Verses

प्रणयकलहोत्सव: Praṇaya Kalahotsava:

1

श्रीसद्गुरुरुवाच

अथ कदाचिद्रङ्गराजो मलयानिलमन्दस्पन्दितमल्लिका ।

लतालिङ्गितमाकन्दशाखाविलसत्किसलयान्तराङ्कुरित

नवमञ्जरीपरिक्रमणकुतूहलभ्रमरगणकृतझङ्कारनिनदा ।

नन्दितकोकिलकुलकाकलीकलकले सुशीतले चम्पक

पुन्नागचन्दनपारिजातपाटलाशोकवकुलासनकदली ।

नालिकेरपनसजम्बीरचूतपूगादिवनभूरुहातिनिबिडे

कावेरीतटे तुङ्गवक्षःस्थलशोभिततूणीरस्तुल्यपरिजन ।

परिवारस्तुरगमारुह्य धनुर्धरो मृगयामटन् विजहार ॥

2

तदा तत्रागता निजसखीजनपरिवृता धर्मवर्मराज

कुमारी श्रीवासलक्ष्मीर्लक्ष्म्येव सञ्चरन्तीललितकुसुमानि ।

हरन्ती लीलया मालां कलयन्ती शारिकेव सरसं कूजन्ती

चन्द्रिकेव राजन्ती हरिणीव पश्यन्ती पद्मिनीव हसन्ती ।

पदनूपुरं कणयन्ती कन्दुकक्रीडां कुर्वन्ती कन्दर्पचित्तमपि

मोहयन्ती विजहार ॥

3

तत्र यदृच्छयागतं यथेच्छाविहारं नूतनजलधर

नीलकलेबरं कनकाम्बरधरं कङ्कणकिङ्किणिहारकेयूरादि ।

विभूषणं मञ्जुलभाषणं स्वजनपोषणं मन्दहासातिसुन्दर

वदनं कुन्दरदनं कस्तूरीतिलकाञ्चितललाटं कनककिरीटं ।

कुटिलकुन्तलं मकरकुण्डलं श्रीरङ्गभूपालं ददर्श ॥

4

तामपि सुकुमारीं निजमनोहरीं सुन्दरीं कुवलयनयनां

कुमुदहसनां चन्द्रवदनां हंसगमनां पीनजघनां चञ्चलनयनां ।

मञ्जुलवचनां मधुररचनां नवयौवनां नलिनचरणां नाना

भूषणभूषणां कृतसंभाषणां कन्यकां कमलनयनः ।

कामजनको ददर्श ॥

5

पप्रच्छ तां गुणवतीं सुदतीं निरीक्ष्य

का त्वं मनो हरसि मे सुमुखीति कृष्णः ।

पाणिं कपोलमुकुरे विनिधाय पद्मा

लज्जारुणस्मितमुखी प्रतिमेव तस्थौ ॥

6

चोलाधिराजतनया खलु वासलक्ष्मी-

रेषा सखी मम कवेरसुतां च तीर्त्वा ।

श्रीरङ्गनाथनगरीमभिगन्तुमिच्छ-

त्यद्यैव नावमधिरुह्य नरेन्द्र कस्त्वम् ॥

7

एवं सखीवचनमादरपूर्वमेव

श्रुत्वा मुरारिरपि मोहनमन्दहासः ।

पार्श्वस्थितं तुरगसेवकवेषयुक्तं

पक्षीन्द्रमञ्जलिकरं सरसं ददर्श ॥

8

ब्रह्मादिदेवरचितां परितः प्रतीक्षां

तूष्णीमुपेक्ष्य ततः केलिवनं च गत्वा ।

तिष्ठत्ययं तव पुरे पुरुषोत्तमस्तं

श्रीरङ्गनाथमिह पूजय कन्यके त्वम् ॥

9

एवं खगेन्द्रवचनं धरणीशकन्या

श्रुत्वा सखीजनयुता प्रणयेन मुग्धा ।

मालां समर्प्य सहसा मधुसूदनस्य

वक्षःस्थले च पदयोर्विदधे प्रणामम् ॥

10

आलिङ्ग्य तां प्रियसखीसहितां मुकुन्दः

