Verses

सुभद्राकल्याणम् Subhadrā Kalyāṇam

1

श्रीसद्गुरुरुवाच

अर्जुनस्तीर्थयात्रायां श्रीरङ्गक्षेत्रमाययौ ।

ब्राह्मणैः साधुभिः साकं भक्तैर्भागवतैः सह ॥

2

तुलामासे वसन्नित्यं श्रीरङ्गे फाल्गुनः पुरा ।

आचचार यथाशास्त्रं कावेरीस्नानमादरात् ॥

3

नित्यं प्रातः समुत्थाय कावेरीस्नानमाचरन् ।

ब्राह्मणेभ्यो ददौ दानं रङ्गनाथं ददर्श च ॥

4

निर्ममे मण्टपं दिव्यं विशालं बहुशिल्पकम् ।

रङ्गनाथोत्सवं चक्रे तत्र भक्त्या धनञ्जयः ॥

5

ततः परमसन्तुष्टो रङ्गनाथो महाप्रभुः ।

उवाच पार्थं भगवान् प्रपन्नं भक्तपुङ्गवम् ॥

6

श्रीभगवानुवाच

प्रसन्नोऽस्मि नरश्रेष्ठ भक्तानामुत्तमस्सि मे ।

वरं वृणीष्व दास्यामि वरदोऽहमुपस्थितः ॥

7

अहमेव द्वारवत्यामवतीर्णोऽस्मि फाल्गुन ।

सखा भूत्वा तवैवाहं कृष्णरूपेण वै रमे ॥

8

अर्जुन उवाच

यः प्रविष्टः पुरुषेण साकं ।

कर्मानुरूपं फलमेव देव ।

अश्नन्तमात्मानमजं च दृष्ट्वा- ।

ऽश्नासि न त्वं हि विविक्तसाक्षी ॥

9

यदा सखायं सुभगं सुवर्णं

द्रक्ष्यत्ययं पक्षिवरं सपक्षी ।

विसृज्य वृक्षं विविधं तदैव

रमिष्यते तेन सहैव नित्यम् ॥

10

प्रतीक्षमाणं सह सन्निविष्टं

सखायमेकं सदृशं सुपर्णम् ।

को नाश्रयेदाश्रितवत्सलं तं

यत्संश्रयात् संसृतिबन्धनाशः ॥

11

निसर्गबन्धुं निरवद्यमेकं

जानामि नित्यं निरपायिनं त्वाम् ।

तमेव रमेश गुहां प्रविष्टं

स्थितं पुरस्तादपि पुष्कराक्ष ॥

12

त्वमेव मे प्रेमवशं गतोऽसि

भूत्वा सखा द्वारवतीनगर्याम् ।

तथैव जानामि कृपानिधे त्वं

प्रसीद रङ्गेश रमासहाय ॥

13

तव स्वसारं सुभगां सुभद्रा-

मिच्छाम्यहं श्यामलसुन्दराङ्ग ।

तामेव मे देहि दयानिधे त्वं

दातुं वरं कामयसे यदि त्वम् ॥

14

श्रीसद्गुरुरुवाच

एवं संप्रार्थितो विष्णुः रङ्गेशो भक्तवत्सलः ।

उवाच मधुरं वाक्यं मन्दस्मितमनोहरः ॥

15

श्रीभगवानुवाच

एवमस्तु महाभाग सुभद्रां प्राप्स्यसि ध्रुवम् ।

ममैवायं हि सङ्कल्पस्त्वयापि प्रार्थितोऽस्मि च ॥

16

किन्तु मे पूर्वजो रामः सुभद्रां भगिनीं प्रियाम् ।

दातुमिच्छति भूपाय धार्तराष्ट्राय फाल्गुन ॥

17

त्वं यास्यसि द्वारकां तां त्रिदण्डियतिवेषधृक् ।

रामेणाजानता नीतः पूजितस्त्वं भविष्यसि ॥

18

महोत्सवे तत्र जाते रामे रैवतकं गिरिम् ।

याते हरिष्यसि कन्यां त्वं नूनं कृष्णानुमोदितः ॥

19

मत्पूजाफलमेतद्धि तथा सेत्स्यति फाल्गुन ।

मा विषीद महाबुद्धे याहि द्वारवतीं पुरीम् ॥

20

तीर्थयात्रां समाप्य त्वं सुभद्रां परिणीय च ।

इन्द्रप्रस्थं गतो नित्यं निवस भ्रातृभिः सह ॥

21

श्रीसद्गुरुरुवाच

इत्युक्तो रङ्गनाथेन पार्थः प्रीतमना भृशम् ।

प्रतस्थे ब्राह्मणैः साकं तीर्थयात्रामिषेण सः ॥

22

पुरीं द्वारवतीं प्राप्य यतिवेषेण लीलया ।

पूजितो बलरामेण न्यवसत्तत्र फाल्गुनः ॥

23

सुभद्रा सुमुखी कन्या सिषेवे पार्थमादरात् ।

नियुक्ता बलभद्रेण पितृभ्यामनुमोदिता ॥

24

जानन्नपि जगन्नाथो यतिरूपं जनार्दनः ।

अजानन्निव तस्थे च कृष्णः कपटमानुषः ॥

25

प्रतीक्षमाणः समयं सुभद्राहरणे स्वयम् ।

न्यवसत्तत्र पार्थोऽपि सुभद्राध्यानतत्परः ॥

26

रामे रैवतकं संप्राप्ते महोत्सवे ।

जहार कन्यां बलवान् सुभद्रामर्जुनः स्वयम् ॥

27

ज्ञात्वा तद् यादवाः सर्वे योद्धुकामाः प्रतस्थिरे ।

निवार्य स्वयं रामो विमुखोऽभूदुपेक्षया ॥

28

सान्त्वयामास रामं च पितरौ पद्मलोचनः ।

स्वाभिप्रायं निवेद्येवं प्रभावं चार्जुनस्य च ॥

29

अथ पित्रोराज्ञयैवं तथा रामनिदेशतः ।

पारिबर्हं दातुकामः शक्रप्रस्थं गतो हरिः ॥

30

सुभद्रार्जुनयोरेवं विवाहं भगवान् हरिः ।

कारयामास सानन्दं कमलायतलोचनः ॥

31

किं दुर्लभं जगन्नाथे सुप्रीते रङ्गनायके ।

यत्प्रसादेन पार्थोऽपि लेभे कृष्णसहोदरीम् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे सुभद्राकल्याणम् नाम एकत्रिंशोऽध्यायः ॥
Ch.30 Caturtha Bhāge Ch.32