Verses

श्रीरङ्गनाथसाक्षात्कार: Śrī Raṅganātha Sākṣātkāra:

1

श्रीसद्गुरुरुवाच

ददर्श भूमौ कावेर्याः पुलिनं सुमनोहरम् ।

शुद्धस्फटिकसङ्काशनिर्मलोदकपूरितम् ॥

2

पुन्नागपूगकदलीनालिकेरादिभूरुहैः ।

सङ्कीर्णं कोकिलकुलैः कूजितं मृगसेवितम् ॥

3

चन्द्रपुष्करिणीं मध्ये हंससारससेविताम् ।

विलोक्य पद्ममालाढ्यां गगनादवततार ह ॥

4

मध्ये रङ्गविमानं तन्निधाय रजनीचरः ।

कावेरीसलिले स्नात्वा चक्रे सन्ध्यां यथाविधि ॥

5

धर्मवर्मा तदा तत्र समाधेरुत्थितोऽग्रतः ।

यदृच्छया ददर्शेतद्विमानं रङ्गमुत्तमम् ॥

6

किं वा मनोभ्रान्तिरियं किं वा स्वप्नविलोकनम् ।

किं वा मायाविनो माया कथं रङ्गमिहागतम् ॥

7

किं वा तपः सिद्धिरियं किं वा पुण्यफलं मम ।

अयोध्यायां स्थितं दिव्यं कथं रङ्गमिहागतम् ॥

8

किं वा देवैरुपहृतं किं वा रक्षोगणैर्बत ।

स्वयमेवागतं किं वा कथं रङ्गमिहागतम् ॥

9

तपो मे सफलं नूनं पुण्यं मे सफलं कृतम् ।

जन्म मे सफलं लोके रङ्गं पश्यामि मेऽग्रतः ॥

10

कावेरीपुलिनं धन्यं धन्यं द्राविडमण्डलम् ।

नगरं धन्यमेतद्धि स्वयं रङ्गमिहागतम् ॥

11

अहो भाग्यमहो भाग्यमस्माकं साधुसत्तमाः ।

यूयमागच्छत क्षिप्रं श्रीरङ्गं पश्यताग्रतः ॥

12

इति ब्रुवन् धर्मवर्मा स्वजनैः सह सादरम् ।

आगत्य धावन् श्रीरङ्गं ददर्श पुलकाङ्कितः ॥

13

ददर्श प्रणवाकारं विमानं कलशैर्युतम् ।

कूर्मपीठं चाष्टगजान् पद्ममाधारमेव च ॥

14

विष्वक्सेनं वराहञ्च दुर्गां च गणनायकम् ।

अग्रतो वैनतेयं च जयं विजयमेव च ॥

15

विमाने वासुदेवं च विमानान्तर्गतं हरिम् ।

भुजङ्गशयनं देवं पुराणपुरुषोत्तमम् ॥

16

पुण्डरीकविशालाक्षं सुकपोलं सुनासिकम् ।

विस्तीर्णफालसंशोभितिलकं कुटिलालकम् ॥

17

मन्दस्मितमुखाम्बोजं मकराकारकुण्डलम् ।

श्रीवत्सकौस्तुभधरं पद्मनाभं तलोदरम् ॥

18

हारकङ्कणकेयूरकिरीटादिविभूषणम् ।

यज्ञोपवीतिनं शान्तं वनमालाधरं प्रभुम् ॥

19

पीताम्बरालङ्कृतं च मणिमेखलयाञ्चितम् ।

सुवर्णकटिसूत्रं च सुन्दरं सुमुखं तथा ॥

20

परिलालितपादाब्जं पद्मया धरया सदा ।

जनकं सर्वलोकानां सृष्टिकर्तुर्विधेरपि ॥

21

त्रयस्त्रिंशत्कोटिदेवगणैः सेव्यमितस्ततः ।

सिद्धविद्याधरगणैर्गन्धर्वैः किन्नरैस्तथा ॥

22

वैकुण्ठपार्षदैश्चापि तथा ब्रह्मर्षिभिर्नुतम् ।

नारदाद्यैः स्वभक्तैश्च सुस्वरं कीर्तितं मुदा ॥

23

वीणामृदङ्गतालैश्च मधुरं सुस्वरं तथा ।

गायन्तीभिश्चाप्सरोभिर्नृत्यन्तीभिश्च सेवितम् ॥

24

पारिजातप्रसूनैश्च सुगन्धैरभिपूजितम् ।

दिवि स्थितैर्देवबृन्दैर्वारं वारं कुतूहलात् ॥

25

धूपैः सुगन्धितं रम्यैर्दीपमालाविराजितम् ।

वेदघोषेण महता महद्भिर्वर्धिताशिषम् ॥

26

घण्टानादेन महता सर्वत्र मुखरीकृतम् ।

शङ्खनादेन पुण्येन सर्वत्र कृतमङ्गलम् ॥

27

नरनारीगणैः सेव्यं सानन्दं सर्वदैव हि ।

ददर्श धर्मवर्मापि श्रीरङ्गं स्वयमागतम् ॥

28

मूर्ध्निबद्धाञ्जलिपुटो बाष्पस्निग्धविलोचनः ।

पुनः पुनर्ददर्शापि प्रणनाम पुनः पुनः ॥

29

भूमौ लुठन् तथा नृत्यन् कीर्तयन् प्रलपन् रुदन् ।

हसन्नुन्मत्तवद्राजा ददर्श प्रेमभक्तिमान् ॥

30

सचिवाः सान्त्वयामासु राजानं प्रणयाकुलम् ।

रङ्गनाथमुखोल्लासदर्शनानन्दमूर्च्छितम् ॥

31

अहो कृपासागरस्त्वं भक्तभाववशीकृतः ।

स्मरतः पादकमलमात्मानं च प्रयच्छसि ॥

32

अयोध्यां त्वं कथं त्यक्त्वा रम्यां च सरयूं नदीम् ।

अत्रागत्य कृपासिन्धो ददासि निजदर्शनम् ॥

33

प्रतिकर्तुं न जानामि कृपायास्तव केशव ।

स्वल्पेन तपसाप्येवं प्रसन्नोऽसि ममाग्रतः ॥

34

अमूल्यस्य तव स्वामिन् को मूल्यं दातुमर्हति ।

तस्मादव्याजकरुणामेव पश्येत् सदा नरः ॥

35

इत्युक्त्वा धर्मवर्माथ तमभ्यर्च्य यथाविधि ।

प्रदक्षिणं प्रणामं च चक्रे बाष्पविलोचनः ॥

36

अथ तुष्टाव राजेन्द्रो भगवन्तं सनातनम् ।

विष्णुं रङ्गविमानस्थं भुजङ्गशयनं प्रभुम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गनाथसाक्षात्कारो नाम चतुर्विंशोऽध्यायः ॥
Ch.23 Caturtha Bhāge Ch.25