प्रेम्णाऽङ्गुलीयकमपि प्रददौ च तस्यै ।

तस्याः करं निजकरेण ततो गृहीत्वा

तीरे कवेरदुहितुः सरसं चचार ॥

11

अथ मालतीमल्लिमाधवीकुञ्जेषु सञ्चरन्तौ विहरन्तौ

मलयानिलमन्दस्पन्दिततृणालवालविलोली शृङ्गारलीलौ ।

कोकिलयुगलकाकलीकलकलश्रवणकोलाहलौ क्रीडा

कुतूहलौ पनसरसालकदलीफलरसरसिकौ मदनजनकौ ।

ताम्बूलकोमलाधरौ तरुणीजनमनोहरौ सखीजन-कृत

सरससङ्गीतश्रवणसमुत्सुकौ भावुकौ ललितगतिविलास ।

जितकलभौ मधुरपरस्परसल्लापसुमुखौ प्रेमिकौ

मधुरवीणावेणुमृदङ्गगीतातिललितौ चरणसरसिजाङ्कित ।

सह्यजापुलिनौ स्वच्छन्दगमनौ प्रणयपरिष्वङ्गपरिलिप्त

परभागौ सुभगौ सुधाकरकिरणसमुज्ज्वलितविविध ।

मणिमयकनकविभूषणौ निजप्रेमपोषिणौ विनिन्दितकुन्द

दन्तपङ्क्तिसुन्दरहासौ रतिविलासिनौ नित्यनवकिशोरौ ।

जगदानन्दकरौ तौ विरेजतुः ॥

12

रङ्गेश्वरो रङ्गपुरं ययौ सा

राजेन्द्रकन्या निचुलापुरीं च ।

हृतं ह्युभाभ्यामुभयोश्च चित्तं

परस्परं प्रेमविमुग्धमद्य ॥

13

कराङ्गुलीयं क्व गतं प्रियेति

पप्रच्छ देवी प्रणयेन शौरिम् ।

स्वयं कराग्राद्गलितं पथीति

जगाद सन्दर्भविदां वरिष्ठः ॥

14

श्रीरङ्गराजस्मरणेन सेयं

दिनं निनाय स्वसखीसमेता ।

श्रीवासलक्ष्मीः पुनरेव सायं

समाययौ सह्यसुतातटञ्च ॥

15

तदेव लीलास्थलमादरेण

पश्यन्त्यनन्तस्य समागमार्हम् ।

लतानिकुञ्जं मृदुपल्लवैश्च

क्लृप्तञ्च पर्यङ्कवरं ददर्श ॥

16

तद्दर्शनप्राप्तमनोव्यथा सा

गोविन्दविश्लेषदवाग्निदग्धा ।

कवेरजा-तीरनिकुञ्जदेशे

कान्तं स्मरन्ती विललाप बाला ॥

17

तापं ददासि शीतोऽपि तरुणीनां सुधाकर ।

जातोऽसि कृष्णहृदयात् करुणा न हि ते हृदि ॥

18

विषमेव ददासि त्वं सुधानिधिरपि स्वयम् ।

विष्णोर्विश्लेषतापेन मुग्धायां मयि किं पुनः ॥

19

मनोभव मुकुन्दस्य मनोजातोऽसि मार्दवम् ।

माधुर्यं त्वयि नास्त्येव मां विध्यसि वृथा निशि ॥

20

विधे त्वं विष्णुजातोऽपि विपरीतोऽसि मे बत ।

विधानं कुरु मे सद्यो विश्वेश्वरसमागमे ॥

21

ज्येष्ठाऽसि मे महालक्ष्मि ज्येष्ठां देवीं ददासि किम् ।

ज्येष्ठं श्रेष्ठं च देवानां प्रेष्ठं मे प्रेषय स्वयम् ॥

22

सजे सजाताऽसि किमसह्यं तव प्रिये ।

असह्यं कृष्णविरहं कथं त्वं सहसे सखि ॥

23

कृष्णसार त्वमागच्छ कृष्णसारविदां वर ।

कृष्णमानय क्षिप्रं कृष्णातीरविहारिणम् ॥

