Verses

भीष्मजननम् Bhīṣma Jananam

1

श्रीसद्गुरुरुवाच

शन्तनुर्नाम राजाऽऽसीच्चन्द्रवंशे महाबलः ।

धर्मात्मा सत्यसन्धश्च धर्मरक्षणतत्परः ॥

2

यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ।

शान्तिमाप्नोति चैवाग्रयां कर्मणा तेन शन्तनुः ॥

3

न लेभे सन्ततिं राजा दारेषु सदृशेष्वपि ।

नानाविधानि पुण्याणि कर्माणि सुविधाय च ॥

4

स एकदा प्रणम्याह भगवन्तं पराशरम् ।

यथाविधि समभ्यर्च्य कृताञ्जलिपुटो नृपः ॥

5

राजोवाच

सोमराजेन सञ्जातो वंशो मे ब्राह्मणोत्तम ।

पुरूरवययातिभ्यां भरतेन च वर्धितः ॥

6

ममैव पूर्वपापेन विच्छिन्नो भवति प्रभो ।

तं वर्धय प्रजातन्तुं कृपया मुनिपुङ्गव ॥

7

तृप्यन्ति पितरः सर्वे तुष्यन्ति कुलदेवताः ।

सत्प्रजाजननेनैव सर्वशास्त्रविदां वर ॥

8

एतत्पितृऋणं पुत्रः प्रजया पूरयेद्भुवि ।

एवं शास्त्रं च जानामि किन्तु मार्गं न वेद्म्यहम् ॥

9

कुलधर्मं राजधर्मं रक्षितुं मुनिपुङ्गव ।

पुत्रमिच्छामि सुगुणं हरिभक्तिमतां वरम् ॥

10

श्रीपराशर उवाच

मा विषीद महाराज त्वयि पापं न विद्यते ।

जन्मान्तरकृतं नूनं दुष्कृतं प्रतिबन्धकम् ॥

11

गर्भच्छेदः कृतो येन स्वस्य वाथ परस्य वा ।

औषधेन विषेणापि तस्य पुत्रो न विद्यते ॥

12

शिशुहत्यां कुर्वतां च परतो वा स्वतोऽपि वा ।

त्यजतां धर्मदारांश्च पुत्रभाग्यं न विद्यते ॥

13

बालवत्सां च गां दोग्धि यः पापी पूर्वजन्मनि ।

छिनत्त्यश्वत्थवृक्षं च तस्य पुत्रो न विद्यते ॥

14

वृथा यो हन्ति नागांश्च वने वल्मीकवासिनः ।

नागरत्नापहाराय तस्य पुत्रो न विद्यते ॥

15

एवं बहुविधं पापं पुत्रनाशकरं भवेत् ।

तस्मात् पापनिवृत्त्यर्थं प्रयत्नं कुरु पार्थिव ॥

16

राजोवाच

दुष्कृतानां विनाशाय कृतानां पूर्वजन्मनि ।

तथा सत्पुत्रलाभाय साधनं वद मे मुने ॥

17

श्रीपराशर उवाच

धर्ममर्थं च कामं च मोक्षं च भगवान् हरिः ।

दातुं समर्थो भक्तानां सर्वशक्तः कृपानिधिः ॥

18

श्रीरङ्गाख्यं महाक्षेत्रं वर्तते सह्यजातटे ।

सान्निध्यं कुरुते तत्र नित्यमेव स्वयं हरिः ॥

19

तत्र गत्वा महाराज तुलाराशिस्थिते रवौ ।

कावेर्यामाचरन् स्नानं नित्यं कृष्णं समर्चय ॥

20

ब्राह्मणेभ्यो धनं धान्यं गृहं धेनुं च देहि भोः ।

ब्राह्मणा भगवान् विष्णुर्ब्राह्मणाः सर्वदेवताः ॥

21

श्रीरङ्गवासमात्रेण सर्वं पापं विनश्यति ।

श्रीरङ्गनाथकृपया पुत्रभाग्यं भविष्यति ॥

22

श्रीसद्गुरुरुवाच

इत्युक्तः शन्तनू राजा मुनीन्द्रेण महात्मना ।

तं प्रणम्याऽभ्यनुज्ञातः श्रीरङ्गनगरं ययौ ॥

23

कावेरीसलिले स्नानं कुर्वन् प्रतिदिनं हरिम् ।

तुलायां रङ्गनाथं पूजयामास केशवम् ॥

24

मण्डपं कारयामास मन्दिरे स महीपतिः ।

नानाशिल्पकलाचित्रं हेमरत्नमयं महत् ॥

25

ब्राह्मणेभ्यो ददौ दानं भक्तिपूर्वं दिने दिने ।

विनीतेभ्यो वेदविद्भ्यो विष्णुभक्तेभ्य एव च ॥

26

उद्यापनं ततः कृत्वा तुलास्नानव्रतस्य च ।

लब्ध्वा विष्णुप्रसादं च लेभे स्वनगरी पुनः ॥

27

अथाचिरेण कालेन वसूनां प्रवरो महान् ।

पुत्रोऽजायत गङ्गायां राजा तु वरुणः खलु ॥

28

देवव्रतो भीष्म इति प्रख्यातिं प्राप भूतले ।

पितृभक्तः सत्यनिष्ठो ब्रह्मचर्यव्रते स्थितः ॥

29

सर्वशास्त्रविदां श्रेष्ठः सर्वधर्मविदां वरः ।

महापराक्रमो धीरो महाशूरो महाबलः ॥

30

महाज्ञानी महात्यागी महाभागवतोत्तमः ।

महायोगी महात्मा च महनीयो महामनाः ॥

31

एतादृशं पुत्रमेष ददौ शन्तनवे हरिः ।

श्रीरङ्गनाथो भगवान् कृपालुः श्रितवत्सलः ॥

32

कामधेनुः कल्पकश्च चिन्तामणिरपि स्वयम् ।

साक्षाच्छ्रीरङ्गनाथो हि भक्ताभीष्टफलप्रदः ॥

33

तमनादृत्य यो लोके श्रद्धाभक्तिविवर्जितः ।

दारिद्र्याल्लभते दुःखं स दीनो दीन एव सः ॥

34

करोति चिन्तामाज्याय नवनीते करस्थिते ।

स्थिते साक्षाद्रङ्गनाथे चिन्तां कुर्वन्ति श्रेयसे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे भीष्मजननम् नाम अध्यायः ॥
Ch.29 Caturtha Bhāge Ch.31