Verses

ब्रह्मलोकप्रस्थानम् Brahmaloka Prasthānam

1

ब्रह्मोवाच

अवश्यं कर्म कर्तव्यं वेदोक्तं हि तवाज्ञया ।

वेदोक्तं तत्कर्म कुर्वन् कथं मुच्येत कर्मभिः ॥

2

पुनः पुनः कर्म कुर्वन्नश्नन् कर्मफलानि च ।

कर्ममोक्षं न जानीते संसारपतितो जनः ॥

3

श्रीभगवानुवाच

श्रुतिस्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घय वर्तते ।

आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥

4

यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।

मदाराधनरूपेण कुर्वन् न फलमश्नुते ॥

5

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥

6

ईश्वरः सर्वभूतानां हृद्देशे खलु तिष्ठति ।

स एव कर्ता नाहं स्याम् इति सर्वत्र भावयेत् ॥

7

कायेन मनसा वाचा यत्करोति स्वभावतः ।

तत्सर्वमर्पयेन्मह्यं कर्मबन्धनिवृत्तये ॥

8

अहंतां ममतां त्यक्त्वा मदाराधनरूपकम् ।

कर्म कृत्वा चित्तशुद्धिं लभते क्षिप्रमेव हि ॥

9

त्यक्तुं सर्वात्मना कर्म नरः कोऽपि न शक्नुयात् ।

कर्मत्यागेन वै नूनं दुष्करं जीवधारणम् ॥

10

व्यर्थमेवाग्रहं कुर्वन् प्राणत्यागं च यश्चरेत् ।

न योगो न तु संन्यासस्त्वात्महत्याफलं लभेत् ॥

11

तस्मात् प्रायोपवेशस्तु नैव स्यान्मोक्षसाधनम् ।

कुर्वन्नेव हि कर्माणि फलत्यागी भवेन्नरः ॥

12

पिबन्नेवौषधं नित्यमारोग्यं प्राप्य मानवः ।

औषधं त्यजति क्षिप्रमेवमेव चतुर्मुख ॥

13

कुर्वन्नेवेह कर्माणि चित्तशुद्धिमवाप्य च ।

सञ्जातदृढवैराग्यः कर्मणा मुच्यते नरः ॥

14

ब्रह्मोवाच

किं लक्षणं विरक्तस्य कर्मणा मुच्यते कथम् ।

ब्रूहि मे भगवन् विष्णो श्रोतुकामस्य केशव ॥

15

श्रीभगवानुवाच

न कर्मणा न प्रजया न त्यागेन धनेन वा ।

आप्नोति नैव संसारी तद्विष्णोः परमं पदम् ॥

16

कर्मसंपादितं सर्वं क्षयिष्णुफलमीप्सितम् ।

अदृष्टं चेह दृष्टं वा तत्फलं नैव शाश्वतम् ॥

17

तस्मादकृतकं प्राप्तुं फलं हि कृतनिश्चयः ।

श्रोत्रियं ब्रह्मनिष्ठं च सद्गुरुं शरणं व्रजेत् ॥

18

स तु शिष्यमुपनीय स्वस्वरूपं प्रदर्शयेत् ।

नित्यं मुक्तं च शुद्धं च चिन्मात्रं हृदिसंस्थितम् ॥

19

स्वस्वरूपं तु तज्ज्ञात्वा परां शान्तिमवाप्नुयात् ।

आत्मक्रीडश्चात्मतृप्तश्चात्मन्येव रतो भवेत् ॥

20

किं कर्मणा करिष्यामः किं दारैः किं सुतेन च ।

किं स्वर्गेणेति सर्वत्र विरक्तो भवति ध्रुवम् ॥

21

आत्मा ज्ञानमयः शुद्धो हृदि सर्वस्य वर्तते ।

तत् प्रकाशेन देहादौ चैतन्यं किल दृश्यते ॥

22

देहः प्राणा मनश्चापि जडमेव न संशयः ।

आत्मसंयोगमात्रेण चेतना तेषु दृश्यते ॥

23

चैतन्यमात्मधर्मो हि चिन्मयत्वाच्चतुर्मुख ।

करणानि जडान्येव चेतना न कथञ्चन ॥

24

करणानां हि संयोगान्निर्गुणस्य परात्मनः ।

कर्तृत्वमपि भोक्तृत्वं संसारित्वं च जायते ॥

25

स्वरूपतो नित्यमुक्त आत्मा शुद्धो न संशयः ।

नीलत्वं स्फटिकस्यैवं निर्गुणस्य स्वभावतः ॥

26

अनादिकालमारभ्य करणैः सह वर्तते ।

प्रत्यगात्मा ततस्तस्या अनादिः संसारवासना ॥

27

ब्रह्मोवाच

संसारवासनां हातुमुपायं वद केशव ।

पुनः पुनर्जन्म मृत्युं ययैव लभते पुमान् ॥

28

श्रीभगवानुवाच

मदुपासनमात्रेण मद्भक्तः कृपया मम ।

संसारवासनामुक्तः परमं पदमाप्नुयात् ॥

29

इन्द्रियाणां निग्रहाय यमं नियममभ्यसेत् ।

मदुपासननिष्ठस्तु भक्तियोगं समाश्रितः ॥

30

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया ।

तितिक्षा समता चैवं यमो बहुविधः स्मृतः ॥

31