24

नीलकण्ठ नमस्तेऽस्तु नटनं कुरु मे पुरः ।

लीलालोलं नीलगात्रं लीलाकरमिहानय ॥

25

मधुपोऽपि त्वमागच्छ मधुसूदनवल्लभ ।

मधुरानगरीं गत्वा माधवं त्वमिहानय ॥

26

माधव त्वं माधवेन मानितोऽसि मधुप्रिय ।

माधवीमण्टपे मां च माधवेनैव योजय ॥

27

शारिके शौरिविरहाच्छोचामि शरणं भव ।

शीघ्रं श्रीरङ्गनगरीं गत्वा कूजय मद्दशाम् ॥

28

शीघ्रं परभृतायाहि नित्यं परभृतोऽसि च ।

परमं पुरुषं गत्वा प्रपत्तिं मे वद प्रिय ॥

29

सदागते त्वमागच्छ सदा गच्छसि कुत्र किम् ।

सदानन्दस्वरूपं तं सतां गतिमिहानय ॥

30

सोऽहं हंस इति त्वञ्च हंस मा कुरु भावनाम् ।

हंसवंशसमुद्भूतं राजहंसमिहानय ॥

31

मोघं वर्षसि मेघ त्वं मां दृष्ट्वापि न लज्जसे ।

अमोघकरुणावर्षं मेघश्याममिहानय ॥

32

इति विलपति दीनं विष्णुविश्लेषतापात्

परिजनसमवेता पार्थिवस्यात्मजा सा ।

ललितसलिलवीचीमालया सान्त्वयन्ती

चलति पुलिनमध्ये सह्यजा सा सखीव ॥

33

हरिरपि निजवक्षःशायिनीं ज्येष्ठपत्नीं

रहसि मृदुलशय्यामण्डले संविसृज्य ।

निजहृदि दयितां तां संस्मरन् मन्दमन्दं

निशि पथि निचुलाख्यां तां पुरीं संप्रतस्थे ॥

34

नवनवमणिमालां मेखलां कङ्कणानि

कनकमयदुकूलं कन्दुकं कुङ्कुमञ्च ।

रहसि विविधमेतत्स्त्रीधनं गृहीत्वा

हयवरमधिरुह्य प्रेमवेगाद्ययौ सः ॥

35

अभिगतमभिगम्य प्रेमपूर्वं सखीभि-

र्मणिमयवरदीपं मङ्गलारार्तिकं च ।

मधुरमधुरगीतैः कारयित्वा मुकुन्दं

निजभवनम् आराद् आनिनाय प्रियं तम् ॥

36

प्रत्युद्गमासनवरार्हणपादशौच-

ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्त्रपनोपहार्यै-

र्दासी शतानि च विभोर्विदधुः स्म दास्यम् ॥

37

सङ्गीतनाट्यवरकन्दुककेलिडोला-

द्यूतप्लवादिविविधप्रियकेलिकाभिः ।

आनन्दयन्निजसखीजनमादरेण

चानन्दमूर्तिरिह रङ्गपतिर्विरेजे ॥

38

कान्ताकुचग्रहणचुम्बनकौतुकेन

शय्यागृहं विशति रङ्गपतौ सहर्षम् ।

दास्यश्च सुविधाय कपाटबन्धं

द्वारस्थिता निशि जगुर्मधुरं च गीतम् ॥

39

अत्रान्तरे श्रीमती महादेवी देवदेवमपश्यन्ती पश्यन्ती

निजसखीजनं जनतारक्षणधुरन्धरं धृतशङ्खसुदर्शनं ।

दर्शनानन्दवर्धनकरं करुणापारावारं वारितरात्रिकेलिं

केलिपराजितं जितत्रिभुवनं भुवनसुन्दरं सुन्दरजामातरं ।

तरङ्गिणीतटे मृगयामटन्तं मृगयितुं तुरगखुरविशीर्णपदवी-

