Verses

धर्मवर्मचरित्रम् Dharmavarma Caritram

1

श्रीसद्गुरुरुवाच

कावेरीसलिलस्निग्धकमनीयतटे तथा ।

कदलीनालिकेरेक्षुसस्यश्यामलशाद्वले ॥

2

चोलदेशे तु सर्वत्र शालिवाटीसमाकुले ।

धर्मवर्मेति विख्यातो राजा धर्मविदां वरः ॥

3

न्यवसत् स्वजनैः साकं निर्माय निचुलापुरीम्

सभाचत्वररथ्याढ्या सर्वदा जनसङ्कुला ।

सुराणां राजधानीव शुशुभे निचुलापुरी ॥

4

राजा दशरथस्यापि सखा चोलमहीपतिः ।

आहूतः पुत्रकामेष्टिं द्रष्टुं प्रीतो ययौ पुरा ॥

5

धर्मवर्मा महाराजो विष्णुभक्तिमतां वरः ।

ददर्श तत्र रङ्गेशं विमानं रङ्गमद्भुतम् ॥

6

राजाधिराजसंपूज्यमिक्ष्वाकुकुलदैवतम् ।

रमणीयं रङ्गनाथं रमानाथं ददर्श सः ॥

7

तदा दशरथो राजा धर्मवर्माणमादरात् ।

दर्शयामास गोविन्दं रङ्गनाथं महाप्रभुम् ॥

8

दशरथ उवाच

अनामरूपं चिन्मात्रमव्यक्तं चिन्मयं परम् ।

कूटस्थमक्षरं ब्रह्म स्वात्मानं विद्धि पार्थिव ॥

9

यतो हि जायते विश्वं यस्मिंस्तिष्ठति सर्वथा ।

यस्मिन्नेव लयं याति विजिज्ञासस्व तत्परम् ॥

10

सर्वाणि नामरूपाणि लयं गत्वापि यत्र वै ।

यथा तथा पुनर्भान्ति तदेव परमव्ययम् ॥

11

सर्वांल्लोकान् सुसंहृत्य यः शेते स्वयमव्ययः ।

तमेव पुरुषं विद्धि रङ्गनाथं गुहान्तरे ॥

12

इदमाद्यं परं रङ्गं क्षीराब्धौ जातमव्ययम् ।

साक्षात्कृतं ब्रह्मणापि सत्यलोके प्रतिष्ठितम् ॥

13

दत्तं हि मनवे पूर्वं तेन वैवस्वतेन च ।

प्रतिष्ठितमयोध्यायां पूजितं भक्तिपूर्वकम् ॥

14

इक्ष्वाकुप्रमुखैः सर्वैः सूर्यवंशमहीश्वरैः ।

पूजितं श्रद्धया भक्त्या पश्य नः कुलदैवतम् ॥

15

अभ्यर्चनादस्य राजन्नयोध्या परिशोभते ।

सुराणां राजधानीव नित्यश्रीर्नित्यमङ्गला ॥

16

श्रीसद्गुरुरुवाच

एवं दशरथेनैव दर्शितं रङ्गनायकम् ।

विलोक्य धर्मवर्मापि ययाचे भक्तिपूर्वकम् ॥

17

धर्मवर्मोवाच

राजन् मम सखासि त्वं हितं स्मरसि मे सदा ।

अदेयं नास्ति ते राजन् मह्यं प्रणयभावतः ॥

18

याच्या क्षत्रियधर्मस्य विरोध इति वेद्म्यहम् ।

तथापि लज्जां त्यक्त्वैव याचे त्वां राजपुङ्गव ॥

19

अहञ्च विष्णुभक्तोऽस्मि कोसलेन्द्र स्वभावतः ।

दर्शनाद्रङ्गनाथस्य विमुग्धोऽस्मि न संशयः ॥

20

वियोगं रङ्गनाथस्य नोत्सहे सोढुमद्य ह ।

देहि मे पूजयिष्यामि तवैव कुलदैवतम् ॥

21

कावेरीपुलिने तत्र विन्यस्य पृथिवीपते ।

कर्तुमिच्छाम्यहं पूजां रङ्गनाथं दिने दिने ॥

22

दशरथ उवाच

राज्यं देयं धनं देयं सर्वं देयं मया तव ।

नैव दास्यामि रङ्गेशं ममेष्टं कुलदैवतम् ॥

23

दारा देयाः सुता देयाः प्राणा अपि मया ।

नैव दास्यामि रङ्गेशं प्राणेभ्यः प्रियमच्युतम् ॥

24

श्रीसद्गुरुरुवाच

इत्युक्तः कोसलेन्द्रेण धर्मवर्मा महीपतिः ।

लज्जामवाप सहसा दुःखञ्च नितरामथ ॥

25

प्रस्थितश्च निजं देशं प्राप्य राज्यमनुत्तमम् ।

विस्मर्तु रङ्गनाथं तं न शशाक महीपतिः ॥

26

आनेतुं रङ्गनाथं तं हृदये कृतनिश्चयः ।

तपश्चकार तीव्रं स चन्द्रपुष्करिणीतटे ॥

27

ध्यायन्नारायणं देवं जपंश्च द्वादशाक्षरीम् ।

नित्योपवासी तत्रैव न्यवसत् पृथिवीपतिः ॥

28

तमेवमश्वमेधेन पुत्रकामेष्टिना यजन् ।

रङ्गनाथं दशरथः पुत्रभाग्यमवाप च ॥

29

रामलक्ष्मण भरत शत्रुघ्ना इति ते सुताः ।

विष्णोरंशेन सञ्जाता कामं ववृधिरे तदा ॥

30

श्रीरामः पूर्वजस्तेषां लोके विख्यातविक्रमः ।

पितृवाक्याद्वने वासञ्चकार खलु धार्मिकः ॥

31

हृतायां रक्षसा पत्न्याम् असमक्षं महाबलः ।

निहत्य राक्षसान् सर्वानवाप दयितां पुनः ॥

32

विभीषणाय भक्ताय सात्विकाय कृपानिधिः ।

लङ्काराज्यं प्रदायैवं निजराज्यमवाप च ॥

33

पट्टाभिषिक्तो भगवानयोध्यायां रघूत्तमः ।

अश्वमेधं मखं चक्रे सुहृद्भिर्भ्रातृभिर्युतः ॥

34

विभीषणाय भक्ताय ददौ कुलधनं महत् ।

किं न देयं स्वभक्ताय राघवेण महात्मना ॥

35

दिव्यं रङ्गविमानं तदादाय रजनीचरः ।

प्रतस्थे व्योममार्गेण विष्णुभक्तो विभीषणः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे धर्मवर्मचरित्रम् नाम त्रयोविंशोऽध्यायः ॥
Ch.22 Caturtha Bhāge Ch.24