स्नानं सन्ध्या जपो होमः स्वाध्यायश्च ममार्चनम् ।

एकादश्युपवासादिनियमः परिकीर्तितः ॥

32

पद्मस्वस्तिकसिद्धादीन्यासनानि चतुर्मुख ।

प्रोक्तानि योगशास्त्रेषु ऋजुकायः समाविशेत् ॥

33

पूरकं रेचकं चैव कुम्भकं त्रिविधं तथा ।

अभ्यसेत् सावधानं हि प्राणायामं दृढव्रतः ॥

34

प्रत्याहारं धारणा च ध्यानं चेति चतुर्मुख ।

त्रिविधं प्रोच्यते सद्भिर्मनोनिग्रहसाधनम् ॥

35

सर्वत्र व्यापकं चित्तमाकृष्यैकत्र योजयेत् ।

प्रत्याहारमिमं विद्धि योगिनामपि दुष्करम् ॥

36

दत्त्वैवालम्बनं चैकं मनसश्चञ्चलस्य तु ।

धारयेत्तत्र चाभ्यासादेषा वै धारणा स्मृता ॥

37

आलम्बने मनो लीनं यदि तद्ध्यानमुच्यते ।

साक्षात्कारानुभूतिर्हि समाधिरिति कथ्यते ॥

38

हृत्पुण्डरीकमध्ये तु ध्यायेन्मामतिसुन्दरम् ।

श्यामं चतुर्भुजं शान्तं शङ्खचक्रगदाधरम् ॥

39

प्रसन्नवदनं साक्षात् तिष्ठन्तं करुणाकरम् ।

मन्दस्मितमुखाम्भोजं स्फुरत्कौस्तुभकन्धरम् ॥

40

श्रीवत्सवक्षसं देवं वनमालाधरं वरम् ।

पीताम्बरधरं विष्णुं भक्तानुग्रहतत्परम् ॥

41

एवं ध्यायेद्भक्तियोगमाश्रित्य मदुपासकः ।

संसारवासनामुक्तः स याति परमं पदम् ॥

42

ब्रह्मोवाच

सुदुष्करमहं मन्ये योगमष्टाङ्गसंयुतम् ।

विरक्तानां मुनीनां च यतीनां वनवासिनाम् ॥

43

जन्मान्तरसहस्रेण वैराग्याभ्याससाधिताम् ।

योगसिद्धिमवाप्नोति यः कश्चन जनार्दन ॥

44

अस्मिन् जन्मन्येव मुक्तिः कथं स्यात् करुणार्णव ।

कलौ कल्मषचित्तानां पापिनामपि माधव ॥

45

श्रीभगवानुवाच

प्रपत्तिः परमा लोके निर्विघ्नं मोक्षसाधनम् ।

कलौ कल्मषचित्तानां पापिनामपि वै नृणाम् ॥

46

मां प्रपद्येत शरणं शरण्यं करुणार्णवम् ।

सद्य एवाभयं नूनं ददामि कमलासन ॥

47

सर्वसाधनमुत्सृज्य मामेकं शरणं व्रजेत् ।

मद्भक्तं मां प्रपन्नं तं रक्षामि न हि संशयः ॥

48

अन्यदेवं चान्यफलं चान्यसाधनमुत्सृजेत् ।

तस्मादनन्यभक्तिर्हि मयि सिद्ध्यति नान्यथा ॥

49

मामाश्रित्य जगन्नाथं सर्वदेवनियामकम् ।

ब्रह्मरुद्रादिसंसेव्यं किमन्यैरल्पदैवतैः ॥

50

यथा तथा वा मन्नाथ विदधातु स्वयं हरिः ।

एवं सुखे च दुःखे च प्राप्ते निश्चिन्ततां व्रजेत् ॥

51

मुमुक्षुर्वा वेदगर्भ मत्कैङ्कर्यपरोऽपि वा ।

अन्यत्फलं कामयन् तु विलम्बं प्राप्नुयात्तयोः ॥

52

अहं सर्वसमर्थोऽस्मि मद्भक्तपरिरक्षणे ।

किमन्यैः साधनैर्भूयोऽप्यशक्तानां स्वरक्षणे ॥

53

मामेकमेव शरणं गत्वा मन्नामकीर्तनम् ।

कुर्वन् जीवति यो भक्तस्तस्मै मुक्तिं ददाम्यहम् ॥

54

मन्नामकीर्तनं त्वेवं कर्तव्यं कमलासन ।

न देशकालनियमः शौचाशौचविधिस्तथा ॥

55

॥ श्रीमन्नारायणचरणौ शरणं प्रपद्ये ॥

॥ श्रीमते नारायणाय नमः ।

मन्त्रद्वयमिदं ब्रह्मन्नुच्चरन् हृदये सदा।

अनुसन्धाय मां नित्यं परमं पदमाप्नुयात् ॥

56

एतस्मान्न परं मन्त्रमेतस्मान्न परं तपः ।

एतस्मान्न परो योगश्चैतस्मान्न परं व्रतम् ॥

57

मन्नामकीर्तनं ह्येतत्सर्वधर्मोत्तमं कलौ ।

व्रजंस्तिष्ठन् शयानश्च मनसैवावर्तयेत् सदा ॥

58

रहस्यानां रहस्यं तु मया तुभ्यं प्रकीर्तितम् ।

मोक्षसाधनमेतस्मान्नान्यत् कमलसंभव ॥

59

अयमर्चावतारस्तु तव प्रार्थनया मया ।

गृहीतः पूजय त्वं च प्रेमपूर्वं दिने दिने ॥

60

श्रीसद्गुरुरुवाच

एवमुक्त्वा रङ्गनाथः शङ्खचक्रगदाधरः ।

तस्मिन् रङ्गविमाने तु सुप्रसन्नो बभौ हरिः ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे ब्रह्मलोकप्रस्थानम् नाम द्वादशोऽध्यायः ॥
Ch.11 Caturtha Bhāge Ch.13