पदवीक्षणचतुरांश्चतुरः प्रेष्यान् प्रेषयित्वा प्रोषितभर्तृका ।

भर्तृविरहेण विरहितभद्रा निद्राकुललोचनाऽऽलोचन

संयुता संयुतसखीजना सखीजननिवेदितपतिविषया ।

विषादमूका ॥

40

प्रफुल्लपद्माकरसत्कृतोऽयं

भूदेवदत्तार्घ्यसमर्चितोऽयम् ।

सकौतुकं कुक्कुटकूजितोऽयं

सहस्रभानुर्भगवानुदेति ॥

41

अथ भगवानपि परिजनकीर्तितप्रभातगीतं श्रुत्वा

विकचय्य कमलनयनं नयनानन्दवर्धनकरः करगृहीत ।

कनकाम्बरः कान्तया सहोद्घाटितकपाटद्वारे निजदर्शनं

दत्वा दत्तार्घ्यपाद्यगण्डूषाचमनीयो मणिमयमुकुरं विलोक्य ।

विलोकितमतङ्गजो गजगमनो रमणीं तां आलिङ्ग्य तया

दत्तं मधुरं क्षीरं निपीय निरवधिप्रणयेन प्रणीतताम्बूल ।

मपि गृहीत्वा गृहीतचेलोऽपि निचुलापुरीं त्यक्त्वा तुरङ्गारूढः

श्रीरङ्गनगरीमगमत् ॥

42

प्रथितचरितमेवं प्रातरागत्य तूष्णीं

प्रकटितनिजशीलं वीक्ष्य रङ्गमग्रे ।

निजभवनकपाटं कारयित्वा च बद्धं

प्रणयभरितकोपाद्वाष्पसिक्ता बभूव ॥

43

आस्फालयन्तं विपुलं कपाट-

मानन्दमूर्तिं जगतीपतिं तम् ।

अजानतीव प्रणयेन पद्मा

पप्रच्छ नाथं परिहासयुक्ता ॥

44

कस्त्वं किं हरिरागतो गिरिगुहां गच्छ प्रिये पश्य मां

कृष्णोऽहं यदि कृष्णकाननमितो गच्छ प्रियां सान्त्वय ।

द्वारं मोचय माधवोऽस्मि शिशिरकाले किमत्रागतोऽसि? एवं

तत्प्रतिवाक्यताडितमुखस्तूष्णीमुवासाच्युतः ॥

45

उद्घाटयामासुरथो सखीजनाः

कपाटबन्धं कमलाप्रचोदिताः ।

ताम्बूलपुष्पादिभिराग्रहेण तं

विव्याध देवी चरणग्रहं पतिम् ॥

46

कपटस्मेरवदनः कमलायतलोचनः ।

कामिनीं परिपप्रच्छ कृपया परिसान्त्वयन् ॥

47

श्रीरङ्गनाथ उवाच

किमेवं वर्तसे देवि विपरीतं वृथा मयि ।

चन्द्रिका नोष्णतां याति कदापि खलु कामिनि ॥

48

श्रीदेव्युवाच

पर्यङ्के मां विसृज्यात्र भवान् कुत्र गतो निशि ।

प्रेमधर्मं न जानासि प्राणवल्लभ केशव ॥

49

श्रीभगवानुवाच

बहूनि सन्ति कार्याणि लोकक्षेमवहस्य मे ।

इतस्ततः सञ्चरामि विश्रान्तिरहितः प्रिये ॥

50

श्रीदेव्युवाच

कराङ्गुलीयं ते स्वामिन् कस्यै दत्तं वद प्रभो ।

कामयेऽहं च तां द्रष्टुं कान्तां ते कमलेक्षण ॥

51

श्रीभगवानुवाच

कामिनीं नैव जानामि कामाक्षि त्वां विना प्रिये ।

कराङ्गुलीयकं तत्र कावेर्यां गलितं स्वयम् ॥

52

श्रीदेव्युवाच

किमर्थं स्त्रीधनं सर्वं कमलाक्ष हृतं त्वया ।

