Verses

श्रीरङ्गनायिकाया आविर्भाव: Śrī Raṅganāyikāyā Āvirbhāva:

1

श्रीसद्गुरुरुवाच

अथाचिरात् क्षीरनिधौ यथा पुरा ।

विदेहराजस्य च यज्ञभूमौ

तथा स्वयं श्रीफलवृक्षमूला- ।

दाविर्बभूवामृत रूपिणी श्रीः ॥

2

सहस्रपत्रायतपीठमध्ये

किञ्जल्कयुक्ताऽमलकर्णिकेव ।

पद्मा स्वयं हस्तगृहीतपद्मा

पद्मासना पद्ममुखी रराज ॥

3

चन्द्रानना चन्द्रसहोदरी च

समीपतश्चन्द्रसरोवरस्य ।

जाता सुजाता सुदती सुमध्या

सुवर्णवल्लीव सुशीला ॥

4

विलासिनी कुञ्चितनीलवेणी

विष्णुप्रिया वैष्णवतोषिणी च ।

विनोदयन्ती वनितासहस्रं

निनादयन्ती मणिनूपुरं च ॥

5

ललाटसंशोभितकुङ्कुमाढ्या

ललन्तिकारत्नविभूषिता च ।

लोलम्बवल्लोलकटाक्षलीला

लीलामयी लालितभक्तवृन्दा ॥

6

सुनासिका शोभितमौक्तिका च

मन्दस्मिता मञ्जुलभाषिणी च ।

बिम्बाधरा बिम्बितकुण्डलाढ्य-

गण्डस्थला गानकलाविलोला ॥

7

कुम्भस्तनी शुभ्रदुकूलवीता

पुष्पप्रिया भूषितनिष्ककण्ठी ।

सुमेखला कङ्कणशोभिपाणिः

कुमारिका केतकिपुष्पकान्तिः ॥

8

सर्वे च देवा गगने च सिद्धा

गन्धर्वविद्याधरकिन्नराश्च ।

जगुर्मृदङ्गादिनिनादहृष्टा

मन्दारपुष्पैर्ववृषुश्च देवीम् ॥

9

ऐरावतस्तां निजपुष्करेण

समभ्यषिञ्चत्सरसं सहर्षम् ।

सुवर्णकुम्भाहृतदेवगङ्गा-

जलेन पुण्येन च शीतलेन ॥

10

श्रीसूक्तवाक्यैर्मुनयो महान्तो

लक्ष्मीं स्फुटं तुष्टुवुरादरेण ।

भक्तास्तदा नारददेवलाद्या

जगुश्च नानाविधकीर्तनानि ॥

11

ददौ च तस्यै जगतां जनन्यै

शचीपतिर्हेममयं विचित्रम् ।

सिंहासनं छत्रवरेण युक्तं

सुसेवितं चामरकन्यकाभिः ॥

12

रत्नाकरो रत्नमयानि देव्यै

विभूषणानि प्रददौ च भक्त्या ।

धरा च पुष्पाणि मनोहराणि

ददौ सुगन्धीनि सरोरुहाक्ष्यै ॥

13

गौरी च वाणी स्वकरेण देवीं

संवीजयामासतुरादरेण ।

चन्द्रप्रभेणामलचामरेण

चक्रे शची संप्रति पादसेवाम् ॥

14

सर्वाश्च देव्यः समुपेत्य भक्त्या

सेवां सहर्षं परितोऽपि चक्रुः ।

सर्वेश्वरीत्वं स्वयमेव लक्ष्मीः

सन्दर्शयन्ती सुतरां बभौ सा ॥

15

ऐरावतः कल्पकवृक्ष एव-

मुच्चैःश्रवाः कौस्तुभकामधेनू ।

सुधाकरो यत्सहजत्वमाप

रत्नाकरो यज्जननैकभूमिः ॥

16

किं वर्णनीयं भुवने तु तस्याः

सौभाग्यमेवं श्रिय एव साक्षात् ।

कटाक्षलेशेन ददाति या वै

महेश्वरस्यापि महेश्वरत्वम् ॥

17

विलोक्य साक्षादवतीर्य लोके

स्थितां जगन्मातरमादरेण ।

अर्चावतारेण च भासमानां

तुष्टाव नत्वा विहिताञ्जलिश्च ॥

18

धर्मवर्मोवाच

अनन्तकोटिब्रह्माण्डजनन्यै ते नमो नमः ।

अकारादिक्षकारान्तवर्णमय्यै नमो नमः ॥

19

अनामरूपचिन्मात्रस्वरूपिण्यै नमो नमः ।

अत्यन्तसुन्दराकाररूपिण्यै ते नमो नमः ॥

20

आनन्दमयविज्ञानविग्रहायै नमो नमः ।

आदिमध्यान्तरहितप्रभावायै नमो नमः ॥

21

इन्दुमण्डलसच्छायवदनायै नमो नमः ।

