सर्वत्र व्यापकं विष्णुं नामरूपविवर्जितम् ।

अभिन्नं स्वस्वरूपेण भजामो भेदवर्जितम् ॥

40

योगिन ऊचुः

अप्राकृतं च चिद्रूपं शङ्खचक्रगदाधरम् ।

भ्रूमध्ये हृदये चैव भजामो भक्तवत्सलम् ॥

41

ऋषय ऊचुः

सूर्यमण्डलमध्यस्थं पुण्डरीकाक्षमच्युतम् ।

गायत्रीमन्त्रवर्यार्थं भजामः प्रभुमव्ययम् ॥

42

देवा ऊचुः

क्षीराब्धिशायिनं विष्णुं प्रपन्नार्तिहरं हरिम् ।

वरप्रदं वरेण्यं च भजामो भुवनेश्वरम् ॥

43

भक्ता ऊचुः

रामकृष्णादिरूपेण कुर्वन्तं चरितं शुभम् ।

भजामो भगवन्तं तं पुण्यश्रवणकीर्तनम् ॥

44

श्रीसद्गुरुरुवाच

एवं श्रुत्वा विधाता च विविधं तदुपासनम् ।

ध्यायति स्म स्वयं विष्णुं बाष्पपूरितलोचनः ॥

45

तं प्राहुर्निखिला देवा बद्धाञ्जलिपुटास्तदा ।

सर्वेषामपि लोकानां मङ्गले कृतनिश्चयाः ॥

46

देवा ऊचुः

भगवन् सर्वलोकेश भगवन्तं सनातनम् ।

भजामः परमाराध्यं वयं धन्या न संशयः ॥

47

पापिनामपि भूलोके लुठतां भवसागरे ।

तपः कर्तुमशक्तानां कथं स्याद्विष्णुदर्शनम् ॥

48

श्रीसद्गुरुरुवाच

एवं पृष्टः कृपासिन्धुः पतितोद्धारणाय ।

प्रस्थितो भगवान् ब्रह्मा प्रपेदे क्षीरसागरम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे देवप्रार्थना नाम द्वितीयोऽध्यायः ॥
Ch.01 Caturtha Bhāge Ch.03