Verses

इक्ष्वाकुकुलधनम् Ikṣvāku Kula Dhanam

1

श्रीसद्गुरुरुवाच

वैवस्वतमनुः श्रीमान् भार्यया श्रद्धया हरिम् ।

पुत्रार्थं पूजयामास श्रद्धयैव दिने दिने ॥

2

रङ्गनाथप्रसादेन श्रद्धा गर्भं दधार सा ।

इक्ष्वाकुं जनयामास महावीरं महाबलम् ॥

3

आत्मनः सदृशं पुत्रं दृष्ट्वा वैवस्वतो मनुः ।

जातकर्मादीनि चक्रे राजा मुदितमानसः ॥

4

इक्ष्वाकुर्ववृधे क्षिप्रं शुक्लपक्षशशाङ्कवत् ।

शृण्वन् विष्णुकथां नित्यं पितृभ्यां कथितां मुदा ॥

5

स पित्रा रङ्गनाथस्य गत्वा स्थानं दिने दिने ।

ददर्श भक्त्या सानन्दं कुर्वंस्तन्नामकीर्तनम् ॥

6

विष्णुभक्तिं स्वपुत्रस्य दृष्ट्वा स पृथिवीपतिः ।

अवाप परमानन्दं गार्हस्थ्यं सफलं स्मरन् ॥

7

कृत्वा द्विजातिसंस्कारं वसिष्ठो भगवान् ऋषिः ।

वेदानध्यापयामास धनुर्वेदं यथाविधि ॥

8

अश्वपृष्ठे गजस्कन्धे समर्थोऽभून्महारथः ।

इक्ष्वाकुर्नीतिमान् वाग्मी पितृभक्तो महामतिः ॥

9

उद्वाहं कारयामास पुत्रं पुत्रवतां वरः ।

यौवराज्येऽभिषेकं च चक्रे सर्वजनप्रियम् ॥

10

धर्मं रक्षन् धर्मात्मा स्वधर्मे निष्ठितः सदा ।

सामन्तगणसंमान्यः साधूनामपि संमतः ॥

11

ततश्च नृगशर्यातिदिष्टधृष्टकरूषकान् ।

नरिष्यन्तं पृषध्रं च नभगं च कविं विभुम् ॥

12

श्रद्धा क्रमेण सुषुवे दश पुत्रान् महारथान् ।

तान् दृष्ट्वा प्राप वै हर्षं वैवस्वतमनुर्नृपः ॥

13

वेदवेदान्ततत्त्वज्ञा धनुर्वेदे च निष्ठिताः ।

सर्वे पितृप्रियकराश्चासन् ज्येष्ठानुवर्तिनः ॥

14

रङ्गनाथस्य कृपया दारपुत्रधनैः सदा ।

संपूर्ण स्वगृहं दृष्ट्वा राजाभूत्प्रीतमानसः ॥

15

अन्ते स्वदायं धर्मात्मा विभज्य च यथाक्रमम् ।

पुत्रेभ्यः प्रददौ प्रेम्णा वनं जिगमिषुः प्रभुः ॥

16

इक्ष्वाकवे महाराजो ज्येष्ठपुत्राय धीमते ।

रङ्गनाथं ददौ भक्त्या निजं कुलधनं तथा ॥

17

उवाच श्रद्धया राजा बाष्पस्निग्धविलोचनः ।

इक्ष्वाकुं भगवद्भक्तं दत्वा श्रीरङ्गनायकम् ॥

18

मनुरुवाच

एष धर्मश्च सत्यञ्च तपसाञ्च परायणम् ।

सुकृतानाञ्च सुकृतं भाग्यानां भाग्यमुत्तमम् ॥

19

पितामहेन मे दत्तं धनानां धनमुत्तमम् ।

मङ्गलानां मङ्गलञ्च दैवतानाञ्च दैवतम् ॥

20

रहस्यानां रहस्यञ्च परं ब्रह्म सनातनम् ।

इक्ष्वाको ज्येष्ठपुत्रोऽसि त्वमाराधय माधवम् ॥

21

यत्र रङ्गविमानं तत्तत्र कल्याणमेव हि ।

काले वृष्टिः सस्यवृद्धिर्जायते भुवि सन्ततम् ॥

22

न तत्र जायते नूनं मारिका कालिकापि वा ।

अवग्रहा विनश्यन्ति यत्रेदं प्रतिष्ठितम् ॥

23

इदं रङ्गविमानं हि सर्वमङ्गलकारकम् ।

दर्शनात्प्रह्वणाद्भक्त्या पूजनाच्च प्रदक्षिणात् ॥

24

आयुरारोग्यमैश्वर्यं लभन्ते भुवि मानवाः ।

नित्यं रङ्गविमानस्य दर्शनात् सर्वमङ्गलम् ॥

25

आचन्द्रार्कं तथा पूज्यमस्मद्वंशे कुमारक ।

कदापि कस्मैचिदपि न देयं धनमुत्तमम् ॥

26

इदं कुलधनं विद्धि सर्वसौभाग्यवर्धनम् ।

प्राणत्यागेऽपि संप्राप्ते न त्यज त्वमिदं धनम् ॥

27

गृहं त्याज्यं धनं त्याज्यं त्याज्या दारसुतादयः ।

नैव त्याज्यो रङ्गनाथः पूजय त्वं दिने दिने ॥

28

योगक्षेमं वहत्येष श्रद्धया पूजितः सुत ।

निश्चिन्तो निर्भरस्तस्मात् पूजय त्वं जगत्पतिम् ॥

29

इदं हि मम कर्तव्यं कृतकृत्यो भवाम्यहम् ।

यन्मया ज्येष्ठपुत्राय दत्तं कुलधनं महत् ॥

30

इक्ष्वाकुरुवाच

धन्योऽस्म्यनुगृहीतोऽस्मि लब्धं कुलधनं महत् ।

अहमाराधयिष्यामि श्रद्धयैव दिने दिने ॥

31

नूनमेतस्य माहात्म्यं त्वयैव गदितं पितः ।

श्रुत्वा जानाम्यहं दिव्यं मन्ये मद्भाग्यमेव हि ॥

32

श्रीसद्गुरुरुवाच

एवं प्रसान्त्वितो राजा हृष्टो वैवस्वतो मनुः ।

दत्वा रङ्गञ्च राज्यञ्च विरक्तो विजितेन्द्रियः ॥

33

श्रद्धया भार्यया सार्धं गत्वा बदरिकाश्रमम् ।

तपः कृत्वान्तकालेऽपि संप्राप परमं पदम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे इक्ष्वाकुकुलधनम् नाम अध्यायः ॥
Ch.13 Caturtha Bhāge Ch.15