Verses

श्रीरङ्गनाथप्रह्यसंवादः Śrī Raṅganātha Prahlāda Saṃvādaḥ

1

श्रीसद्गुरुरुवाच

वेदवेद्यो जगन्नाथो वेदरूपं च वेधसम् ।

विलोक्य मधुरं प्राह मन्दहासवराननः ॥

2

श्रीभगवानुवाच

किमर्थमहमाहूतो वद त्वं कमलासन ।

वरान् ददामि ते नूनं वरदोऽहमुपस्थितः ॥

3

ब्रह्मोवाच

नित्या मुक्ताश्च वैकुण्ठे देवास्तु क्षीरसागरे ।

मुनयः सूर्यबिम्बे च हृदयेऽपि च योगिनः ॥

4

पश्यन्ति त्वां जगन्नाथ भगवन् पुरुषोत्तम ।

तत्तत्कालेऽवतारांस्ते सर्वे पश्यन्ति मानवाः ॥

5

कथं सेव्योऽसि भगवन् सर्वदा सर्वमानवैः ।

अस्मिन् घोरे कलियुगे विवेकरहितैरपि ॥

6

श्रीभगवानुवाच

अनामरूपश्चिन्मात्रः सर्वत्र चतुरानन ।

व्याप्य तिष्ठामि तेनाहं सद्भिर्विष्णुरिति स्मृतः ॥

7

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

विराट्पुरुषरूपोऽहं विश्वरूपस्ततः स्मृतः ॥

8

सर्वे जीवा नराः प्रोक्ता नारस्तेषां गणस्तथा ।

अयनं गतिरित्यस्मि तस्मान्नारायणः स्मृतः ॥

9

आच्छादितं जगत्सर्वं मया चिन्मूर्तिना ततः ।

पश्यन्ति मां ज्ञानिनस्तु वासुदेवस्ततः स्मृतः ॥

10

वैकुण्ठे तु परं रूपं मम तिष्ठति शाश्वतम् ।

क्षीराब्धौ व्यूहरूपेण तिष्ठामि चतुरानन ॥

11

इति सर्वात्मरूपेण सर्वेषां निवसाम्यहम् ।

अवतारेषु रूपाणि वैभवानि धराम्यहम् ॥

12

आलयेषु गृहेष्वेवमर्चारूपधरः कलौ ।

भविष्यामि तदा सर्वे मां द्रक्ष्यन्ति नरा अपि ॥

13

ब्रह्मोवाच

केषु केषु च तीर्थेषु क्षेत्रेषु पुरुषोत्तम ।

केन केन च रूपेण तिष्ठसि त्वं वद प्रभो ॥

14

श्रीभगवानुवाच

अहं रङ्गविमानेऽस्मिन् रङ्गनाथो वसामि हि ।

मां पश्यन्ति जनाः सर्वे भुजङ्गशयनं प्रभुम् ॥

15

नारायणस्वरूपेण पुण्ये बदरिकाश्रमे ।

नरेण सहितो नित्यं वसामि च हिमाचले ॥

16

शालग्रामस्वरूपेण शालग्रामे वसाम्यहम् ।

मामर्चन्ति महात्मानो नानारूपधरं द्विजाः ॥

17

पुष्करे जलरूपेण वसामि पुरुषोत्तमः ।

मामर्चन्ति जनाः सर्वे तीर्थनारायणं सदा ॥

18

नैमिषे वनरूपेण वसामि चतुरानन ।

मामाश्रित्य हि कुर्वन्ति तपस्तत्र तपोधनाः ॥

19

अयोध्यायां राघवोहं मधुरायां च माधवः ।

राधामाधवरूपेण वसामि यमुनातटे ॥

20

वेणीमाधवरूपेण प्रयागे निवसाम्यहम् ।

बिन्दुमाधवरूपेण वाराणस्यां वसाम्यहम् ।