कस्यै दत्तं वद स्वामिन् कोपो मे न हि चेतसि ॥

53

श्रीभगवानुवाच

स्त्रीधनं नैव जानामि स्त्रीरत्नं त्वां विना प्रिये ।

त्रियामायां विसृज्य त्वां त्रिलोक्यां किं फलं मम ॥

54

श्रीदेव्युवाच

अलसं तव नेत्राब्जमम्बुजायतलोचन ।

अतिजागरणेनैवमनङ्गस्य वशङ्गतः ॥

55

श्रीभगवानुवाच

अबले किं न जानासि तवैव विरहादहम् ।

अतिजागरणं प्राप्तो निद्रां च न लभे निशि ॥

56

श्रीदेव्युवाच

कामिनीं सान्त्वय स्वामिन् गत्वाद्य निचुलापुरीम् ।

कान्ता ते विरहेणैव कटाक्षं ते प्रतीक्षते ॥

57

श्रीभगवानुवाच

त्वां विना दयितामन्यां सत्यं सत्यं न वेद्म्यहम् ।

त्वदीयमेव मां विद्धि सर्वे देवाश्च साक्षिणः ॥

58

श्रीदेव्युवाच

सर्वे देवास्तव सदा वशे सन्ति सुरोत्तम ।

असत्यं सत्यमेव स्यात् सामर्थ्यात्तव केशव ॥

59

श्रीभगवानुवाच

भुजङ्गवदने हस्तं निक्षिप्य प्रवदाम्यहम् ।

भामिनि त्वां विना लोके कामिनीं नैव वेद्म्यहम् ॥

60

श्रीदेव्युवाच

भुजङ्गवदने स्वामिन् भुजङ्गशयनस्य ते ।

भुजङ्ग पुरुषश्रेष्ठ भुजं निक्षिप्य किं भयम् ॥

61

श्रीभगवानुवाच

कार्ष्णायसं करे धृत्वा सन्तप्तं कृष्णवर्त्मना ।

करोमि शपथं कान्ते कामिनीं वेद्मि नापराम् ॥

62

श्रीदेव्युवाच

कोटिसूर्यसमं चक्रं करेण वहतस्तव ।

कार्ष्णायसस्य तप्तस्य किमशक्यं हि धारणम् ॥

63

श्रीभगवानुवाच

अपराधं क्षमस्वेमम् अबले कमलालये ।

आनीय मां क्षिप्रमन्तश्चाराधय वरानने ॥

64

सकलसुरसमाराध्यस्य सर्वेश्वरस्य

सरसवचनमेतच्छ्रीः स्वयं रङ्गदेवी ।

श्रवसि मनसि कृत्वाऽवाङ्मुखी मौनं आस

सपदि सविधमाप प्रेमपूर्वं प्रियश्च ॥

65

अत्रान्तरे श्रियमवाप्य भृगुर्मुनिश्च

पुत्रीं पितेव परिसान्त्वनपूर्वमूचे ।

स्त्रीभिः कदापि पतिगर्हणमेतदेवं

युक्तं नहीति ललितं प्रवदंश्च धर्मम् ॥

66

तातस्य मे नियमनाद् गृहमेहि राज-

न्नित्यादरेण दयितं जगदेकराजम् ।

आनीय चासनवरे विनिवेश्य भक्त्या

चक्रे समर्चनमथो स्वसखीजनैश्च ॥

67

प्रणयकलहखिन्नां प्रेयसीं प्रेमपूर्वं

मधुरललितवाक्यैः प्रीणयित्वा प्रियश्च ।

परिजनपरिपूज्यः पद्मया पट्टराज्या

मणिमयवरमञ्जे रङ्गराजो विरेजे ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे प्रणयकलहोत्सवो नाम नवविंशोऽध्यायः ॥
Ch.28 Caturtha Bhāge Ch.30