Verses

श्रीरङ्गनगरनिर्माणम् Śrī Raṅga Nagara Nirmāṇam

1

श्रीसद्गुरुरुवाच

ततस्तु सप्तावरणं विधाय ।

स निर्ममे मन्दिरमद्भुतं च

नानाप्रकाराणि च गोपुराणि ।

महान्ति हेमैः कलशैर्युतानि ॥

2

रत्नप्रभं रङ्गविलासमेवं

यत्रैव सन्तो हरिदासवर्याः ।

गायन्ति नृत्यन्ति कथां मुरारे-

र्वदन्ति शृण्वन्ति दिने दिने च ॥

3

गोष्ठं तथा धेनुसहस्रयुक्तं

समीपतस्तत्र हि धान्यकोशम् ।

महानसं यत्र पचन्ति भक्ता

नैवेद्यमन्नं विविधं च मेध्यम् ॥

4

भण्डारमेवं निधिकोशमेत-

दनर्घ्यरत्नाभरणैर्भृतं च ।

सुगन्धशालामपि चन्दनादि -

द्रव्यैः समस्तैरपि संभृतां च ॥

5

सभां च नानाविधशिल्पयुक्तां

सेव्यां जनैः स्तम्भसहस्रयुक्ताम् ।

यत्रैव भक्तैः सह रङ्गनाथो

महोत्सवे राजति राजराजः ॥

6

नानाप्रकारानपि मण्डपांश्च

कर्तुं च तेनैव महोत्सवांश्च ।

विधानमेनं हि चकार राजा

ग्रामान् ददौ तत्परिपालनाय ॥

7

सङ्कीर्णधान्यामपि शालिवाटीं

सहस्रशः कर्षकवृत्तिदात्रीम् ।

समर्पयामास महीपतिश्च

महोत्सवार्थं प्रभवे च नित्यम् ॥

8

सहस्रशो वैष्णवविप्रवर्या-

न्निवासयामास हरेर्नगर्याम् ।

आराधनार्थं नियमं चकार

तैरेव नित्यं विनतो विधिज्ञः ॥

9

मन्दारमल्लीतुलसीकदम्ब-

पुन्नागपुष्पानिलशीतलं च ।

उद्यानमेवं विदधे महात्मा

चक्रे वसन्तोत्सवमच्युतस्य ॥

10

कल्हारनीलोत्पलपुण्डरीक-

सङ्कीर्णमानन्दकरं नराणाम् ।

चक्रे तटाकं विमलं च तत्र

प्लवोत्सवं रङ्गपतेश्चकार ॥

11

भूलोकवैकुण्ठमिति प्रशस्तं

श्रीरङ्गमेतन्नगरं बभूव ।

नित्योत्सवं नित्यकुतूहलञ्च

भक्तैः प्रपन्नैरभिसेवितञ्च ॥

12

तस्यैव रङ्गाधिपतेर्महात्मनः

समस्त कल्याणगुणार्णवस्य ।

ब्रह्मादिदेवैरभिसेवितस्य

ब्रह्मोत्सवं कर्तुमियेष राजा ॥

13

ब्रह्मा समागत्य च सत्यलोका-

द्ब्रह्मोत्सवं कर्तुमना मुकुन्दम् ।

संप्रार्थयामास कृतप्रणामो

ददावनुज्ञां विधये मुरारिः ॥

14

संशोधनाय नगरस्य नियुक्त एष

सेनापतिश्च भगवान् हरिणैव पूर्वम् ।

चक्रे प्रदक्षिणमथो नगरं सहर्षं

देवाश्च यस्य नियमं शिरसा वहन्ति ॥

15

आरोपयामास तदा मुकुन्दो

ध्वजं स्वकीयं गरुडाङ्कितं च ।

प्रताड्य भेरीं भगवन्नियुक्ताः

समाह्वयामासुरथो सुरांश्च ॥

16

आरुह्य रम्यां शिबिकां मुकुन्दः

प्रदक्षिणं रङ्गपुरं च गत्वा ।

प्रविश्य पुण्यामथ यागशालां

कृताभिषेको विरराम देवः ॥

17

सूर्यप्रभायां कृतसन्निधानः

श्रीरङ्गनाथ भगवान् मुकुन्दः ।

स्वभक्तबृन्दैः परिसेवितोऽयं