सेतुमाधवरूपेण सेतौ चापि वसाम्यहम् ॥

21

श्रीगदाधररूपेण गयायां निवसाम्यहम् ।

अवन्त्यामङ्कपादाख्ये पश्येद्रामजनार्दनौ ॥

22

गीताचार्यं कुरुक्षेत्रे हरिद्वारे हरिं तथा ।

द्वारकायां द्वारकेशं पश्येत् कल्याणविग्रहम् ॥

23

शङ्खोद्धारे शङ्खपाणिं प्रभासे पुरुषोत्तमम् ।

नीलाचले दारुरूपं श्रीकूर्मे कूर्मविग्रहम् ।

सह्याद्रौ सह्यरूपं च पश्येन्मम चतुर्मुख ॥

24

अहोबिले नृसिंहं श्रीनिवासोऽस्मि वेङ्कटे ।

श्रीकाञ्च्यां वरदोऽहं तु नृसिंहो घटिकाचले ॥

25

कैरविण्यां तु कृष्णोऽहं कृष्णपुर्यां त्रिविक्रमः ।

गरुडाद्रौ देवनाथो गोविन्दश्चित्रकूटके ॥

26

श्रीमुष्णे तु वराहोऽस्मि शौरिः कण्वपुरे तथा ।

नारायणो नागपुर्यां वसामि चतुरानन ॥

27

कुम्भकोणे शार्ङ्गपाणिरतुल्यस्तुलसीवने ।

वसामि कृष्णरूपेण कृष्णारण्येषु पञ्चसु ॥

28

गोपालश्चम्पकारण्ये गोपीभिर्विहराम्यहम् ।

तञ्जपुर्यां नृसिंहोऽहं बाणपुर्यां च सुन्दरः ॥

29

श्वेताद्रौ पुण्डरीकाक्षः कदम्बे पुरुषोत्तमः ।

सत्यद्रौ सत्यनाथश्च सौम्यो गोष्ठीपुरे तथा ॥

30

नित्यं सुन्दरबाहुश्च वृषाद्रौ विहराम्यहम् ।

धन्विपुर्यां केशवोहं वटपत्रे वसामि हि ॥

31

ताम्रपर्णीतटे नित्यं क्षेत्रेषु नवसु प्रभो ।

नवरूपधरो नित्यं निवसामि न संशयः ॥

32

तोताद्रौ वासुदेवोऽहं सर्वदेवनमस्कृतः ।

महेन्द्राद्रौ च पूर्णोऽहं महनीयपराक्रमः ॥

33

पद्मनाभोऽनन्तवने वल्कले तु जनार्दनः ।

केरलेषु प्रदेशेषु तत्र तत्र वसाम्यहम् ॥

34

नारायणपुरे चापि नारायणवपुर्धरः ।

निवसामि महाक्षेत्रे भक्तरक्षणदीक्षितः ॥

35

पुण्डरीकपुरे चैवं पाण्डुरङ्गाभिधोऽस्म्यहम् ।

भीमरथ्यास्तटे ब्रह्मन् भक्तैः क्रीडामि सर्वदा ॥

36

नानाविधेषु क्षेत्रेषु नानामूर्तिधरोऽस्म्यहम् ।

पश्यन्ति पापिनोऽप्येवं भक्तानुग्रहतत्परम् ॥

37

पाषण्डिनां पापिनां च नृणामुद्धारणाय हि ।

अर्चावताररूपेण वसामि चतुरानन ॥

38

पापिनोऽप्यागमिष्यन्ति निर्भया मम मन्दिरम् ।

द्रक्ष्यन्ति मां जगन्नाथं पतितानां च पावनम् ॥

39

सर्वे मुक्ता भविष्यन्ति पापेभ्यो न हि संशयः ।

मम क्षेत्रेषु सर्वेषु नरा गोपुरदर्शनात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गनाथब्रह्मसंवादो नाम षष्ठोऽध्यायः ॥
Ch.05 Caturtha Bhāge Ch.07