इभराजगतिप्रख्यगमनायै नमो नमः ॥

22

ईशब्रह्मादिसंसेव्यचरणायै नमो नमः ।

ईक्षानिर्मितलोकानामीशित्र्यै ते नमो नमः ॥

23

उरःस्थलविनिक्षिप्तकुङ्कुमायै नमो नमः ।

उपर्युपरिसौभाग्यदायिकायै नमो नमः ॥

24

ऊनषोडशवर्ष-श्रीसुकुमार्यै नमो नमः ।

ऊरीकृतनिजप्रेमभक्तिदायै नमो नमः ॥

25

ऋणबन्धविमोक्षार्थकटाक्षायै नमो नमः ।

ऋषिवन्द्यपदाम्भोजयुगलायै नमो नमः ॥

26

एणशाबसमानार्द्रवीक्षणायै नमो नमः ।

एकाग्रचित्तभक्तानां सुलभायै नमो नमः ॥

27

ऐरावतकरानीतकलशायै नमो नमः ।

ऐरम्मदोद्यानविलासिन्यै नमो नमः ॥

28

ओतप्रोताखिलजगत्साक्षिण्यै ते नमो नमः ।

ओंकारसुन्दराकारविमानायै नमो नमः ॥

29

औषधं परमित्येव विदितायै नमो नमः ।

औपगायनयोगीन्द्रपूजितायै नमो नमः ॥

30

कल्याणदायिकारुण्यकटाक्षायै नमो नमः ।

कमलाक्षमनोहारिवीक्षणायै नमो नमः ॥

31

खरसंहारसञ्जातकौतुकायै नमो नमः ।

खलानामपि कारुण्याच्छुभङ्कर्यै नमो नमः ॥

32

गजमस्तकसच्छायवक्षसे ते नमो नमः ।

गन्धर्वगणसङ्गीतरसिकायै नमो नमः ॥

33

घनसारसुगन्धाढ्यविग्रहायै नमो नमः ।

घटजादिमुनिप्रोक्तवैभवायै नमो नमः ॥

34

किङ्किणिध्वनिसंपन्नगमनायै नमो नमः ।

कङ्कणध्वनिना कृष्णप्रबोधिन्यै नमो नमः ॥

35

चकोरीकृतगोविन्दचन्द्रास्यायै नमो नमः ।

चपलाकोटिसंशोभिवसनायै नमो नमः ॥

36

छत्रचामरराजोपचारारहायै नमो नमः ।

छायामात्रप्रकटितवैभवायै नमो नमः ॥

37

जनार्दनकृतावासहृदयायै नमो नमः ।

जगज्जन्मादिलीलार्थप्रेरणायै नमो नमः ॥

38

झङ्कारकारिभ्रमरसङ्गीतायै नमो नमः ।

झरीभूतप्रेमरसवर्षिण्यै ते नमो नमः ॥

39

ज्ञानवैराग्यभक्तिश्रीप्रदायिन्यै नमो नमः ।

ज्ञानिनामपि चित्तस्य विमोहिन्यै नमो नमः ॥

40

टङ्कारशार्ङ्गनादेन संहृष्टायै नमो नमः ।

ढक्काडमरुभेर्यादिवादितायै नमो नमः ॥

41

तारुण्यरससंपूर्णविलासायै नमो नमः ।

ताटङ्कहारकेयूरभूषणायै नमो नमः ॥

42

थैथैतत्तोंतथाथेति नटनायै नमो नमः ।

दयासंपूर्णहृदयदेवतायै नमो नमः ॥

43

धैर्यशौर्ययशोवीर्यदायिन्यै ते नमो नमः ।

धराधरधरप्रीतमानसायै नमो नमः ॥

44

नारायणोरःस्थलनिलयायै नमो नमः ।

नामकीर्तनमात्रेण प्रसन्नायै नमो नमः ॥

45

पदारविन्दसंशोभिमञ्जीरायै नमो नमः ।

पद्मशोभितहस्ताभ्यां फलदायै नमो नमः ॥

46

फणीन्द्रशायिगोविन्ददयितायै नमो नमः ।

बलिभोजिप्रकटितक्षमायै ते नमो नमः ॥

47

भक्ताभीष्टप्रदानेऽतिकल्पकायै नमो नमः ।

भजनानन्ददप्रेमचरित्रायै नमो नमः ॥

48

मणिमुक्तामहाहारमण्डितायै नमो नमः ।

मन्दारपारिजातादिप्रसूनायै नमो नमः ॥

49

यज्ञभूमिस्थलप्राप्तजननायै नमो नमः ।

यववज्रादिरेखाढ्यचरणायै नमो नमः ॥

50

रमणीयमुखाम्भोजविकासायै नमो नमः ।

रतिकोट्यसीम-सौन्दर्यायै नमो नमः ॥

51