समाययौ साधुजनैः समर्चितः ॥

18

आरुह्य हंसं हरिरेष भक्ता-

नानन्दयन् हंसगतिश्च मन्दम् ।

आयाति वीथ्यां सखि पश्य शीघ्र-

मानन्दय त्वं नयनं मनश्च ॥

19

आरुह्य सिंहं भगवान्नृसिंहः

श्रीरङ्गवीथ्यां समुपेति शीघ्रम् ।

आलोकय त्वं सखि देवदेवं

गाम्भीर्यसौन्दर्यनिधिं मुकुन्दम् ॥

20

आरुह्य यान्तं शरभं मुरारि-

मालोकय त्वं सखि शीघ्रमेव ।

आनन्दमूर्तिं निखिलांश्च भृत्या-

नालोकयन्तं कृपया मुकुन्दम् ॥

21

प्रताडयन् स्वप्रभया प्रभां च

प्रभाकरस्यापि पुरः प्रयान्तम् ।

प्रातः समुत्थाय पुरस्य वीथ्यां

पश्य अर्चितं भक्तजनैश्च विप्रैः ॥

22

वेदस्वरूपं गरुडं सहर्ष-

मारुह्य यान्तं पुरतो मुकुन्दम् ।

पश्यन्ति भक्ता परमोत्सुकाश्च

पश्य त्वमप्यद्य परं परस्तात् ॥

23

अनन्तमारुह्य सहस्रवक्त्र-

मासीनमीशं सखि पश्य विष्णुम् ।

भूलोकवैकुण्ठमिदं हि रङ्गं

निदर्शयन्तं निरवद्यरूपम् ॥

24

आरुह्य यान्तं हनुमन्तमेवं

रामावतारं रमणीयगात्रम् ।

प्रदर्शयन्तं पुरतो जनानां

पश्य प्रभुं पद्मदलायताक्षम् ॥

25

स्थित्वा पुनः कल्पवृक्षमूले

कृष्णावतारं कमनीयवेषम् ।

प्रदर्शयन्तं पुरुषोत्तमं तं

पश्य प्रियं प्रेमविवर्धनं च ॥

26

आरुह्य मातङ्गवरं प्रमत्त-

मायान्तमग्रे सखि पश्य रामम् ।

सार्वभौममिव सर्वसेव्यं

सर्वेश्वरं सर्वशरण्यमेतम् ॥

27

आगत्य देव्या सह धान्यशालां

विलोक्य चान्तःपुरमाविवेश ।

तत्रैव विश्रम्य कृताभिषेको

भूयोऽपि शय्यागृहमाविवेश ॥

28

विहङ्गमं चाथ तुरङ्गं समारुह्य

रङ्गेशमुपागतं च ।

क्रीडन्तमग्रे सखि पश्य कृष्णं

कशां दधानं स्वकराम्बुजेन ॥

29

आरुह्य दिव्यं विपुलं रथं स्व-

मागत्य वीथ्यामखिलान् स्वभक्तान् ।

आनन्दयन्तं सखि पश्य देव-

मानन्दमूर्तिं भुवनैकनाथम् ॥

30

एवं सखीभिः सह हर्षपूर्वं

श्रीरङ्गवीथ्यां सह सञ्चरन्त्यः ।

सर्वाः स्त्रियः शौरिमुपेत्य दृष्ट्वा

संभाषणं चक्रुरनन्यचित्ताः ॥

31

कृताभिषेकोऽवभृतोत्सवेऽपि

प्रदाय तीर्थं परमं पवित्रम् ।

भक्तेभ्य एवं परमप्रसन्नः

पद्मासहायो भवनं विवेश ॥

32

संप्रेषयामास सुरान् समस्तान्

संमानदानेन सहर्षमेव ।

समाश्रितानां च सतां जनानां

संभावनां सादरमाचकार ॥

33

राजापि संपूर्णमनोरथश्च

संभावितो रङ्गवरेण साक्षात् ।

श्रीरङ्गनाथस्य कृपां सदैव

स्मरन्निजं तत् पुरमाविवेश ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गनगरनिर्माणम् नाम सप्तविंशोऽध्यायः ॥
Ch.26 Caturtha Bhāge Ch.28