Verses

कावेरीमाहात्म्यम् Kāverī Māhātmyam

1

श्रीसद्गुरुरुवाच

सह्यजामलकं क्षेत्रं सर्वपापविनाशनम् ।

कावेरीसंभवं तत्र पश्येद्भाग्यवतां वरः ॥

2

तत्रामलकरूपेण वर्तते भगवान् हरिः ।

यस्य दर्शनमात्रेण सर्वं पापं विनश्यति ॥

3

अगस्त्यस्याश्रमं पुण्यं दत्तात्रेयस्य पादुकाम् ।

पश्येदज्ञाननाशाय पवित्रे सह्यपर्वते ॥

4

आदिरङ्गमिदं क्षेत्रं सर्वपापविनाशनम् ।

सह्यजावेगसंहारं यत्र चक्रे जनार्दनः ॥

5

यादवाद्रिमतः पश्येत् समीपे सह्यजातटे ।

यत्र नारायणो देवो भक्ताभीष्टफलप्रदः ॥

6

भवानीसङ्गमे स्नानं कुर्यात् पापविनाशनम् ।

भवानीवल्लभं तत्र पूजयेद्भवमीश्वरम् ॥

7

त्रिशीर्षपर्वते पश्येद्गणेशं विघ्ननाशकम् ।

द्वीपं च सर्वपापघ्नं पुण्यं चन्द्रसरोवरम् ॥

8

चन्द्रपुष्करिणीतीर्थे स्नात्वापि च यदृच्छया ।

सर्वपापविमुक्तात्मा सर्वरोगैर्विमुच्यते ॥

9

कावेरीसलिले स्नानं कृत्वा भूयोपि पावनम् ।

चन्द्रपुष्करिणीतीर्थे कर्तव्यं स्नानमुत्तमम् ॥

10

तुलामासे विशेषेण कावेरीस्नानमाचरेत् ।

चन्द्रपुष्करिणीतीर्थे श्रद्धयैव दिने दिने ॥

11

चन्द्रपुष्करिणीस्नानाद्वासुदेवस्य दर्शनात् ।

सत्यं सत्यं पुनः सत्यं सर्वं पापं विनश्यति ॥

12

कदम्बवृक्षमूलेपि पूजयेत् पुरुषोत्तमम् ।

जम्बूवृक्षस्य मूलेपि पूजयेज्जम्बुकेश्वरम् ॥

13

पुन्नागवृक्षमूलस्थं वासुदेवञ्च पूजयेत् ।

बिल्ववृक्षस्य मूलेपि महालक्ष्मीं दिने दिने ॥

14

श्रीरङ्गमिति यत्प्रोक्तं महापापविनाशनम् ।

कावेरी यत्र मालेव द्वेधा गच्छति धारया ॥

15

अतः परं मध्यरङ्गं पश्येत् सह्यसुतातटे ।

अर्चयेच्छ्रद्धया भक्त्याप्यपूपप्रियमच्युतम् ॥

16

पराशरवनं पश्चाद्दृष्ट्वा पञ्चनदेश्वरम् ।

श्रीकण्ठनगरे पश्येच्छिवशापहरं हरिम् ॥

17

गत्वाथ मेलनपुरीमथ भूतपुरी तथा ।

अथादनपुरे विष्णुं पश्येत् सह्यसुतातटे ॥

18

कपिस्थले शयानं तं कृष्णमाराधयेत्तथा ।

कुंभकोणे शार्ङ्गपाणि पश्येत् कुंभेश्वरं हरम् ॥

19

सारक्षेत्रे सारनाथं तथा नन्दिपुरे हरिम् ।

श्रीनिवासं श्रियं देवीं श्रीपतिं तुलसीवने ॥

20

अथ शुक्रपुरे विष्णुं लिङ्गं नागेश्वरं तथा ।

मध्यार्जुने महालिङ्गं तथा तालवनेश्वरम् ॥

21

उद्दालकेश्वरं शम्भुं तथा बाणपुरीश्वरम् ।

गोसखं गोकुले कृष्णं रङ्गं परिमलं ततः ॥

22

मयूरनाथमीशानं पूजयेत् सङ्गमेश्वरम्

समुद्रसङ्गमे स्नात्वा कावेर्या भक्तिपूर्वकम् ।

जन्मकोटिकृतैः पापैः सद्य एव विमुच्यते ॥

23

कावेरीसङ्गमे स्नानं मनुष्याणां सुदुर्लभम् ।

कोटिजन्मकृतैः पुण्यैर्लभ्यते न हि संशयः ॥

24

कावेरीसङ्गमे स्नात्वा पिण्डदानाच्च तर्पणात् ।

तृप्यन्ति पितरः सर्वे वर्धयन्ति च सन्ततिम् ॥

25

कावेरीसङ्गमे स्नानं कर्तुमिच्छन्ति देवताः ।

प्रयच्छन्ति स्वभक्तेभ्यः कामितार्थफलानि च ॥

26

तीरे तीरे च कावेर्याः शिवविष्णुस्थलानि च

बहूनि सन्ति पुण्यानि सर्वपापहराणि हि ।

तेषां स्मरणमात्रेण नृणां पापक्षयो भवेत् ॥

27

न द्राविडसमो देशो न कावेरीसमा नदी

न श्रीरङ्गसमं क्षेत्रं सत्यं सत्यं वदाम्यहम् ।

रङ्गनाथसमो देवो न भूतो न भविष्यति ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे कावेरीमाहात्म्यम् नाम द्वाविंशोऽध्यायः ॥
Ch.21 Caturtha Bhāge Ch.23