लावण्यसारसर्वस्वशरीरायै नमो नमः ।

लाक्षारसविलिप्तश्रीचरणायै नमो नमः ॥

52

वनिताजनसंसेव्यपार्श्वायै ते नमो नमः ।

वासुदेवमनोहारिवीक्षणायै नमो नमः ॥

53

शङ्करब्रह्मशक्रादिजनन्यै ते नमो नमः ।

शरणागतवात्सल्यसागरायै नमो नमः ॥

54

शान्त्यादिगुणसंयुक्तहृदयायै नमो नमः ।

समस्तजनकल्याणकारिण्यै ते नमो नमः ॥

55

हरिवक्षःस्थलानन्दप्रदायिन्यै नमो नमः ।

हानिवृद्ध्यादिरहितविग्रहायै नमो नमः ॥

56

क्षमादिगुणसंपन्नमानसायै नमो नमः ।

क्षयवर्जितसाम्राज्यप्रदायिन्यै नमो नमः ॥

57

अक्षीणधनदायिन्यै धनलक्ष्म्यै नमो नमः ।

सस्यवर्धनकारिण्यै धान्यलक्ष्म्यै नमो नमः ॥

58

सन्तानभाग्यदायिन्यै सन्तानलक्ष्म्यै नमो नमः ।

सर्वत्र जयदात्र्यै च जयलक्ष्म्यै नमो नमः ॥

59

वीराणां वीर्यवर्धिन्यै वीर्यलक्ष्म्यै नमो नमः ।

धीराणां धैर्यवर्धिन्यै धैर्यलक्ष्म्यै नमो नमः ॥

60

विदुषां ज्ञानवर्धिन्यै विद्यालक्ष्म्यै नमो नमः ।

मुमुक्षूणां मोक्षदायै मोक्षलक्ष्म्यै नमो नमः ॥

61

अष्टलक्ष्मीस्वरूपिण्यै महालक्ष्म्यै नमो नमः ।

इष्टार्थफलदायिन्यै श्रीदेव्यै ते नमो नमः ॥

62

सर्वलोकशरण्य-श्रीचरणायै नमो नमः ।

सर्वमङ्गलदायिन्यै देवतायै नमो नमः ॥

63

शरणागतसन्त्राणदीक्षितायै नमो नमः ।

शङ्करादिसुराणां च पितामह्यै नमो नमः ॥

64

हरिद्राकुङ्कुमालिप्तविग्रहायै नमो नमः ।

सर्वमङ्गलमाङ्गल्यस्वरूपिण्यै नमो नमः ॥

65

सरस्वतीशैलजाभ्यां सहितायै नमो नमः ।

सर्वेषामपि सन्मार्गप्रदर्शिन्यै नमो नमः ॥

66

समस्तभक्तकारुण्यवर्षिण्यै ते नमो नमः ।

संसारतापसंहारिचरणायै नमो नमः ॥

67

श्रीरङ्गनित्यसाम्राज्यमहाराज्ञ्यै नमो नमः ।

श्रीरङ्गराजराजेन्द्रमहिष्यै ते नमो नमः ॥

68

श्रीसद्गुरुरुवाच

एवं महीन्द्रेण समर्चिता सा ।

महेश्वरी संसदि लोकमाता।

समस्तभक्तेष्टफलप्रदात्री ।

सहस्रपत्रे सुतरां विरेजे ॥

69

ततस्तु राजा सकलोपचारैः

संपूजितां मङ्गलवाद्यघोषैः ।

निनाय रङ्गेश्वरमन्दिरं तां

निवेशयामास च तत्समीपे ॥

70

तदाऽभवद्व्योमनि पुष्पवृष्टि-

र्ननृतुश्च विद्याधरकिन्नरस्त्रियः ।

मृदङ्गढक्कामुरजा निनेदु-

श्चक्रुश्च विप्राः शुभवेदघोषम् ॥

71

तौ दम्पती मङ्गलवेषयुक्तौ

रङ्गे विमाने परिशोभमानौ ।

वैकुण्ठधान्यामिव निषेदतुश्च

नित्योत्सवौ नित्यकुतूहलौ च ॥

72

लक्ष्मीविवाहोत्सवमादरेण

कृत्वा नरेन्द्रो भवनं जगाम ।

दिने दिने भक्तजनैरुपेत्य

चकार सेवां पुरुषोत्तमस्य ॥

73

सर्वं सुसंपन्नमभून्मुकुन्द-

भक्त्या नरेन्द्रस्य गृहे सदैव ।

देशोऽपि सर्वत्र समृद्ध एव

रेजे हि रङ्गेशकृपाकटाक्षात् ॥

॥ इति श्रीकृष्णप्रेमिमहाप्रभुणा विरचिते दिव्यदेशवैभवे चतुर्थभागे श्रीरङ्गनायिकाया आविर्भावो नाम अष्टाविंशोऽध्यायः ॥
Ch.27 Caturtha Bhāge Ch.29